त्रिषिखि उपनिषद्

From Wikisource

Jump to: navigation, search

.. त्रिशिखिब्राह्मणोपनिषत् ..


योगज्ञानैकसंसिद्धशिवतत्त्वतयोज्ज्वलम् .

प्रतियोगिविनिर्मुक्तं परंब्रह्म भवाम्यहम् ..

ॐ पूर्णमदः पूर्णमिदं पूर्णात्पूर्णमुदच्यते .

पूर्णस्य पूर्णमादाय पूर्णमेवावशिष्यते ..

ॐ शान्तिः शान्तिः शान्तिः ..

ॐ त्रिशिखी ब्राह्मण आदित्यलोकं जगाम तं गत्वोवाच .

भगवन् किं देहः किं प्राणः किं कारण किमात्मा स

होवाच सर्वमिदं शिव एव विजानीहि . किंतु नित्यः शुद्धो

निरञ्जनो विभुरद्वयः शिव एकः स्वेन भासेदं सर्वं

दृष्ट्वा तप्तायःपिण्डवदेकं भिन्नवदवभासते .

तद्भासकं किमिति चेदुच्यते . सच्छब्दवाच्य-

मविद्याशबलं ब्रह्म . ब्रह्मणोऽव्यक्तम् . अव्यक्तान्महत् .

महतोऽहङ्कारः . अहङ्कारात्पञ्चतन्मात्राणि .

पञ्चतन्मात्रेभ्यः पञ्चमहाभूतानि .

पञ्चमहाभूतेभ्योऽखिलं जगत् ..

तदखिलं किमिति . भूतविकारविभागादिरिति . एकस्मिन्पिण्डे

कथं भूतविकारविभाग इति . तत्तत्कार्यकारणभेदरूपे-

णांशतत्त्ववाचकवाच्यस्थानभेदविषयदेवताकोश-

भेदविभागा भवन्ति . अथाकाशोऽन्तःकरणमनोबुद्धि-

चिताहङ्कारः . वायुः समानोदानव्यानापानप्राणाः .

वह्निः श्रोत्रत्वक्चक्षुर्जिह्वाघ्राणानि . आपः शब्दस्पर्श-

रूपरसगन्धाः . पृथिवी वाक्पाणिपादपायूपस्थाः .

ज्ञानसङ्कल्पनिश्चयानुसन्धानाभिमाना आकाश-

कार्यान्तःकरणविषयाः . समीकरणोन्ननयनग्रहण-

श्रवणोच्छ्वासा वायुकार्यप्राणादिविषयाः .

शब्दस्पर्शरूपरसगन्धा अग्निकार्यज्ञानेन्द्रिय-

विषया अबाश्रिताः . वचनादानगमनविसर्गानन्दाः

पृथिवीकार्यकर्मेन्द्रियविषयाः . कर्मज्ञानेन्द्रिय-

विषयेषु प्राणतन्मात्रविषया अन्तर्भूताः .

मनोबुद्ध्योश्चित्ताहङ्कारौ चान्तर्भूतौ .

अवकाशविधूतदर्शनपिण्डीईकरणधारणाः सूक्ष्मतमा

जैवतन्मात्रविषयाः . एवं द्वादशाङ्गानि

आध्यात्मिकान्याधिभौतिकान्याधिदैविकानि . अत्र

निशाकरचतुर्मुखदिग्वातार्कवरुणाश्व्यग्नीन्द्रोपेन्द्र-

प्रजापतियमा इत्यक्षाधिदेवतारूपैर्द्वादश-

नाड्यन्तःप्रवृत्ताः प्राणा एवाङ्गानि अङ्गज्ञानं

तदेव ज्ञातेति . अथ व्योमानिलानलजलान्नानां

पञ्चीकरणमिति . ज्ञातृत्वं समानयोगेन श्रोत्रद्वारा

शब्दगुणो वागधिष्ठित आकाशे तिष्ठति आकाशस्तिष्ठति .

मनोव्यानयोगेन त्वग्द्वारा स्पर्शगुणः पाण्यधिष्ठितो

वायौ तिष्ठति वायुस्तिष्ठति . बुद्धिरुदानयोगेन

चक्षुर्द्वारा रूपगुणः पादाधिष्ठितोऽग्नौ

तिष्ठत्यग्निस्तिष्ठति . चित्तमपानयोगेन जिह्वाद्वारा

रसगुण उपस्थाधिष्ठितोऽप्सु तिष्ठत्यापस्तिष्ठन्ति .

