त्रिपुर उपनिषद्
From Wikisource
.. त्रिपुरोपनिषत् .. त्रिपुरोपनिषद्वेद्यपारमैश्वर्यवैभवम् . अखण्डानन्दसाम्राज्यं रामचन्द्रपदं भजे .. ॐ वाङ्मे मनसि प्रतिष्ठिता | मनो मे वाचि प्रतिष्ठितम् | आविरावीर्म एधि | वेदस्य म आणीस्थः | श्रुतं मे मा प्रहासीः | अनेनाधीतेनाहोरात्रान् संदधामि | ऋतं वदिष्यामि | सत्यं वदिष्यामि | तन्मामवतु | तद्वक्तारमवतु | अवतु माम् | अवतु वक्तारम् | अवतु वक्तारम् | ॐ शान्तिः शान्तिः शान्तिः ||
ॐ तिस्रः पुरास्त्रिपथा विश्वचर्षणा अत्राकथा अक्षराः सन्निविष्टाः | अधिष्ठायैना अजरा पुराणी महत्तरा महिमा देवतानाम् || १||
नवयोनिर्नवचक्राणि दधिरे नवैव योगा नव योगिन्यश्च | नवानां चक्रा अधिनाथाः स्योना नव मुद्रा नव भद्रा महीनाम् || २||
एका सा आसीत् प्रथमा सा नवासीदासोनविंशादासोनत्रिंशत् | चत्वारिंशादथ तिस्रः समिधा उशतीरिव मातरो मा विशन्तु || ३||
ऊर्ध्वज्वलज्वलनं ज्योतिरग्रे तमो वै तिरश्श्चीनमजरं तद्रजोऽभूत् | आनन्दनं मोदनं ज्योतिरिन्दो रेता उ वै मण्डला मण्डयन्ति || ४||
तिस्रश्च [यास्तिस्रो ]रेखाः सदनानि भूमेस्त्रिविष्टपास्त्रिगुणास्त्रिप्रकाराः . एतत्पुरं [एतत्त्रयं ]पूरकं पूरकाणामत्र [ पूरकाणां मन्त्री ]प्रथते मदनो मदन्या || ५||
मदन्तिका मानिनी मंगला च सुभगा च सा सुन्दरी सिद्धिमत्ता | लज्जा मतिस्तुष्टिरिष्टा च पुष्टा लक्ष्मीरुमा ललिता लालपन्ती || ६||
इमां विज्ञाय सुधया मदन्ती परिसृता तर्पयन्तः स्वपीठम् | नाकस्य पृष्ठे वसन्ति परं धाम त्रैपुरं चाविशन्ति || ७||
कामो योनिः कामकला व्रजपाणिर्गुहा हसा मातरिश्वाभ्रमिन्द्रः | पुनर्गुहा सकला मायया च पूरूच्येषा विश्वमातादिविद्या || ८||
षष्ठं सप्तममथ वह्निसारथिमस्या मूलत्रिक्रमा देशयन्तः | कथ्यं कविं कल्पकं काममीशं तुष्टुवांसो अमृतत्वं भजन्ते || ९||
त्रिविष्टपं त्रिमुखं विश्वमातुर्नवरेखाः स्वरमध्यं तदीले | [पुरं हन्त्रीमुखं विश्वमातू रवे रेखा स्वरमध्यं तदेषा . ] बृहत्तिथिर्दशा पञ्चादि नित्या सा षोडशी पुरमध्यं बिभर्ति || १०||
यद्वा मण्डलाद्वा स्तनबिंबमेकं मुखं चाधस्त्रीणि गुहा सदनानि | कामी कलां काम्यरूपां विदित्वा [चिकित्वा ]नरो जायते कामरूपश्च काम्यः [कामः ]|| ११||
परिसृतम् झषमाद्यं [झषमाजं ]फलं च भक्तानि योनीः सुपरिष्कृताश्च . निवेदयन्देवतायै महत्यै स्वात्मीकृते सुकृते सिद्धिमेति || १२||
सृण्येव सितया विश्वचर्षणिः पाशेनैव प्रतिबध्नात्यभीकाम् | इषुभिः पञ्चभिर्धनुषा च विध्यत्यादिशक्तिररुणा विश्वजन्या || १३||
भगः शक्तिर्भगवान्काम ईश उभा दाताराविह सौभगानाम् | समप्रधानौ समसत्वौ समोजौ तयोः शक्तिरजरा विश्वयोनिः || १४||
परिस्रुता हविषा भावितेन प्रसङ्कोचे गलिते वैमनस्कः | शर्वः सर्वस्य जगतो विधाता धर्ता हर्ता विश्वरूपत्वमेति || १५||
इयं महोपनिषत्त्रैपुर्या यामक्षरं परमो गीर्भिरीट्टे | एषर्ग्यजुः परमेतच्च सामायमथर्वेयमन्या च विद्या || १६||
ॐ ह्रीम् ॐ ह्रीमित्युपनिषत् ||
ॐ वाङ्मे मनसि प्रतिष्ठिता | मनो मे वाचि प्रतिष्ठितम् | आविरावीर्म एधि | वेदस्य म आणीस्थः | श्रुतं मे मा प्रहासीः | अनेनाधीतेनाहोरात्रान् संदधामि | ऋतं वदिष्यामि | सत्यं वदिष्यामि | तन्मामवतु | तद्वक्तारमवतु | अवतु माम् | अवतु वक्तारम् | अवतु वक्तारम् | ॐ शान्तिः शान्तिः शान्तिः || || इति त्रिपुरोपनिषत् ||

