तेजो-बिन्दु उपनिषद्

From Wikisource

Jump to: navigation, search

.. तेजोबिन्दूपनिषत् .. यत्र चिन्मात्रकलना यात्यपह्नवमञ्जसा . तच्चिन्मात्रमखण्डैकरसं ब्रह्म भवाम्यहम् .. ॐ सह नाववतु .. सह नौ भुनक्तु .. सह वीर्यं करवावहै .. तेजस्विनावधीतमस्तु मा विद्विषावहै .. ॐ शान्तिः शान्तिः शान्तिः .. ॐ तेजोबिन्दुः परं ध्यानं विश्वात्महृदिसंस्थितम् . आणवं शाम्भवं शान्तं स्थूलं सूक्ष्मं परं च यत् .. १.. दुःखाढ्यं च दुराराध्यं दुष्प्रेक्ष्यं मुक्तमव्ययम् . दुर्लभं तत्स्वयं ध्यानं मुनीनां च मनीषिणाम् .. २.. यताहारो जितक्रोधो जितसङ्गो जितेन्द्रियः . निर्द्वन्द्वो निरहङ्कारो निराशीरपरिग्रहः .. ३.. अगम्यागमकर्ता यो गम्याऽगमयमानसः . मुखे त्रीणि च विन्दन्ति त्रिधामा हंस उच्यते .. ४.. परं गुह्यतमं विद्धि ह्यस्ततन्द्रो निराश्रयः . सोमरूपकला सूक्ष्मा विष्णोस्तत्परमं पदम् .. ५.. त्रिवक्त्रं त्रिगुणं स्थानं त्रिधातुं रूपवर्जितम् . निश्चलं निर्विकल्पं च निराकारं निराश्रयम् .. ६.. उपाधिरहितं स्थानं वाङ्मनोऽतीतगोचरम् . स्वभावं भावसंग्राह्यमसङ्घातं पदाच्च्युतम् .. ७.. अनानानन्दनातीतं दुष्प्रेक्ष्यं मुक्तिमव्ययम् . चिन्त्यमेवं विनिर्मुक्तं शाश्वतं ध्रुवमच्युतम् .. ८.. तद्ब्रह्मणस्तदध्यात्मं तद्विष्णोस्तत्परायणम् . अचिन्त्यं चिन्मयात्मानं यद्व्योम परमं स्थितम् .. ९.. अशून्यं शून्यभावं तु शून्यातीतं हृदि स्थितम् . न ध्यानं च न च ध्याता न ध्येयो ध्येय एव च .. १०.. सर्वं च न परं शून्यं न परं नापरात्परम् . अचिन्त्यमप्रबुद्धं च न सत्यं न परं विदुः .. ११.. मुनीनां संप्रयुक्तं च न देवा न परं विदुः . लोभं मोहं भयं दर्पं कामं क्रोधं च किल्बिषम् .. १२.. शीतोष्णे क्षुत्पिपासे च सङ्कल्पकविकल्पकम् . न ब्रह्मकुलदर्पं च न मुक्तिग्रन्थिसञ्चयम् .. १३.. न भयं न सुखं दुःखं तथा मानावमानयोः . एतद्भावविनिर्मुक्तं तद्ग्राह्यं ब्रह्म तत्परम् .. १४.. यमो हि नियमस्त्यागो मौनं देशश्च कालतः . आसनं मूलबन्धश्च देहसाम्यं च दृक्स्थितिः .. १५.. प्राणसंयमनं चैव प्रत्याहारश्च धारणा . आत्मध्यानं समाधिश्च प्रोक्तान्यङ्गानि वै क्रमात् .. १६.. सर्वं ब्रह्मेति वै ज्ञानादिन्द्रियग्रामसंयमः . यमोऽऽयमिति संप्रोक्तोऽभ्यसनीयो मुहुर्मुहुः .. १७.. सजातीयप्रवाहश्च विजातीयतिरस्कृतिः . नियमो हि परानन्दो नियमात्क्रियते बुधैः .. १८.. त्यागो हि महता पूज्यः सद्यो मोक्षप्रदायकः .. १९.. यस्माद्वाचो