अहङ्कारः प्राणयोगेन घ्राणद्वारा गन्धगुणो

गुदाधिष्ठितः पृथिव्यां तिष्ठति पृथिवी तिष्ठति

य एवं वेद . अत्रैते श्लोका भवन्ति .

पृथग्भूते षोडश कलाः स्वार्थभागान्परान्क्रमात् .

अन्तःकरणव्यानाक्षिरसपायुनभःक्रमात् .. १..

मुख्यात्पूर्वोत्तरैर्भागैर्भूतेभूते चतुश्चतुः .

पूर्वमाकाशमाश्रित्य पृथिव्यादिषु संस्थिताः .. २..

मुख्यादूर्ध्वे परा ज्ञेया न परानुत्तरान्विदुः .

एवमंशो ह्यभूत्तस्मात्तेभ्यश्चांशो ह्यभूत्तथा .. ३..

तस्मादन्योन्यमाश्रित्य ह्योतं प्रोतमनुक्रमात् .

पञ्चभूतमयी भूमिः सा चेतनसमन्विता .. ४..

तत ओषधयोऽन्नं च ततः पिण्डाश्चतुर्विधाः .

रसासृङ्मांसमेदोऽस्थिमज्जाशुक्राणि धातवः .. ५..

केचित्तद्योगतः पिण्डा भूतेभ्यः संभवाः क्वचित् .

तस्मिन्नन्नमयः पिण्डो नाभिमण्डलसंस्थिताः .. ६..

अस्य मध्येऽस्ति हृदयं सनालं पद्मकोशवत् .

सत्त्वान्तर्वर्तिनो देवाः कर्त्रहङ्कारचेतनाः .. ७..

अस्य बीजं तमःपिण्डं मोहरूपं जडं घनम् .

वर्तते कण्ठमाश्रित्य मिश्रीभूतमिदं जगत् .. ८..

प्रत्यगानन्दरूपात्मा मूर्ध्नि स्थाने परे पदे .

अनन्तशक्तिसंयुक्तो जगद्रूपेण भासते .. ९..

सर्वत्र वर्तते जाग्रत्स्वप्नं जाग्रति वर्तते .

सुषुप्तं च तुरीयं च नान्यावस्थासु कुत्रचित् .. १०..

सर्वदेशेष्वनुस्यूतश्चतूरूपः शिवात्मकः .

यथा महाफले सर्वे रसाः सर्वप्रवर्तकाः .. ११..

तथैवान्नमये कोशे कोशास्तिष्ठन्ति चान्तरे .

यथा कोशस्तथा जीवो यथा जीवस्तथा शिवः .. १२..

सविकारस्तथा जीवो निर्विकारस्तथा शिवः .

कोशास्तस्य विकारास्ते ह्यवस्थासु प्रवर्तकाः .. १३..

यथा रसाशये फेनं मथनादेव जायते .

मनो निर्मथनादेव विकल्पा बहवस्तथा .. १४..

कर्मणा वर्तते कर्मी तत्त्यागाच्छान्तिमाप्नुयात् .

अयने दक्षिणे प्राप्ते प्रपञ्चाभिमुखं गतः .. १५..

अहङ्काराभिमानेन जीवः स्याद्धि सदाशिवः .

स चाविवेकप्रकृतिसङ्गत्या तत्र मुह्यते .. १६..

नानायोनिशतं गत्वा शेतेऽसौ वासनावशात् .

विमोक्षात्संचरत्येव मत्स्यः कूलद्वयं यथा .. १७..

ततः कालवशादेव ह्यात्मज्ञानविवेकतः .

उत्तराभिमुखो भूत्वा स्थानात्स्थानान्तरं क्रमात् .. १८..

मूर्ध्न्याधायात्मनः प्राणान्योगाभ्यासं स्थितश्चरन् .

योगात्सञ्जायते ज्ञानं ज्ञानाद्योगः प्रवर्तते .. १९..

योगज्ञानपरो नित्यं स योगी न प्रणश्यति .

विकारस्थं शिवं पश्येद्विकारश्च शिवेन तु .. २०..

योगप्रकाशकं योगैर्ध्यायेच्चानन्य भावनः .

योगज्ञाने न विद्येते तस्य भावो न सिद्ध्यति .. २१..

तस्मादभ्यासयोगेन मनःप्राणान्निरोधयेत् .

योगी निशितधारेण क्षुरेणैव निकृन्तयेत् .. २२..

शिखा ज्ञानमयी वृत्तिर्यमाद्यष्टाङ्गसाधनैः .

ज्ञानयोगः कर्मयोग इति योगो द्विधा मतः .. २३..

