निरालम्ब उपनिषद्
From Wikisource
.. निरालम्बोपनिषत् .. यत्रालम्बालम्बिभावो विद्यते न कदाचन . ज्ञविज्ञसम्यग्ज्ञालम्बं निरालम्बं हरिं भजे .. ॐ पूर्णमदः पूर्णमिदं पूर्णात्पूर्णमुदच्यते . पूर्णस्य पूर्णमादाय पूर्णमेवावशिष्यते .. ॐ शान्तिः शान्तिः शान्तिः .. ॐ नमः शिवाय गुरवे सच्चिदानन्द मूर्तये . निष्प्रपञ्चाय शान्ताय निरालम्बाय तेजसे .. निरालम्बं समाश्रित्य सालम्बं विजहाति यः . स संन्यासी च योगी च कैवल्यं पदमश्नुते . एषमज्ञानजन्तूनां समस्तारिष्टशान्तये . यद्यद्बोद्धव्यमखिलं तदाशङ्क्य ब्रवीम्यहम् .. किं ब्रह्म . क ईश्वरः . को जीवः . का प्रकृतिः . कः परमात्मा . को ब्रह्मा . को विष्णुः . को रुद्रः . क इन्द्रः . कः शमनः . कः सूर्यः . कश्चन्द्रः . के सुराः . के असुराः . के पिशाचाः . के मनुष्याः . काः स्त्रियः . के पश्वादयः . किं स्थावरम् . के ब्राह्मणादयः . का जातिः . किं कर्म . किमकर्म . किं ज्ञानम् . किमज्ञानम् . किं सुखम् . किं दुःखम् . कः स्वर्गः . को नरकः . को बन्धः . को मोक्षः . क उपास्यः . कः शिष्यः . को विद्वान् . को मूढः . किमासुरम् . किं तपः . किं परमं पदम् . किं ग्राह्यम् . किमग्राह्यम् . कः संन्यासीत्याहशङ्क्याह ब्रह्मेति . स होवाच महदहङ्कारपृथिव्यप्तेजोवाय्वाकाशत्वेन बृहद्रूपेणाण्डकोशेन कर्मज्ञानार्थरूपतया भासमानमद्वितीयमखिलोपाधिविनिर्मुक्तं तत्सकलशक्त्युपबृंहितमनाद्यनन्तं शुद्धं शिवं शान्तं निर्गुणमित्यादि- वाच्यमनिर्वाच्यं चैतन्यं ब्रह्म .. ईश्वर इति च .. ब्रह्मैव स्वशक्तिं प्रकृत्यभिधेयामाश्रित्य लोकान्सृष्ट्वा प्रविश्यान्तर्यामित्वेन ब्रह्मादीनां बुद्धीन्द्रियनियन्तृत्वादीश्वरः .. जीव इति च ब्रह्मविष्ण्वीशानेन्द्रादीनां नामरूपद्वारा स्थूलोऽहमिति मिथ्याध्यासवशाज्जीवः .सोऽहमेकोऽपि देहारम्भकभेदवशाद्बहुजीवः . प्रकृतिरिति च ब्रह्मणः सकाशान्नानाविचित्रजगन्निर्माण- सामार्थ्यबुद्धिरूपा ब्रह्मशक्तिरेव प्रकृतिः . परमात्मेति च देहादेः परतरत्वद्ब्राह्मैव परमात्मा स ब्रह्मा स विष्णुः स इन्द्रः स शमनः स सूर्यः स चन्द्रस्ते सुरास्ते असुरास्ते पिशाचास्ते मनुष्यास्ताः स्त्रियस्ते पश्वादयस्तत्स्थावरं ते ब्राह्मणादयः . सर्वं खल्विदं ब्रह्म नेह नानास्ति किञ्चन . जातिरिति च . न चर्मणो न रक्तस्य न मांसस्य न चास्थिनः . न जातिरात्मनो जातिर्व्यवहारप्रकल्पिता . कर्मेति च क्रियमाणेन्द्रियैः कर्मण्यहं करोमीत्यध्यात्मनिष्ठतया कृतं कर्मैव कर्म . अकर्मेति च कर्तृत्वभोक्तृत्वा- द्यहङ्कारतया बन्धरूपं जन्मादिकारणं नित्यनैमित्तिकयागव्रततपोदानादिषु फलाभिसन्धानं यत्तदकर्म . ज्ञानमिति च देहेन्द्रियनिग्रहसद्गुरूपासन- श्रवणमनननिदिध्यासनैर्यद्यदृग्दृश्यस्वरूपं सर्वान्तरस्थं सर्वसमं घटपटादिपदार्थ- मिवाविकारं विकारेषु चैतन्यं