निवर्तन्ते अप्राप्य मनसा सह . यन्मौनं योगिभिर्गम्यं तद्भजेत्सर्वदा बुधः .. २०.. वाचो यस्मान्निवर्तन्ते तद्वक्तुं केन शक्यते . प्रपञ्चो यदि वक्तव्यः सोऽपि शब्दविवर्जितः .. २१.. इति वा तद्भवेन्मौनं सर्वं सहजसंज्ञितम् . गिरां मौनं तु बालानामयुक्तं ब्रह्मवादिनाम् .. २२.. आदावन्ते च मध्ये च जनो यस्मिन्न विद्यते . येनेदं सततं व्याप्तं स देशो विजनः स्मृतः .. २३.. कल्पना सर्वभूतानां ब्रह्मादीनां निमेषतः . कालशब्देन निर्दिष्टं ह्यखण्डानन्दमद्वयम् .. २४.. सुखेनैव भवेद्यस्मिन्नजस्रं ब्रह्मचिन्तनम् . आसनं तद्विजानीयादन्यत्सुखविनाशनम् .. २५.. सिद्धये सर्वभूतादि विश्वाधिष्ठानमद्वयम् . यस्मिन्सिद्धिं गताः सिद्धास्तत्सिद्धासनमुच्यते .. २६.. यन्मूलं सर्वलोकानां यन्मूलं चित्तबन्धनम् . मूलबन्धः सदा सेव्यो योग्योऽसौ ब्रह्मवादिनाम् .. २७.. अङ्गानां समतां विद्यात्समे ब्रह्मणि लीयते . नो चेन्नैव समानत्वमृजुत्वं शुष्कवृक्षवत् .. २८.. दृष्टीं ज्ञानमयीं कृत्वा पश्येद्ब्रह्ममयं जगत् . सा दृष्टिः परमोदारा न नासाग्रावलोकिनी .. २९.. द्रष्टृदर्शनदृश्यानां विरामो यत्र वा भवेत् . दृष्टिस्तत्रैव कर्तव्या न नासाग्रावलोकिनी .. ३०.. चित्तादिसर्वभावेषु ब्रह्मत्वेनैव भावनात् . निरोधः सर्ववृत्तीनां प्राणायामः स उच्यते .. ३१.. निषेधनं प्रपञ्चस्य रेचकाख्यः समीरितः . ब्रह्मैवास्मीति या वृत्तिः पूरको वायुरुच्यते .. ३२.. ततस्तद्वृत्तिनैश्चल्यं कुम्भकः प्राणसंयमः . अयं चापि प्रबुद्धानामज्ञानां घ्राणपीडनम् .. ३३.. विषयेष्वात्मतां दृष्ट्वा मनसश्चित्तरञ्जकम् . प्रत्याहारः स विज्ञेयोऽभ्यसनीयो मुहुर्मुहुः .. ३४.. यत्र यत्र मनो याति ब्रह्मणस्तत्र दर्शनात् . मनसा धारणं चैव धारणा सा परा मता .. ३५.. ब्रह्मैवास्मीति सद्वृत्त्या निरालम्बतया स्थितिः . ध्यानशब्देन विख्यातः परमानन्ददायकः .. ३६.. निर्विकारतया वृत्त्या ब्रह्माकारतया पुनः . वृत्तिविस्मरणं सम्यक्समाधिरभिधीयते .. ३७.. इमं चाकृत्रिमानन्दं तावत्साधु समभ्यसेत् . लक्ष्यो यावत्क्षणात्पुंसः प्रत्यक्त्वं सम्भवेत्स्वयम् .. ३८.. ततः साधननिर्मुक्तः सिद्धो भवति योगिराट् . तत्स्वं रूपं भवेत्तस्य विषयो मनसो गिराम् .. ३९.. समाधौ क्रियमाणे तु विघ्नान्याअयान्ति वै बलात् . अनुसन्धानराहित्यमालस्यं भोगलालसम् .. ४०.. लयस्तमश्च विक्षेपस्तेजः स्वेदश्च शून्यता . एवं हि विघ्नबाहुल्यं त्याज्यं ब्रह्मविशारदैः .. ४१.. भाववृत्त्या