क्रियायोगमथेदानीं श्रुणु ब्राह्मणसत्तम .

अव्याकुलस्य चित्तस्य बन्धनं विषये क्वचित् .. २४..

यत्संयोगो द्विजश्रेष्ठ स च द्वैविध्यमश्नुते .

कर्म कर्तव्यमित्येव विहितेष्वेव कर्मसु .. २५..

बन्धनं मनसो नित्यं कर्मयोगः स उच्यते .

यत्त चित्तस्य सततमर्थे श्रेयसि बन्धनम् .. २६..

ज्ञानयोगः स विज्ञेयः सर्वसिद्धिकरः शिवः .

यस्योक्तलक्षणे योगे द्विविधेऽप्यव्ययं मनः .. २७..

स याति परमं श्रेयो मोक्षलक्षणमञ्जसा .

देहेन्द्रियेषु वैराग्यं यम इत्युच्यते बुधैः .. २८..

अनुरक्तिः परे तत्त्वे सततं नियमः स्मृतः .

सर्ववस्तुन्युदासीनभावमासनमुत्तमम् .. २९..

जगत्सर्वमिदं मिथ्याप्रतीतिः प्राणसंयमः .

चित्तस्यान्तर्मुखीभावः प्रत्याहारस्तु सत्तम .. ३०..

चित्तस्य निश्चलीभावो धारणा धारणं विदुः .

सोऽहं चिन्मात्रमेवेति चिन्तनं ध्यानमुच्यते .. ३१..

ध्यानस्य विस्मृतिः सम्यक्समाधिरभिधीयते .

अहिंसा सत्यमस्तेयं ब्रह्मचर्यं दयार्जवम् .. ३२..

क्षमा धृतिर्मिताहारः शौचं चेति यमादश .

तपःसन्तुष्टिरास्तिक्यं दानमाराधनं हरेः .. ३३..

वेदान्तश्रवणं चैव ह्रीर्मतिश्च जपो व्रतम् .. इति .

आसनानि तदङ्गानि स्वस्तिकादीनि वै द्विज .. ३४..

वर्ण्यन्ते स्वस्तिकं पादतलयोरुभयोरपि .

पूर्वोत्तरे जानुनी द्वे कृत्वासनमुदीरितम् .. ३५..

सव्ये दक्षिणगुल्फं तु पृष्ठपार्श्वे नियोजयेत् .

दक्षिणेऽपि तथा सव्यं गोमुखं गोर्मुखं यथा .. ३६..

एक.म् चरणमन्यस्मिन्नूरावारोप्य निश्चलः .

आस्ते यदिदमेनोघ्नं वीरासनमुदीरितम् .. ३७..

गुदं नियम्य गुल्फाभ्यां व्युत्क्रमेण समाहितः .

योगासनं भवेदेतदिति योगविदो विदुः .. ३८..

ऊर्वोरुपरिवै धत्ते यदा पादतले उभे .

पद्मासनं भवेदेतत्सर्वव्याधिविषापहम् .. ३९..

पद्मासनं सुसंस्थाप्य तदङ्गुष्ठद्वयं पुनः .

व्युत्क्रमेणैव हस्ताभ्यां बद्धपद्मासनं भवेत् .. ४०..

पद्मासनं सुसंस्थाप्य जानूर्वोरन्तरे करौ .

निवेश्य भूमावातिष्ठेद्व्योमस्थः कुक्कुटासनः .. ४१..

कुक्कुटासनबन्धस्थो दोर्भ्यां संबध्य कन्धरम् .

शेते कूर्मवदुत्तान एतदुत्तानकूर्मकम् .. ४२..

पादाङ्गुष्ठौ तु पाणिभ्यां गृहीत्वा श्रवणावधि .

धनुराकर्षकाकृष्टं धनुरासनमीरितम् .. ४३..

सीवनीं गुल्फदेशाभ्यां निपीड्य व्युत्क्रमेण तु .

प्रसार्य जानुनोर्हस्तावासनं सिंहरूपकम् .. ४४..

गुल्फौ च वृषणस्याधः सीवन्युभयपार्श्वयोः .

निवेश्य पादौ हस्ताभ्यां बध्वा भद्रासनं भवेत् .. ४५..

सीवनीपार्श्वमुभयं गुल्फाभ्यां व्युत्क्रमेण तु .

निपीड्यासनमेतच्च मुक्तासनमुदीरितम् .. ४६..

अवष्टभ्य धरां सम्यक्तलाभ्यां हस्तयोर्द्वयोः .