विना किञ्चिन्नास्तीति साक्षात्कारानुभवो ज्ञानम् . अज्ञानमिति च रज्जौ सर्पभ्रान्तिरिवाद्वितीये सर्वानुस्यूते सर्वमये ब्रह्मणि देवतिर्यङ्नरस्थावरस्त्रीपुरुषवर्णाश्रम- बन्धमोक्षोपाधिनानात्मभेदकल्पित ज्ञानमज्ञानम् . सुखमिति च सच्चिदानन्दस्वरूपं ज्ञात्वानन्दरूपा या स्थितिः सैव सुखम् . दुःखमिति अनात्मरूपः विषयसङ्कल्प एव दुःखम् . स्वर्ग इति च सत्संसर्गः स्वर्गः . नरक इति च असत्संसारविषयजनसंसर्ग एव नरकः . बन्ध इति च अनाद्यविद्यावासनया जातोऽहमि- त्यादिसङ्कल्पो बन्धः . पितृमातृसहोदरदारापत्य- गृहारामक्षेत्रममता संसारावरणसङ्कल्पो बन्धः . कर्तृत्वाद्यहङ्कारसङ्कल्पो बन्धः . अणिमाद्यष्टैश्व- र्याशासिद्धसङ्कल्पो बन्धः . देवमनुष्याद्युपासना- कामसङ्कल्पो बन्धः . यमाद्यष्टाङ्गयोगसङ्कल्पो बन्धः . वर्णाश्रमधर्मकर्मसङ्कल्पो बन्धः . आज्ञाभयसंशयात्मगुणसङ्कल्पो बन्धः . यागव्रत- तपोदानविधिविधानज्ञानसम्भवो बन्धः . केवलमोक्षा- पेक्षासङ्कल्पो बन्धः . सङ्कल्पमात्रसंभवो बन्धः . मोक्ष इति च नित्यानित्यवस्तुविचारादनित्यसंसारसुख- दुःखविषयसमस्तक्षेत्रममताबन्धक्षयो मोक्षः . उपास्य इति च सर्वशरीरस्थचैतन्यब्रह्मप्रापको गुरुरुपास्यः . शिष्य इति च विद्याध्वस्तप्रपञ्चावगाहितज्ञानावशिष्टं ब्रह्मैव शिष्यः . विद्वानिति च सर्वान्तरस्थस्वसंविद्रूपवि- द्विद्वान् . मूढ इति च कर्तृत्वाद्यहङ्कारभावारूढो मूढः . आसुरमिति च ब्रह्मविष्ण्वीशानेन्द्रादीना- मैश्वर्यकामनया निरशनजपाग्निहोत्रादि- ष्वन्तरात्मानं सन्तापयति चात्युग्रराग- द्वेषविहिंसा दम्भाद्यपेक्षितं तप आसुरम् . तप इति च ब्रह्म सत्यं जगन्मिथ्येत्यपरोक्ष- ज्ञानाग्निना ब्रह्माद्यैश्वर्याशासिद्धसङ्कल्प- बीजसन्तापं तपः . परमं पदमिति च प्राणेन्द्रियाद्यन्तःकरणगुणादेः परतरं सच्चिदानन्दमयं नित्यमुक्तब्रह्मस्थानं परमं पदम् . ग्राह्यमिति च देशकालवस्तु- परिच्छेदराहित्यचिन्मात्रस्वरूपं ग्राह्यम् . अग्राह्यमिति च स्वस्वरूपव्यतिरिक्तमायामय- बुद्धीन्द्रियगोचरजगत्सत्यत्वचिन्तनमग्राह्यम् . संन्यासीति च सर्वधर्मान्परित्यज्य निर्ममो निरहङ्कारो भूत्वा ब्रह्मेष्टं शरणमुपगम्य तत्त्वमसि अहं ब्रह्मास्मि सर्वं खल्विदं ब्रह्म नेह नानास्ति किञ्चनेत्यादिमहावाक्यार्था- नुभवज्ञानाद्ब्रह्मैवाहमस्मीति निश्चित्य निर्विकल्पसमाधिना स्वतन्त्रो यतिश्चरति स संन्यासी स मुक्तः स पूज्यः स योगी स परमहंसः सोऽवधूतः स ब्राह्मण इति . इदं निरालम्बोपनिषदं योऽधीते गुर्वनुग्रहतः सोऽग्निपूतो भवति स वायुपूतो भवति न स पुनरावर्तते न स पुनरावर्तते पुनर्नाभिजायते पुनर्नाभिजायत इत्युपनिषत् .. ॐ पूर्णमदः पूर्णमिदं पूर्णात्पूर्णमुदच्यते . पूर्णस्य पूर्णमादाय पूर्णमेवावशिष्यते .. ॐ शान्तिः शान्तिः शान्तिः .. इति निरालम्बोपनिषत्समाप्ता ..