हि भावत्वं शून्यवृत्त्या हि शून्यता . ब्रह्मवृत्त्या हि पूर्णत्वं तया पूर्णत्वमभ्यसेत् .. ४२.. ये हि वृत्तिं विहायैनां ब्रह्माख्यां पावनीं पराम् . वृथैव ते तु जीवन्ति पशुभिश्च समा नराः .. ४३.. ये तु वृत्तिं विजानन्ति ज्ञात्वा वै वर्धयन्ति ये . ते वै सत्पुरुषा धन्या वन्द्यास्ते भुवनत्रये .. ४४.. येषां वृत्तिः समा वृद्धा परिपक्वा च सा पुनः . ते वै सद्ब्रह्मतां प्राप्ता नेतरे शब्दवादिनः .. ४५.. कुशला ब्रह्मवार्तायां वृत्तिहीनाः सुरागिणः . तेऽप्यज्ञानतया नूनं पुनरायान्ति यान्ति च .. ४६.. निमिषार्धं न तिष्ठन्ति वृत्तिं ब्रह्ममयीं विना . यथा तिष्ठन्ति ब्रह्माद्याः सनकाद्याः शुकादयः .. ४७.. कारणं यस्य वै कार्यं कारणं तस्य जायते . कारणं तत्त्वतो नश्येत्कार्याभावे विचारतः .. ४८.. अथ शुद्धं भवेद्वस्तु यद्वै वाचामगोचरम् . उदेति शुद्धचित्तानां वृत्तिज्ञानं ततः परम् .. ४९.. भावितं तीव्रवेगेन यद्वस्तु निश्चयात्मकम् . दृश्यं ह्यदृश्यतां नीत्वा ब्रह्माकारेण चिन्तयेत् .. ५०.. विद्वान्नित्यं सुखे तिष्ठेद्धिया चिद्रसपूर्णया .. इति प्रथमोऽध्यायः .. १.. अथ ह कुमारः शिवं पप्रच्छाऽखण्डैकरस- चिन्मात्रस्वरूपमनुब्रूहीति . स होवाच परमः शिवः . अखण्डैकरसं दृश्यमखण्डैकरसं जगत् . अखण्डैकरसं भावमखण्डैकरसं स्वयम् .. १.. अखण्डैकरसो मन्त्र अखण्डैकरसा क्रिया . अखण्डैकरसं ज्ञानमखण्डैकरसं जलम् .. २.. अखण्डैकरसा भूमिरखण्डैकरसं वियत् . अखण्डैकरसं शास्त्रमखण्डैकरसा त्रयी .. ३.. अखण्डैकरसं ब्रह्म चाखण्डैकरसं व्रतम् . अखण्डैकरसो जीव अखण्डैकरसो ह्यजः .. ४.. अखण्डैकरसो ब्रह्मा अखण्डैकरसो हरिः . अखण्डैकरसो रुद्र अखण्डैकरसोऽस्म्यहम् .. ५.. अखण्डैकरसो ह्यात्मा ह्यखण्डैकरसो गुरुः . अखण्डैकरसं लक्ष्यमखण्डैकरसं महः .. ६.. अखण्डैकरसो देह अखण्डैकरसं मनः . अखण्डैकरसं चित्तमखण्डैकरसं सुखम् .. ७.. अखण्डैकरसा विद्या अखण्डैकरसोऽव्ययः . अखण्डैकरसं नित्यमखण्डैकरसं परम् .. ८.. अखण्डैकरसं किञ्चिदखण्डैकरसं परम् . अखण्डैकरसादन्यन्नास्ति नास्ति षडानन .. ९.. अखण्डैकरसान्नास्ति अखण्डैकरसान्न हि . अखण्डैकरसात्किञ्चिदखण्डैकरसादहम् .. १०.. अखण्डैकरसं स्थूलं सूक्ष्मं चाखण्डरूपकम् . अखण्डैकरसं वेद्यमखण्डैकरसो भवान् .. ११.. अखण्डैकरसं गुह्यमखण्डैकरसादिकम् . अखण्डैकरसो ज्ञाता ह्यखण्डैकरसा स्थितिः .. १२.. अखण्डैकरसा माता अखण्डैकररसः पिता . अखण्डैकरसो भ्राता अखण्डैकरसः पतिः .. १३.. अखण्डैकरसं