कूर्परौ नाभिपार्श्वे तु स्थापयित्वा मयूरवत् .. ४७..

समुन्नतशिरःपादं मयूरासनमिष्यते .

वामोरुमूले दक्षाङ्घ्रिं जान्वोर्वेष्टितपाणिना .. ४८..

वामेन वामाङ्गुष्ठं तु गृहीतं मत्स्यपीठकम् .

योनिं वामेन संपीड्य मेढ्रादुपरि दक्षिणम् .. ४९..

ऋजुकायः समासीनः सिद्धासनमुदीरितम् .

प्रसार्य भुवि पादौ तु दोर्भ्यामङ्गुष्ठमादरात् .. ५०..

जानूपरि ललाटं तु पश्चिमं तानमुच्यते .

येनकेन प्रकारेण सुखं धार्यं च जायते .. ५१..

तत्सुखासनमित्युक्तमशक्तस्तत्समाचरेत् .

आसनं विजितं येन जितं तेन जगत्त्रयम् .. ५२..

यमैश्च नियमैश्चैव आसनैश्च सुसंयतः .

नाडीशुद्धिं च कृत्वादौ प्राणायामं समाचरेत् .. ५३..

देहमानं स्वाङ्गुलिभिः षण्णवत्यङ्गुलायतम् .

प्राणः शरीरादधिको द्वादशाङ्गुलमानतः .. ५४..

देहस्थमनिलं देहसमुद्भूतेन वह्निना .

न्यूनं समं वा योगेन कुर्वन्ब्रह्मविदिष्यते .. ५५..

देहमध्ये शिखिस्थानं तप्तजाम्बूनदप्रभम् .

त्रिकोणं द्विपदामन्यच्चतुरस्रं चतुष्पदम् .. ५६..

वृत्तं विहङ्गमानां तु षडस्रं सर्पजन्मनाम् .

अष्टास्रं स्वेदजानां तु तस्मिन्दीपवदुज्ज्वलम् .

कन्दस्थानं मनुष्याणां देहमध्यं नवाङ्गुलम् .

चतुरङ्गुलमुत्सेधं चतुरङ्गुलमायतम् .. ५७..

अण्डाकृति तिरश्चां च द्विजानां च चतुष्पदाम् .

तुन्दमध्यं तदिष्टं वै तन्मध्यं नाभिरिप्यते .. ५८..

तत्र चक्रं द्वादशारं तेषु विष्ण्वादिमूर्तयः .

अहं तत्र स्थितश्चक्रं भ्रामयामि स्वमायया .. ५९..

अरेषु भ्रमते जीवः क्रमेण द्विजसत्तम .

तन्तुपञ्जरमध्यस्था यथा भ्रमति लूतिका .. ६०..

प्राणाधिरूढश्चरति जीवस्तेन विना नहि .

तस्योर्ध्वे कुण्डलीस्थानं नाभेस्तिर्यगथोर्ध्वतः .. ६१..

अष्टप्रकृतिरूपा सा चाष्टधा कुण्डलीकृता .

यथावद्वायुसारं च ज्वलनादि च नित्यशः .. ६२

परितः कन्दपार्श्वे तु निरुध्येव सदा स्थिता .

मुखेनैव समावेष्ट्य ब्रह्मरन्ध्रमुखं तथा .. ६३..

योगकालेन मरुता साग्निना बोधिता सती .

स्फुरिता हृदयाकाशे नागरूपा महोज्ज्वला .. ६४..

अपनाद्द्वयङ्गुलादूर्ध्वमधो मेढ्रस्य तावता .

देहमध्यं मनुष्याणां हृन्मध्यं तु चतुष्पदाम् .. ६५..

इतरेषां तुन्दमध्ये प्राणापानसमायुताः .

चतुष्प्रकारद्व्ययुते देहमध्ये सुषुम्नया .. ६६..

कन्दमध्ये स्थिता नाडी सुषुम्ना सुप्रतिष्ठिता .

पद्मसूत्रप्रतीकाशा ऋजुरूर्ध्वप्रवर्तिनी .. ६७..

ब्रह्मणो विवरं यावद्विद्युदाभासनालकम् .

वैष्णवी ब्रह्मनाडी च निर्वाणप्राप्तिपद्धतिः .. ६८..

इडा च पिङ्गला चैव तस्याः सव्येतरे स्थिते .

इडा समुत्थिता कन्दाद्वामनासापुटावधि .. ६९..

पिङ्गला चोत्थिता तस्माद्दक्षनासापुटावधि .

