देवि उपनिषद्

From Wikisource

Jump to: navigation, search

.. देवी उपनिषत् ..

.. अथ देव्युपनिषत् ..
अथर्ववेदीय शाक्तोपनिषत् ..

श्रीदेव्युपनिषद्विद्यावेद्यापारसुखाकृति . त्रैपदं ब्रह्मचैतन्यं रामचन्द्रपदं भजे ..

ॐ भद्रं कर्णेभिः शृणुयाम देवाः

             भद्रं पश्येमाक्षभिर्यजत्राः .
       स्थिरैरङ्गैस्तुष्टुवाँसस्तनूभि- 
             व्यर्शेम देवहितं यदायुः ..
       स्वस्ति न इन्द्रो वृद्धश्रवाः
             स्वस्ति नः पूषा विश्ववेदाः .
       स्वस्ति नस्तार्क्ष्यो अरिष्टनेमिः
              स्वस्ति नो बृहस्पतिर्दध्हातु ..

ॐ शान्तिः शान्तिः शान्तिः .. हरिः ॐ .. सर्वे वै देवा देवीमुपतस्थुः . कासि त्वं महादेवि . साब्रवीदहं ब्रह्मस्वरूपिणी . मत्तः प्रकृतिपुरुषात्मकं जगच्छून्यं चाशून्यं च . अहमानन्दानानन्दाः विज्ञानाविज्ञाने अहम् . ब्रह्मा ब्रह्मणि वेदितव्ये . इत्याहाथर्वणि श्रुतिः .. १.. अहं पञ्चभूतान्यभूतानि . अहमखिलं जगत् . वेदोऽहमवेदोऽहम् . विद्याहमविद्याहम् . अजाहमनजाहम् . अधश्चोर्ध्वं च तिर्यक्चाहम् . अहं रुद्रेभिर्वसुभिश्चराम्यहमादित्यैरुत विश्वदेवैः . अहं मित्रावरुणावुभौ बिभर्म्यहमिन्द्राग्नी अहमश्विनावुभौ . अहं सोमं त्वष्टारं पूषणं भगं दधाम्यहम् . विष्णुमुरुक्रमं ब्रह्माणमुत प्रजापतिं दधामि . अहं दधामि द्रविणं हविष्मते सुप्राव्ये ३ यजमानाय सुन्वते .. २.. अहं राष्ट्री सङ्गमनी वसूनामहं सुवे पितरमस्य मूर्धन्मम योनिरप्स्वन्तः समुद्रे . य एवं वेद स देवीपदमाप्नोति . ते देवा अब्रुवन् . नमो देव्यै महादेव्यै सततं नमः . नमः प्रकृत्यै भद्रायै नियताः प्रणताः स्म ताम् .. ३.. तामग्निवर्णां तपसा ज्वलन्तीं वैरोचनीं कर्मफलेषु जुष्टाम् . दुर्गां देवीं शरणमहं प्रपद्ये सुतरां नाशयते तमः .. ४.. देवीं वाचमजनयन्त देवास्तां विश्वरूपाः पशवो वदन्ति . सा नो मन्द्रेशमूर्जं दुहाना धेनुर्वागस्मानुपसुष्टुतैतु .. ५.. कालरात्रिं ब्रह्मस्तुतां वैष्णवीं स्कन्दमातरम् . सरस्वतीमदितिं दक्षदुहितरं नमामः पावनां शिवाम् .. ६.. महालक्ष्मीश्च विद्महे सर्वसिद्धिश्च धीमहि . तन्नो देवी प्रचोदयात् .. ७.. अदितिर्ह्यजनिष्ट दक्ष या दुहिता तव . तां देवा अन्वजायन्त भद्रा अमृतबन्धवः .. ८.. कामो योनिः कामकला वज्रपाणिर्गुहा हसा . मातरिश्वाभ्रमिन्द्रः पुनर्गुहा सकला मायया च पुनः कोशा विश्वमाता दिवि द्योम् .. ९.. एषात्मशक्तिः . एषा विश्वमोहिनी पाशाङ्कुशधनुर्बाणधरा . एषा श्रीमहाविद्या . य एवं वेद स शोकं तरति . नमस्ते अस्तु भगवति भवति मातरस्मान्पातु सर्वतः . सैषाष्टौ वसवः . सैषैकादश रुद्राः . सैषा द्वादशादित्याः . सैषा विश्वेदेवाः सोमपा असोमपाश्च . सैषा यातुधानु असुरा रक्षांसि पिशाचयक्षाः सिद्धाः . सैषा सत्त्वरजस्तमांसि . सैषा प्रजापतीन्द्रमनवः . सैषा ग्रहा नक्षत्रज्योतींषि