सूत्रमखण्डैकरसो विराट् . अखण्डैकरसं गात्रमखण्डैकरसं शिरः .. १४.. अखण्डैकरसं चान्तरखण्डैकरसं बहिः . अखण्डैकरसं पूर्णमखण्डैकरसामृतम् .. १५.. अखैण्डैकरसं गोत्रमखण्डैकरसं गृहम् . अखण्डैकरसं गोप्यमखण्डैकरसशशशी .. १६.. अखण्डैकरसास्तारा अखण्डैकरसो रविः . अखण्डैकरसं क्षेत्रमखण्डैकरसा क्षमा .. १७.. अखण्डैकरस शान्त अखण्डैकरसोऽगुणः . अखण्डैकरसः साक्षी अखण्डैकरसः सुहृत् .. १८.. अखण्डैकरसो बन्धुरखण्डैकरसः सखा . अखण्डैकरसो राजा अखण्डैकरसं पुरम् .. १९.. अखण्डैकरसं राज्यमखण्डैकरसाः प्रजाः . अखण्डैकरसं तारमखण्डैकरसो जपः .. २०.. अखण्डैकरसं ध्यानमखण्डैकरसं पदम् . अखण्डैकरसं ग्राह्यमखण्डैकरसं महत् .. २१.. अखण्डैकरसं ज्योतिरखण्डैकरसं धनम् . अखण्डैकरसं भोज्यमखण्डैकरसं हविः .. २२.. अखण्डैकरसो होम अखण्डैकरसो जपः . अखण्डैकरसं स्वर्गमखण्डैकरसः स्वयम् .. २३.. अखण्डैकरसं सर्वं चिन्मात्रमिति भावयेत् . चिन्मात्रमेव चिन्मात्रमखण्डैकरसं परम् .. २४.. भववर्जितचिन्मात्रं सर्वं चिन्मात्रमेव हि . इदं च सर्वं चिन्मात्रमयं चिन्मयमेव हि .. २५.. आत्मभावं च चिन्मात्रमखण्डैकरसं विदुः . सर्वलोकं च चिन्मात्रं वत्ता मत्ता च चिन्मयम् .. २६.. आकाशो भूर्जलं वायुरग्निर्ब्रह्मा हरिः शिवः . यत्किञ्चिद्यन्न किञ्चिच्च सर्वं चिन्मात्रमेव हि .. २७.. अखण्डैकरसं सर्वं यद्यच्चिन्मात्रमेव हि . भूतं भव्यं भविष्यच्च सर्वं चिन्मात्रमेव हि .. २८.. द्रव्यं कालं च चिन्मात्रं ज्ञानं ज्ञेयं चिदेव हि . ज्ञाता चिन्मात्ररूपश्च सर्वं चिन्मयमेव हि .. २९.. संभाषणं च चिन्मात्रं यद्यच्चिन्मात्रमेव हि . असच्च सच्च चिन्मात्रमाद्यन्तं चिन्मयं सदा .. ३०.. आदिरन्तश्च चिन्मात्रं गुरुशिष्यादि चिन्मयम् . दृग्दृश्यं यदि चिन्मात्रमस्ति चेच्चिन्मयं सदा .. ३१.. सर्वाश्चर्यं हि चिन्मात्रं देहं चिन्मात्रमेव हि . लिङ्गं च कारणं चैव चिन्मात्रान्न हि विद्यते .. ३२.. अहं त्वं चैव चिन्मात्रं मूर्तामूर्तादिचिन्मयम् . पुण्यं पापं च चिन्मात्रं जीवश्चिन्मात्रविग्रहः .. ३३.. चिन्मात्रान्नास्ति सङ्कल्पश्चिन्मात्रान्नास्ति वेदनम् . चिन्मात्रान्नास्ति मन्त्रादि चिन्मात्रान्नास्ति देवता .. ३४.. चिन्मात्रान्नास्ति दिक्पालाश्चिन्मात्राद्व्यावहारिकम् . चिन्मात्रात्परमं ब्रह्म चिन्मात्रान्नास्ति कोऽपि हि .. ३५.. चिन्मात्रान्नास्ति माया च चिन्मात्रान्नास्ति पूजनम् . चिन्मात्रान्नास्ति मन्तव्यं चिन्मात्रान्नास्ति