गान्धारी हस्तिजिह्वा च द्वे चान्ये नाडिके स्थिते .. ७०..

पुरतः पृष्ठतस्तस्य वामेतरदृशौ प्रति .

पूषा यशस्विनी नाड्यौ तस्मादेव समुत्थिते .. ७१..

सव्येतरश्रुत्यवधि पायुमूलादलम्बुअसा .

अधोगता शुभा नाडी मेढ्रान्तावधिरायता .. ७२..

पादाङ्गुष्ठावधिः कन्दादधोयाता च कौशिकी .

दशप्रकारभूतास्ताः कथिताः कन्दसम्भवाः .. ७३..

तन्मूला बहवो नाड्यः स्थूलसूक्ष्माश्च नाडिकाः .

द्वासप्ततिसहस्राणि स्थूलाः सूक्ष्माश्च नाडयः .. ७४..

संख्यातुं न शक्यन्ते स्थूलमूलाः पृथग्विधाः .

यथाश्वत्थदले सूक्ष्माः स्थूलाश्च विततास्तथा .. ७५..

प्राणापानौ समानश्च उदानो व्यान एव च .

नागः कूर्मश्च कृकरो देवदत्तो धनञ्जयः .. ७६..

चरन्ति दशनाडीषु दश प्राणादिवायवः .

प्राणादिपञ्चकं तेषु प्रधानं तत्र च द्वयम् .. ७७..

प्राण एवाथवा ज्येष्ठो जीवात्मानं बिभर्ति यः .

आस्यनासिकयोर्मध्यं हृदयं नाभिमण्डलम् .. ७८..

पादाङ्गुष्ठमिति प्राणस्थानानि द्विजसत्तम .

अपानश्चरति ब्रह्मन्गुदमेढ्रोरुजानुषु .. ७९..

समानः सर्वगात्रेषु सर्वव्यापी व्यवस्थितः .

उदानः सर्वसन्धिस्थः पादयोर्हस्तयोरपि .. ८०..

व्यानः श्रोत्रोरुकट्यां च गुल्फस्कन्धगलेषु च .

नागादिवायवः पञ्च त्वगस्थादिषु संस्थिताः .. ८१..

तुन्दस्थजलमन्नं च रसादीनि समीकृतम् .

तुन्दमध्यगतः प्राणस्तानि कुर्यात्पृथक्पृथक् .. ८२..

इत्यादिचेष्टनं प्राणः करोति च पृथक्स्थितम् .

अपानवायुर्मूत्रादेः करोति च विसर्जनम् .. ८३..

प्राणापानादिचेष्टादि क्रियते व्यानवायुना .

उज्जीर्यते शरीरस्थमुदानेन नभस्वता .. ८४..

पोषणादिशरीरस्य समानः कुरुते सदा .

उद्गारादिक्रियो नागः कूर्मोऽक्षादिनिमीलनः .. ८५..

कृकरः क्षुतयोः कर्ता दत्तो निद्रादिकर्मकृत् .

मृतगात्रस्य शोभादेर्धनञ्जय उदाहृतः .. ८६..

नाडीभेदं मरुद्भेदं मरुतां स्थानमेव च .

चेष्टाश्च विविधास्तेषां ज्ञात्वैव निजसत्तम .. ८७..

शुद्धौ यतेत नाडीनां पूर्वोक्तज्ञानसंयुतः .

विविक्तदेशमासाद्य सर्वसंबन्धवर्जितः .. ८८..

योगाङ्गद्रव्यसंपूर्णं तत्र दारुमये शुभे .

आसने कल्पिते दर्भकुशकृष्णाजिनादिभिः .. ८९..

तावदासनमुत्सेधे तावद्द्वयसमायते .

उपविश्यासनं सम्यक्स्वस्तिकादि यथारुचि .. ९०..

बध्वा प्रागासनं विप्रो ऋजुकायः समाहितः .

नासाग्रन्यस्तनयनो दन्तैर्दन्तानसंस्पृशन् .. ९१..

रसनां तालुनि न्यस्य स्वस्थचित्तो निरामयः .

आकुञ्चितशिरः किंचिन्निबध्नन्योगमुद्रया .. ९२..

हस्तौ यथोक्तविधिना प्राणायामं समाचरेत् .

रेचनं पूरणं वायोः शोधनं रेचनं तथा .. ९३..

चतुर्भिः क्लेशनं वायोः प्राणायाम उदीर्यते .

हस्तेन दक्षिणेनैव पीडयेन्नासिकापुटम् .. ९४..

