नाद-बिन्दु उपनिषद्
From Wikisource
|| नादबिन्दूपनिषत् || || नादबिन्दूपनिषत् || ( ऋग्वेदीय योगोपनिषत्)
वैराजात्मोपासनया सञ्जातज्ञानवह्निना | दग्ध्वा कर्मत्रयं योगी यत्पदं याति तद्भजे ||
ॐ वाङ्मे मनसि प्रतिष्ठिता | मनो मे वाचि प्रतिष्टितम् |
आविरावीर्म एधि | वेदस्य मा आणीस्थः |श्रुतं मे मा
प्रहासीः |
अनेनाधीतेनाहोरात्रान्सन्दधामि |
ऋतं वदिष्यामि | सत्यं वदिष्यामि |
तन्मामवतु | तद्वक्तारमवतु |
अवतु मामवतु वक्तारम् ||
ॐ शान्तिः शान्तिः शान्तिः ||
ॐ अकारो दक्षिणः पक्ष उकारस्तूत्तरः स्मृतः | मकारं पुच्छमित्याहुरर्धमात्रा तु मस्तकम् || १||
पादादिकं गुणास्तस्य शरीरं तत्त्वमुच्यते | धर्मोऽस्य दक्षिणश्चक्षुरधर्मो योऽपरः स्मृतः || २||
भूर्लोकः पादयोस्तस्य भुवर्लोकस्तु जानुनि | सुवर्लोकः कटीदेशे नाभिदेशे महर्जगत् || ३||
जनोलोकस्तु हृद्देशे कण्ठे लोकस्तपस्ततः | भ्रुवोर्ललाटमध्ये तु सत्यलोको व्यवस्थितः || ४||
सहस्रार्णमतीवात्र मन्त्र एष प्रदर्शितः | एवमेतां समारूढो हंसयोगविचक्षणः || ५||
न भिद्यते कर्मचारैः पापकोटिशतैरपि | आग्नेयी प्रथमा मात्रा वायव्येषा तथापरा || ६||
भानुमण्डलसंकाशा भवेन्मात्रा तथोत्तरा | परमा चार्धमात्रा या वारुणीं तां विदुर्बुधाः || ७||
कालत्रयेऽपि यत्रेमा मात्रा नूनं प्रतिष्ठिताः | एष ओङ्कार आख्यातो धारणाभिर्निबोधत || ८||
घोषिणी प्रथमा मात्रा विद्युन्मात्रा तथाऽपरा | पतङ्गिनी तृतीया स्याच्चतुर्थी वायुवेगिनी || ९||
पञ्चमी नामधेया तु षष्ठी चैन्द्र्यभिधीयते | सप्तमी वैष्णवी नाम अष्टमी शाङ्करीति च || १०||
नवमी महती नाम धृतिस्तु दशमी मता | एकादशी भवेन्नारी ब्राह्मी तु द्वादशी परा || ११||
प्रथमायां तु मात्रायां यदि प्राणैर्वियुज्यते | भरते वर्षराजासौ सार्वभौमः प्रजायते || १२||
द्वितीयायां समुत्क्रान्तो भवेद्यक्षो महात्मवान् | विद्याधरस्तृतीयायां गान्धर्वस्तु चतुर्थिका || १३||
पञ्चम्यामथ मात्रायां यदि प्राणैर्वियुज्यते | उषितः सह देवत्वं सोमलोके महीयते || १४||
षष्ठ्यामिन्द्रस्य सायुज्यं सप्तम्यां वैष्णवं पदम् | अष्टम्यां व्रजते रुद्रं पशूनां च पतिं तथा || १५||
नवम्यां तु महर्लोकं दशम्यां तु जनं व्रजेत् | एकादश्यां तपोलोकं द्वादश्यां ब्रह्म शाश्वतम् || १६||
ततः परतरं शुद्धं व्यापकं निर्मलं शिवम् | सदोदितं परं ब्रह्म ज्योतिषामुदयो यतः || १७||
अतीन्द्रियं गुणातीतं मनो लीनं यदा भवेत् | अनूपमं शिवं शान्तं योगयुक्तं सदा विशेत् || १८||
तद्युक्तस्तन्मयो जन्तुः शनैर्मुञ्चेत्कलेवरम् | संस्थितो योगचारेण सर्वसङ्गविवर्जितः || १९||
ततो विलीनपाशोऽसौ विमलः कमलाप्रभुः | तेनैव ब्रह्मभावेन परमानन्दमश्नुते || २०||
आत्मानं सततं ज्ञात्वा कालं नय महामते | प्रारब्धमखिलं भुञ्जन्नोद्वेगं कर्तुमर्हसि || २१||
उत्पन्ने तत्त्वविज्ञाने प्रारब्धं नैव मुञ्चति | तत्त्वज्ञानोदयादूर्ध्वं प्रारब्धं नैव विद्यते || २२||
देहादीनामसत्त्वात्तु यथा स्वप्नो विबोधतः | कर्म जन्मान्तरीयं यत्प्रारब्धमिति कीर्तितम् || २३||
तत्तु जन्मान्तराभावात्पुंसो नैवास्ति कर्हिचित् | स्वप्नदेहो यथाध्यस्तस्तथैवायं हि देहकः || २४||
अध्यस्तस्य कुतो जन्म जन्माभावे कुतः स्थितिः | उपादानं प्रपञ्चस्य मृद्भाण्डस्येव पश्यति || २५||
अज्ञानं चेति वेदान्तैस्तस्मिन्नष्टे क्व विश्वता | यथा रज्जुअं परित्यज्य सर्पं गृह्णाति वै भ्रमात् || २६||