सत्यकम् .. ३६.. चिन्मात्रान्नास्ति कोशादि चिन्मात्रान्नास्ति वै वसु . चिन्मात्रान्नास्ति मौनं च चिन्मात्रान्नस्त्यमौनकम् .. ३७.. चिन्मात्रान्नास्ति वैराग्यं सर्वं चिन्मात्रमेव हि . यच्च यावच्च चिन्मात्रं यच्च यावच्च दृश्यते .. ३८.. यच्च यावच्च दूरस्थं सर्वं चिन्मात्रमेव हि . यच्च यावच्च भूतादि यच्च यावच्च लक्ष्यते .. ३९.. यच्च यावच्च वेदान्ताः सर्वं चिन्मात्रमेव हि . चिन्मात्रान्नास्ति गमनं चिन्मात्रान्नास्ति मोक्षकम् .. ४०.. चिन्मात्रान्नास्ति लक्ष्यं च सर्वं चिन्मात्रमेव हि . अखण्डैकरसं ब्रह्म चिन्मात्रान्न हि विद्यते .. ४१.. शास्त्रे मयि त्वयीशे च ह्यखण्डैकरसो भवान् . इत्येकरूपतया यो वा जानात्यहं त्विति .. ४२.. सकृज्ज्ञानेन मुक्तिः स्यात्सम्यग्ज्ञाने स्वयं गुरुः .. ४३.. इति द्वितीयोऽध्यायः .. २.. कुमारः पितरमात्मानुभवमनुब्रूहीति पप्रच्छ . स होवाच परः शिवः . परब्रह्मस्वरूपोऽहं परमानन्दमस्म्यहम् . केवलं ज्ञानरूपोऽहं केवलं परमोऽस्म्यहम् .. १.. केवलं शान्तरूपोऽहं केवलं चिन्मयोऽस्म्यहम् . केवलं नित्यरूपोऽहं केवलं शाश्वतोऽस्म्यहम् .. २.. केवलं सत्त्वरूपोऽहमहं त्यक्त्वाहमस्म्यहम् . सर्वहीनस्वरूपोऽहं चिदाकाशमयोऽस्म्यहम् .. ३.. केवलं तुर्यरूपोऽस्मि तुर्यातीतोऽस्मि केवलः . सदा चैतन्यरूपोऽस्मि चिदानन्दमयोऽस्म्यहम् .. ४.. केवलाकाररूपोऽस्मि शुद्धरूपोऽस्म्यहं सदा . केवलं ज्ञानरूपोऽस्मि केवलं प्रियमस्म्यहम् .. ५.. निर्विकल्पस्वरूपोऽस्मि निरीहोऽस्मि निरामयः . सदाऽसङ्गस्वरूपोऽस्मि निर्विकारोऽहमव्ययः .. ६.. सदैकरसरूपोऽस्मि सदा चिन्मात्रविग्रहः . अपरिच्छिन्नरूपोऽस्मि ह्यखण्डानन्दरूपवान् .. ७.. सत्परानन्दरूपोऽस्मि चित्परानन्दमस्म्यहम् . अन्तरान्तररूपोऽहमवाङ्मनसगोचरः .. ८.. आत्मानन्दस्वरूपोऽहं सत्यानन्दोऽस्म्यहं सदा . आत्मारामस्वरूपोऽस्मि ह्ययमात्मा सदाशिवः .. ९.. आत्मप्रकाशरूपोऽस्मि ह्यात्मज्योतिरसोऽस्म्यहम् . आदिमध्यान्तहीनोऽस्मि ह्याकाशसदृशोऽस्म्यहम् .. १०.. नित्यशुद्धचिदानन्दसत्तामात्रोऽहमव्ययः . नित्यबुद्धविशुद्धैकसच्चिदानन्दमस्म्यहम् .. १.. नित्यशेषस्वरूपोऽस्मि सर्वातीतोऽस्म्यहं सदा . रूपातीतस्वरूपोऽस्मि परमाकाशविग्रहः .. १२.. भूमानन्दस्वरूपोऽस्मि भाषाहीनोऽस्म्यहं सदा . सर्वाधिष्ठानरूपोऽस्मि सर्वदा चिद्घनोऽस्म्यहम् .. १३.. देहभावविहीनोऽस्मि चिन्ताहीनोऽस्मि सर्वदा . चित्तवृत्तिविहीनोऽहं चिदात्मैकरसोऽस्म्यहम् .. १४.. सर्वदृश्यविहीनोऽहं