कलाकाष्ठादिकालरूपिणी . तामहं प्रणौमि नित्यम् . तापापहारिणीं देवीं भुक्तिमुक्तिप्रदायिनीम् . अनन्तां विजयां शुद्धां शरण्यां शिवदां शिवाम् .. १०.. वियदाकारसंयुक्तं वीतिहोत्रसमन्वितम् . अर्धेन्दुलसितं देव्या बीजं सर्वार्थसाधकम् .. ११.. एवमेकाक्षरं मन्त्रं यतयः शुद्धचेतसः . ध्यायन्ति परमानन्दमया ज्ञानाम्बुराशयः .. १२.. वाङ्मया ब्रह्मभूतस्मात्षष्ठं वक्त्रसमन्वितम् . सूर्यो वामश्रोत्रबिन्दुः संयुताष्टकतृतीयकः .. १३.. नारायणेन संयुक्तो वायुश्चाधरसंयुतः . विच्चे नवार्णकोऽर्णः स्यान्महदानन्ददायकः .. १४.. हृत्पुण्डरीकमध्यस्थां प्रातःसूर्यसमप्रभाम् . पाशाङ्कुशधरां सौम्यां वरदाभयहस्तकाम् . त्रिनेत्रां रक्तवसनां भक्तकामदुघां भजे .. १५.. नमामि त्वामहं देवीं महाभयविनाशिनीम् . महादुर्गप्रशमनीं महाकारुण्यरूपिणीम् .. १६.. यस्याः स्वरूपं ब्रह्मादयो न जानन्ति तस्मादुच्यतेऽज्ञेया . यस्या अन्तो न विद्यते तस्मादुच्यते अनन्ता . यस्या ग्रहणं नोपलभ्यते तस्मादुच्यतेऽलक्ष्या . यस्या जननं नोपलभ्यते तस्मादुच्यतेऽजा . एकैव सर्वत्र वर्तते तस्मादुच्यत एका . एकैव विश्वरूपिणी तस्मादुच्यते नैका ऽत एवोच्यतेऽज्ञेयानन्तालक्ष्याजैका नैकेति . मन्त्राणां मातृका देवी शब्दानां ज्ञानरूपिणी . ज्ञानानां चिन्मयातीता शून्यानां शून्यसाक्षिणी .. १७.. यस्याः परतरं नास्ति सैषा दुर्गा प्रकीर्तिता . [दुर्गात्संत्रायते यस्माद्देवी दुर्गेति कथ्यते .. १८.. प्रपद्ये शरणं देवीं दुंदुर्गे दुरितं हर ..] तां दुर्गां दुर्गमां देवीं दुराचारविघातिनीम् . नमामि भवभीतोऽहं संसारार्णवतारिणीम् .. १९.. इदमथर्वशीर्षं योऽधीते पञ्चाथर्वशीर्षजपफलमवाप्नोति . इदमथर्वशीर्षं ज्ञात्वा योऽर्चां स्थापयति . शतलक्षं प्रजप्त्वापि सोऽर्चासिद्धिं च विन्दति . शतमष्टोत्तरं चास्याः पुरश्चर्याविधिः स्मृतः .. २०.. दशवारं पठेद्यस्तु सद्यः पापैः प्रमुच्यते . महादुर्गाणि तरति महादेव्याः प्रसादतः .. २१.. प्रातरधीयानो रात्रिकृतं पापं नाशयति . सायमधीयानो दिवसकृतं पापं नाशयति . तत्सायं प्रातः प्रयुञ्जानः पापोऽपापो भवति . निशीथे तुरीयसन्ध्यायां जप्त्वा वाक्सिद्धिर्भवति . नूतनप्रतिमायां जप्त्वा देवतासांनिध्यं भवति . प्राणप्रतिष्ठायां जप्त्वा प्राणानां प्रतिष्ठा भवति . भौमाश्विन्यां महादेवी संनिधौ जप्त्वा महामृत्युं तरति . य एवं वेदेत्युपनिषत् .. २२..

ॐ भद्रं कर्णेभिः शृणुयाम देवा

             भद्रं पश्येमाक्षभिर्यजत्राः .
       स्थिरैरङ्गैस्तुष्टुवाँसस्तनूभि- 
             र्व्यशेम देवहितं यदायुः ..
       स्वस्ति न इन्द्रो वृद्धश्रवाः
             स्वस्ति नः पूषा विश्ववेदाः .
       स्वस्ति नस्तार्क्ष्यो अरिष्टनेमिः
             स्वस्ति नो बृहस्पतिर्दधातु ..

ॐ शान्तिः शान्तिः शान्तिः .. .. इति श्रीदेव्युपनिषत्समाप्ता ..

Personal tools