तद्वत्सत्यमविज्ञाय जगत्पश्यति मूढधीः | रज्जुखण्डे परिज्ञाते सर्परूपं न तिष्ठति || २७||
अधिष्ठाने तथा ज्ञाते प्रपञ्चे शून्यतां गते | देहस्यापि प्रपञ्चत्वात्प्रारब्धावस्थितिः कृतः || २८||
अज्ञानजनबोधार्थं प्रारब्धमिति चोच्यते | ततः कालवशादेव प्रारब्धे तु क्षयं गते || २९||
ब्रह्मप्रणवसन्धानं नादो ज्योतिर्मयः शिवः | स्वयमाविर्भवेदात्मा मेघापायेंऽशुमानिव || ३०||
सिद्धासने स्थितो योगी मुद्रां सन्धाय वैष्णवीम् | शृणुयाद्दक्षिणे कर्णे नादमन्तर्गतं सदा || ३१||
अभ्यस्यमानो नादोऽयं बाह्यमावृणुते ध्वनिम् | पक्षाद्विपक्षमखिलं जित्वा तुर्यपदं व्रजेत् || ३२||
श्रूयते प्रथमाभ्यासे नादो नानाविधो महान् | वर्धमानस्तथाभ्यासे श्रूयते सूक्ष्मसूक्ष्मतः || ३३||
आदौ जलधिमूतभेरीनिर्झरसम्भवः | मध्ये मर्दलशब्दाभो घण्टाकाहलजस्तथा || ३४||
अन्ते तु किङ्किणीवंशवीणाभ्रमरनिःस्वनः | इति नानाविधा नादाः श्रूयन्ते सूक्ष्मसूक्ष्मतः || ३५||
महति श्रूयमाणे तु महाभेर्यादिकध्वनौ | तत्र सूक्ष्मं सूक्ष्मतरं नादमेव परामृशेत् || ३६||
घनमुत्सृज्य वा सूक्ष्मे सूक्ष्ममुत्सृज्य वा घने | रममाणमपि क्षिप्तं मनो नान्यत्र चालयेत् || ३७||
यत्र कुत्रापि वा नादे लगति प्रथमं मनः | तत्र तत्र स्थिरीभूत्वा तेन सार्धं विलीयते || ३८||
विस्मृत्य सकलं बाह्यं नादे दुग्धाम्बुवन्मनः | एकीभूयाथ सहसा चिदाकाशे विलीयते || ३९||
उदासीनस्ततो भूत्वा सदाभ्यासेन संयमी | उन्मनीकारकं सद्यो नादमेवावधारयेत् || ४०||
सर्वचिन्तां समुत्सृज्य सर्वचेष्टाविवर्जितः | नादमेवानुसंदध्यान्नादे चित्तं विलीयते || ४१||
मकरन्दं पिबन्भृङ्गो गन्धान्नापेक्षते तथा | नादासक्तं सदा चित्तं विषयं न हि काङ्क्षति || ४२||
बद्धः सुनादगन्धेन सद्यः संत्यक्तचापलः | नादग्रहणतश्चित्तमन्तरङ्गभुजङ्गमः || ४३||
विस्मृत्य विश्वमेकाग्रः कुत्रचिन्न हि धावति | मनोमत्तगजेन्द्रस्य विषयोद्यानचारिणः || ४४||
नियामनसमर्थोऽयं निनादो निशिताङ्कुशः | नादोऽन्तरङ्गसारङ्गबन्धने वागुरायते || ४५||
अन्तरङ्गसमुद्रस्य रोधे वेलायतेऽपि च | ब्रह्मप्रणवसंलग्ननादो ज्योतिर्मयात्मकः || ४६||
मनस्तत्र लयं याति तद्विष्णोः परमं पदम् | तावदाकाशसङ्कल्पो यावच्छब्दः प्रवतते || ४७||
निःशब्दं तत्परं ब्रह्म परमात्मा समीर्यते | नादो यावन्मनस्तावन्नादान्तेऽपि मनोन्मनी || ४८||
सशब्दश्चाक्षरे क्षीणे निःशब्दं परमं पदम् | सदा नादानुसन्धानात्संक्षीणा वासना भवेत् || ४९||
निरञ्जने विलीयेते मनोवायू न संशयः | नादकोटिसहस्राणि बिन्दुकोटिशतानि च || ५०||
सर्वे तत्र लयं यान्ति ब्रह्मप्रणवनादके | सर्वावस्थाविनिर्मुक्तः सर्वचिन्ताविवर्जितः || ५१||
मृतवत्तिष्ठते योगी स मुक्तो नात्र संशयः | शङ्खदुन्दुभिनादं च न श्रुणोति कदाचन || ५२||
काष्ठवज्ज्ञायते देह उन्मन्यावस्थया ध्रुवम् | न जानाति स शीतोष्णं न दुःखं न सुखं तथा || ५३||
न मानं नावमानं च संत्यक्त्वा तु समाधिना | अवस्थात्रयमन्वेति न चित्तं योगिनः सदा || ५४||
जाग्रन्निद्राविनिर्मुक्तः स्वरूपावस्थतामियात् || ५५|| दृष्टिः स्थिरा यस्य विना सदृश्यम्
वायुः स्थिरो यस्य विना प्रयत्नम् |
चित्तं स्थिरं यस्य विनावलम्बम्
स ब्रह्मतारान्तरनादरूपः || ५६||
इत्युपनिषत् || ॐ वाङ्मे मनसीति शान्तिः ||
इति नादबिन्दूपनिषत्समाप्ता ||