दृग्रूपोऽस्म्यहमेव हि . सर्वदा पूर्णरूपोऽस्मि नित्यतृप्तोऽस्म्यहं सदा .. १५.. अहं ब्रह्मैव सर्वं स्यादहं चैतन्यमेव हि . अहमेवाहमेवास्मि भूमाकाशस्वरूपवान् .. १६.. अहमेव महानात्मा ह्यहमेव परात्परः . अहमन्यवदाभामि ह्यहमेव शरीरवत् .. १७.. अहं शिष्यवदाभामि ह्ययं लोकत्रयाश्रयः . अहं कालत्रयातीत अहं वेदैरुपासितः .. १८.. अहं शास्त्रेण निर्णीत अहं चित्ते व्यवस्थितः . मत्त्यक्तं नास्ति किञ्चिद्वा मत्त्यक्तं पृथिवी च वा .. १९.. मयातिरिक्तं यद्यद्वा तत्तन्नास्तीति निश्चिनु . अहं ब्रह्मास्मि सिद्धोऽस्मि नित्यशुद्धोऽस्म्यहं सदा .. २०.. निर्गुणः केवलात्मास्मि निराकारोऽस्म्यहं सदा . केवलं ब्रह्ममात्रोऽस्मि ह्यजरोऽस्म्यमरोऽस्म्यहम् .. २१.. स्वयमेव स्वयं भामि स्वयमेव सदात्मकः . स्वयमेवात्मनि स्वस्थः स्वयमेव परा गतिः .. २२.. स्वयमेव स्वयं भञ्जे स्वयमेव स्वयं रमे . स्वयमेव स्वयं ज्योतिः स्वयमेव स्वयं महः .. २३.. स्वस्यात्मनि स्वयं रंस्ये स्वात्मन्येव विलोकये . स्वात्मन्येव सुखासीनः स्वात्ममात्रावशेषकः .. २४.. स्वचैतन्ये स्वयं स्थास्ये स्वात्मराज्ये सुखे रमे . स्वात्मसिंहासने स्थित्वा स्वात्मनोऽन्यन्न चिन्तये .. २५.. चिद्रूपमात्रं ब्रह्मैव सच्चिदानन्दमद्वयम् . आनन्दघन एवाहमहं ब्रह्मास्मि केवलम् .. २६.. सर्वदा सर्वशून्योऽहं सर्वात्मानन्दवानहम् . नित्यानन्दस्वरूपोऽहमात्माकाशोऽस्मि नित्यदा .. २७.. अहमेव हृदाकाशश्चिदादित्यस्वरूपवान् . आत्मनात्मनि तृप्तोऽस्मि ह्यरूपोऽस्म्यहमव्ययः .. २८.. एकसंख्याविहीनोऽस्मि नित्यमुक्तस्वरूपवान् . आकाशादपि सूक्ष्मोऽहमाद्यन्ताभाववानहम् .. २९.. सर्वप्रकाशरूपोऽहं परावरसुखोऽस्म्यहम् . सत्तामात्रस्वरूपोऽहं शुद्धमोक्षस्वरूपवान् .. ३०.. सत्यानन्दस्वरूपोऽहं ज्ञानानन्दघनोऽस्म्यहम् . विज्ञानमात्ररूपोऽहं सच्चिदानन्दलक्षणः .. ३१.. ब्रह्ममात्रमिदं सर्वं ब्रह्मणोऽन्यन्न किञ्चन . तदेवाहं सदानन्दं ब्रह्मैवाहं सनातनम् .. ३२.. त्वमित्येतत्तदित्येतन्मत्तोऽन्यन्नास्ति किञ्चन . चिच्चैतन्यस्वरूपोऽहमहमेव शिवः परः .. ३३.. अतिभावस्वरूपोऽहमहमेव सुखात्मकः . साक्षिवस्तुविहीनत्वात्साक्षित्वं नास्ति मे सदा .. ३४.. केवलं ब्रह्ममात्रत्वादहमात्मा सनातनः . अहमेवादिशेषोऽहमहं शेषोऽहमेव हि .. ३५.. नामरूपविमुक्तोऽहमहमानन्दविग्रहः . इन्द्रियाभावरूपोऽहं सर्वभावस्वरूपकः .. ३६.. बन्धमुक्तिविहीनोऽहं शाश्वतानन्दविग्रहः . आदिचैतन्यमात्रोऽहमखण्डैकरसोऽस्म्यहम् .. ३७.. वाङ्मनोऽगोचरश्चाहं सर्वत्र सुखवानहम् . सर्वत्र पूर्णरूपोऽहं भूमानन्दमयोऽस्म्यहम् .. ३८.. सर्वत्र तृप्तिरूपोऽहं परामृतरसोऽस्म्यहम् . एकमेवाद्वितीयं सद्ब्रह्मैवाहं न संशयः .. ३९.. सर्वशून्यस्वरूपोऽहं सकलागमगोचरः . मुक्तोऽहं मोक्षरूपोऽहं निर्वाणसुखरूपवान् ..