शनैः शनैरथ बहिः प्रक्षिपेत्पिङ्गलानिलम् .

इडया वायुमापूर्य ब्रह्मन्षोडशमात्रया .. ९५..

पूरितं कुम्भयेत्पश्चाच्चतुःषष्ट्या तु मात्रया .

द्वात्रिंशन्मात्रया सम्यग्रेचयेत्पिङ्गलानिलम् .. ९६..

एवं पुनः पुनः कार्यं व्युत्क्रमानुक्रमेण तु .

संपूर्णकुम्भवद्देहं कुम्भयेन्मातरिश्वना .. ९७..

पूरणान्नाडयः सर्वाः पूर्यन्ते मातरिश्वना .

एवं कृते सति ब्रह्मंश्चरन्ति दश वायवः .. ९८..

हृदयाम्भोरुहं चापि व्याकोचं भवति स्फुटम् .

तत्र पश्येत्परात्मानं वासुदेवमकल्मषम् .. ९९..

प्रातर्मध्यन्दिने सायमर्धरात्रे च कुम्भकान् .

शनैरशीतिपर्यन्तं चतुर्वारं समभ्यसेत् .. १००..

एकाहमात्रं कुर्वाणः सर्वपापैः प्रमुच्यते .

संवत्सरत्रयादूर्ध्वं प्राणायामपरो नरः .. १०१..

योगसिद्धो भवेद्योगी वायुजिद्विजितेन्द्रियः .

अल्पाशी स्वल्पनिद्रश्च तेजस्वी बलवान्भवेत् .. १०२..

अपमृत्युमतिक्रम्य दीर्घमायुरवाप्नुयात् .

प्रस्वेदजननं यस्य प्राणायामस्तु सोऽधमः .. १०३..

कंपनं वपुषो यस्य प्राणायामेषु मध्यमः .

उत्थानं वपुषो यस्य स उत्तम उदाहृतः .. १०४..

अधमे व्याधिपापानां नाशः स्यान्मध्यमे पुनः .

पापरोगमहाव्याधिनाशः स्यादुत्तमे पुनः .. १०५..

अल्पमूत्रोऽल्पविष्ठश्च लघुदेहो मिताशनः .

पट्विन्द्रियः पटुमतिः कालत्रयविदात्मवान् .. १०६..

रेचकं पूरकं मुक्त्वा कुम्भीकरणमेव यः .

करोति त्रिषु कालेषु नैव तस्यास्ति दुर्लभम् .. १०७..

नाभिकन्दे च नासाग्रे पादाङ्गुष्ठे च यत्नवान् .

धारयेन्मनसा प्राणान्सन्ध्याकालेषु वा सदा .. १०८..

सर्वरोगैर्विनिर्मुक्तो जीवेद्योगी गतक्लमः .

कुक्षिरोगविनाशः स्यान्नाभिकन्देषु धारणात् .. १०९..

नासाग्रे धारणाद्दीर्घमायुः स्याद्देहलाघवम् .

ब्राह्मे मुहूर्ते संप्राप्ते वायुमाकृष्य जिह्वया .. ११०..

पिबतस्त्रिषु मासेषु वाक्सिद्धिर्महती भवेत् .

अभ्यासतश्च षण्मासान्महारोगविनाशनम् .. १११..

यत्र यत्र धृतो वायुरङ्गे रोगादिदूषिते .

धारणादेव मरुतस्तत्तदारोग्यमश्नुते .. ११२..

मनसो धारणादेव पवनो धारितो भवेत् .

मनसः स्थापने हेतुरुच्यते द्विजपुङ्गव .. ११३..

करणानि समाहृत्य विषयेभ्यः समाहितः .

अपानमूर्ध्वमाकृष्येदुदरोपरि धारयेत् .. ११४..

बन्धन्कराभ्यां श्रोत्रादिकरणानि यथातथम् .

युञ्जानस्य यथोक्तेन वर्त्मना स्ववशं मनः .. ११५..

मनोवशात्प्राणवायुः स्ववशे स्थाप्यते सदा .

नासिकापुटयोः प्राणः पर्यायेण प्रवर्तते .. ११६..

तिस्रश्च नाडिकास्तासु स यावन्तं चरत्ययम् .

शङ्खिनीविवरे याम्ये प्राणः प्राणभृतां सताम् .. ११७..

तावन्तं च पुनः कालं सौम्ये चरति सन्ततम् .

इत्थं क्रमेण चरता वायुना वायुजिन्नरः .. ११८..

अहश्च रात्रिं पक्षं च मासमृत्वयनादिकम् .