४०.. सत्यविज्ञानमात्रोऽहं सन्मात्रानन्दवानहम् . तुरीयातीतरूपोऽहं निर्विकल्पस्वरूपवान् .. ४१.. सर्वदा ह्यजरूपोऽहं नीरागोऽस्मि निरञ्जनः . अहं शुद्धोऽस्मि बुद्धोऽस्मि नित्योऽस्मि प्रभुरस्म्यहम् .. ४२.. ओङ्कारार्थस्वरूपोऽस्मि निष्कलङ्कमयोऽस्म्यहम् . चिदाकारस्वरूपोऽस्मि नाहमस्मि न सोऽस्म्यहम् .. ४३.. न हि किञ्चित्स्वरूपोऽस्मि निर्व्यापारस्वरूपवान् . निरंशोऽस्मि निराभासो न मनो नेन्द्रियोऽस्म्यहम् .. ४४.. न बुद्धिर्न विकल्पोऽहं न देहादित्रयोऽस्म्यहम् . न जाग्रत्स्वप्नरूपोऽहं न सुषुप्तिस्वरूपवान् .. ४५.. न तापत्रयरूपोऽहं नेषणात्रयवानहम् . श्रवणं नास्ति मे सिद्धेर्मननं च चिदात्मनि .. ४६.. सजातीयं न मे किञ्चिद्विजातीयं न मे क्वचित् . स्वगतं च न मे किञ्चिन्न मे भेदत्रयं क्वचित् .. ४७.. असत्यं हि मनोरूपमसत्यं बुद्धिरूपकम् . अहङ्कारमसिद्धीति नित्योऽहं शाश्वतो ह्यजः .. ४८.. देहत्रयमसद्विद्धि कालत्रयमसत्सदा . गुणत्रयमसत्विद्धि ह्ययं सत्यात्मकः शुचिः .. ४९.. श्रुतं सर्वमसत्द्विद्धि वेदं सर्वमसत्सदा . शास्त्रं सर्वमसत्द्विद्धि ह्यहं सत्यचिदात्मकः .. ५०.. मूर्तित्रयमसद्विद्धि सर्वभूतमसत्सदा . सर्वतत्त्वमसद्विद्धि ह्ययं भूमा सदाशिवः .. ५१.. गुरुशिष्यमसद्विद्धि गुरोर्मन्त्रमसत्ततः . यद्दृश्यं तदसद्विद्धि न मां विद्धि तथाविधम् .. ५२.. यच्चिन्त्यं तदसद्विद्धि यन्न्यायं तदसत्सदा . यद्धितं तदसद्विद्धि न मां विद्धि तथाविधम् .. ५३.. सर्वान्प्राणानसद्विद्धि सर्वान्भोगानसत्त्विति . दृष्टं श्रुतमसद्विद्धि ओतं प्रोतमसन्मयम् .. ५४.. कार्याकार्यमसद्विद्धि नष्टं प्राप्तमसन्मयम् . दुःखादुःखमसद्विद्धि सर्वासर्वमन्मयम् .. ५५.. पूर्णापूर्णमसद्विद्धि धर्माधर्ममसन्मयम् . लाभालाभावसद्विद्धि जयाजयमसन्मयम् .. ५६.. शब्दं सर्वमसद्विद्धि स्पर्शं सर्वमसत्सदा . रूपं सर्वमसद्विद्धि रसं सर्वमसन्मयम् .. ५७.. गन्धं सर्वमसद्विद्धि सर्वाज्ञानमसन्मयम् . असदेव सदा सर्वमसदेव भवोद्भवम् .. ५८.. असदेव गुणं सर्वं सन्मात्रमहमेव हि . स्वात्ममन्त्रं सदा पश्येत्स्वात्ममन्त्रं सदाभ्यसेत् .. ५९.. अहं