अन्तर्मुखो विजानीयात्कालभेदं समाहितः .. ११९..

अङ्गुष्ठादिस्वावयवस्फुरणादशनेरपि .

अरिष्टैर्जीवितस्यापि जानीयात्क्षयमात्मनः ..१२०..

ज्ञात्वा यतेत कैवल्यप्राप्तये योगवित्तमः .

पादाङ्गुष्ठे कराङ्गुष्ठे स्फुरणं यस्य न श्रुतिः .. १२१..

तस्य संवत्सरादूर्ध्वं जीवितस्य क्षयो भवेत् .

मणिबन्धे तथा गुल्फे स्फुरणं यस्य नश्यति .. १२२..

षण्मासावधिरेतस्य जीवितस्य स्थितिर्भवेत् .

कूर्परे स्फुरणं यस्य तस्य त्रैमासिकी स्थितिः .. १२३..

कुक्षिमेहनपार्श्वे च स्फुरणानुपलम्भने .

मासावधिर्जीवितस्य तदर्धस्य तु दर्शने .. १२४..

आश्रिते जठरद्वारे दिनानि दश जीवितम् .

ज्योतिः खद्योतवद्यस्य तदर्धं तस्य जीवितम् .. १२५..

जिह्वाग्रादर्शने त्रीणि दिनानि स्थितिरात्मनः .

ज्वालाया दर्शने मृत्युर्द्विदिने भवति ध्रुवम् .. १२६..

एवमादीन्यरिष्टानि दृष्टायुःक्षयकारणम् .

निःश्रेयसाय युञ्जीत जपध्यानपरायणः .. १२७..

मनसा परमात्मानं ध्यात्वा तद्रूपतामियात् .

यद्यष्टादशभेदेषु मर्मस्थानेषु धारणम् .. १२८..

स्थानात्स्थानं समाकृष्य प्रत्याहारः स उच्यते .

पादाङ्गुष्ठं तथा गुल्फं जङ्गामध्यं तथैव च .. १२९..

मध्यमूर्वोश्च मूलं पायुर्हृदयमेव च .

मेहनं देहमध्यं च नाभिं च गलकूर्परम् .. १३०..

तालुमूलं च मूलं च घ्राणस्याक्ष्णोश्च मण्डलम् .

भ्रुवोर्मध्ये ललाटं च मूलमूर्ध्वं च जानुनी .. १३१..

मूलं च करयोर्मूलं महान्त्येतानि वै द्विज .

पञ्चभूतमये देहे भूतेष्वेतेषु पञ्चसु .. १३२..

मनसो धारणं यत्यद्युक्तस्य च यमादिभिः .

धारणा सा च संसारसागरोत्तरकारणम् .. १३३..

आजानुपादपर्यन्तं पृथिवीस्थानमिष्यते .

पित्तला चतुरस्रा च वसुधा वज्रलाञ्छिता .. १३४..

स्मर्तव्या पञ्चघटिकास्तत्रारोप्यप्रभञ्जनम् .

आजानुकटिपर्यन्तमपां स्थानं प्रकीर्तितम् .. १३५..

अर्धचन्द्रसमाकारं श्वेतमर्जुनलाञ्छितम् .

स्मर्तव्यमम्भःश्वसनमारोप्य दशनाडिकाः .. १३६..

आदेहमध्यकट्यन्तमग्निस्थानमुदाहृतम् .

तत्र सिन्दूरवर्णोऽग्निर्ज्वलनं दशपञ्च च .. १३७..

स्मर्तव्यो नाडिकाः प्राणं कृत्वा कुम्भे तथेरितम् .

नाभेरुपरि नासान्तं वायुस्थानं तु तत्र वै .. १३८..

वेदिकाकारवद्धूम्रो बलवान्भूतमारुतः .

स्मर्तव्यः कुम्भकेनैव प्राणमारोप्य मारुतम् .. १३९..

घटिकाविंशतिस्तस्माद्घ्राणाद्ब्रह्मबिलावधि .

व्योमस्थानं नभस्तत्र भिन्नाञ्जनसमप्रभम् .. १४०..

व्योम्नि मारुतमारोप्य कुम्भकेनैव यत्नवान् .

पृथिव्यंशे तु देहस्य चतुर्बाहुं किरीटिनम् .. १४१..

अनिरुद्धं हरिं योगी यतेत भवमुक्तये .

अबंशे पूरयेद्योगी नारायणमुदग्रधीः .. १४२..

प्रद्युम्नमग्नौ वाय्वंशे संकर्षणमतः परम् .

व्योमांशे परमात्मानं वासुदेवं सदा स्मरेत् .. १४३..

अचिरादेव तत्प्राप्तिर्युञ्जानस्य न संशयः .

बध्वा योगासनं पूर्वं हृद्देशे हृदयाञ्जलिः .. १४४..

नासाग्रन्यस्तनयनो जिह्वां कृत्वा च तालुनि .

दन्तैर्दन्तानसंस्पृश्य ऊर्ध्वकायः समाहितः .. १४५..

संयमेच्चेन्द्रियग्राममात्मबुद्ध्या विशुद्धया .

चिन्तनं वासुदेवस्य परस्य परमात्मनः .. १४६..

स्वरूपव्याप्तरूपस्य ध्यानं कैवल्यसिद्धिदम् .

याममात्रं वासुदेवं चिन्तयेत्कुम्भकेन यः .. १४७..

सप्तजन्मार्जितं पापं तस्य नश्यति योगिनः .

नाभिकन्दात्समारभ्य यावद्धृदयगोचरम् .. १४८..

जाग्रद्वृत्तिं विजानीयात्कण्ठस्थं स्वप्नवर्तनम् .

सुषुप्तं तालुमध्यस्थं तुर्यं भ्रूमध्यसंस्थितम् .. १४९..

तुर्यातीतं परं ब्रह्म ब्रह्मरन्ध्रे तु लक्षयेत् .

जाग्रद्वृत्तिं समारभ्य यावद्ब्रह्मबिलान्तरम् .. १५०..

तत्रात्मायं तुरीयस्य तुर्यान्ते विष्णुरुच्यते .

ध्यानेनैव समायुक्तो व्योम्नि चात्यन्तनिर्मले .. १५१..

सूर्यकोटिद्युतिरथं नित्योदितमधोक्षजम् .

हृदयाम्बुरुहासीनं ध्यायेद्वा विश्वरूपिणम् .. १५२..

अनेकाकारखचितमनेकवदनान्वितम् .

अनेकभुजसंयुक्तमनेकायुधमण्डितम् .. १५३..

ननावर्णधरं देवं शातमुग्रमुदायुधम् .

अनेकनयानाकीर्णं सूर्यकोटिसमप्रभम् .. १५४..

ध्यायतो योगिनः सर्वमनोवृत्तिर्विनश्यति .

हृत्पुण्डरीकमध्यस्थं चैतन्यज्योतिरव्ययम् .. १५५..

कदम्बगोलकाकारं तुर्यातीतं परात्परम् .

अनन्तमानन्दमयं चिन्मयं भास्करं विभुम् .. १५६..

निवातदीपसदृशमकृत्रिममणिप्रभम् .

ध्यायतो योगिनस्तस्य मुक्तिः करतले स्थिता .. १५७..

विश्वरूपस्य देवस्य रूपं यत्किञ्चिदेव हि .

स्थवीयः सूक्ष्ममन्यद्वा पश्यन्हृदयपङ्कजे .. १५८..

ध्यायतो योगिनो यस्तु साक्षादेव प्रकाशते .

अणिमादिफलं चैव सुखेनैवोपजायते .. १५९..

जीवात्मनः परस्यापि यद्येवमुभयोरपि .

अहमेव परंब्रह्म ब्रह्माहमिति संस्थितिः .. १६०..

समाधिः स तु विज्ञेयः सर्ववृत्तिविवर्जितः .

ब्रह्म सम्पद्यते योगी न भूयः संसृतिं व्रजेत् .. १६१..

एवं विशोध्य तत्त्वानि योगी निःस्पृहचेतसा .

यथा निरिन्धनो वह्निः स्वयमेव प्रशाम्यति .. १६२..

ग्राह्याभावे मनः प्राणो निश्चयज्ञानसंयुतः .

शुद्धसत्त्वे परे लीनो जीवः सैन्धवपिण्डवत् .. १६३..

मोहजालकसंघातो विश्वं पश्यति स्वप्नवत् .

सुषुप्तिवद्यश्चरति स्वभावपरिनिश्चलः .. १६४..

निर्वाणपदमाश्रित्य योगी कैवल्यमश्नुत इत्युपनिषत् ..

ॐ पूर्णमदः पूर्णमिदं पूर्णात्पूर्णमुदच्यते .

पूर्णस्य पूर्णमादाय पूर्णमेवावशिष्यते ..

ॐ शान्तिः शान्तिः शान्तिः ..

इति त्रिशिखिब्राह्मणोपनिषत्समाप्ता ..

Personal tools