ब्रह्मास्मि मन्त्रोऽयं दृश्यपापं विनाशयेत् . अहं ब्रह्मास्मि मन्त्रोऽयमन्यमन्त्रं विनाशयेत् .. ६०.. अहं ब्रह्मास्मि मन्त्रोऽयं देहदोषं विनाशयेत् . अहं ब्रह्मास्मि मन्त्रोऽयं जन्मपापं विनाशयेत् .. ६१.. अहं ब्रह्मास्मि मन्त्रोऽयं मृत्युपाशं विनाशयेत् . अहं ब्रह्मास्मि मन्त्रोऽयं द्वैतदुःखं विनाशयेत् .. ६२.. अहं ब्रह्मास्मि मन्त्रोऽयं भेदबुद्धिं विनाशयेत् . अहं ब्रह्मास्मि मन्त्रोऽयं चिन्तादुःखं विनाशयेत् .. ६३.. अहं ब्रह्मास्मि मन्त्रोऽयं बुद्धिव्याधिं विनाशयेत् . अहं ब्रह्मास्मि मन्त्रोऽयं चित्तबन्धं विनाशयेत् .. ६४.. अहं ब्रह्मास्मि मन्त्रोऽयं सर्वव्याधीन्विनाशयेत् . अहं ब्रह्मास्मि मन्त्रोऽयं सर्वशोकं विनाशयेत् .. ६५.. अहं ब्रह्मास्मि मन्त्रोऽयं कामादीन्नाशयेत्क्षणात् . अहं ब्रह्मास्मि मन्त्रोऽयं क्रोधशक्तिं विनाशयेत् .. ६६.. अहं ब्रह्मास्मि मन्त्रोऽयं चित्तवृत्तिं विनाशयेत् . अहं ब्रह्मास्मि मन्त्रोऽयं सङ्कल्पादीन्विनाशयेत् .. ६७.. अहं ब्रह्मास्मि मन्त्रोऽयं कोटिदोषं विनाशयेत् . अहं ब्रह्मास्मि मन्त्रोऽयं सर्वतन्त्रं विनाशयेत् .. ६८.. अहं ब्रह्मास्मि मन्त्रोऽयमात्माज्ञानं विनाशयेत् . अहं ब्रह्मास्मि मन्त्रोऽयमात्मलोकजयप्रदः .. ६९.. अहं ब्रह्मास्मि मन्त्रोऽयमप्रतर्क्यसुखप्रदः . अहं ब्रह्मास्मि मन्त्रोऽयमजडत्वं प्रयच्छति .. ७०.. अहं ब्रह्मास्मि मन्त्रोऽयमनात्मासुरमर्दनः . अहं ब्रह्मास्मि वज्रोऽयमनात्माख्यगिरीन्हरेत् .. ७१.. अहं ब्रह्मास्मि मन्त्रोऽयमनात्माख्यासुरान्हरेत् . अहं ब्रह्मास्मि मन्त्रोऽयं सर्वांस्तान्मोक्षयिष्यति .. ७२.. अहं ब्रह्मास्मि मन्त्रोऽयं ज्ञानानन्दं प्रयच्छति . सप्तकोटिमहामन्त्रं जन्मकोटिशतप्रदम् .. ७३.. सर्वमन्त्रान्समुत्सृज्य एतं मन्त्रं समभ्यसेत् . सद्यो मोक्षमवाप्नोति नात्र सन्देहमण्वपि .. ७४.. इति तृतीयोध्यायः .. ३.. कुमारः परमेश्वरं पप्रच्छ जीवन्मुक्तविदेहमुक्तयोः स्थितिमनुब्रूहीति . स होवाच परः शिवः . चिदात्माहं परात्माहं निर्गुणोऽहं परात्परः . आत्ममात्रेण यस्तिष्ठेत्स जीवन्मुक्त उच्यते .. १.. देहत्रयातिरिक्तोऽहं शुद्धचैतन्यमस्म्यहम् . ब्रह्माहमिति यस्यान्तः स जीवनमुक्त उच्यते .. २.. आनन्दघनरूपोऽस्मि परानन्दघनोऽस्म्यहम् . यस्य देहादिकं नास्ति यस्य ब्रह्मेति निश्चयः . परमानन्दपूर्णो यः स जीवन्मुक्त उच्यते .. ३.. यस्य किञ्चिदहं नास्ति चिन्मात्रेणावतिष्ठते . चैतन्यमात्रो यस्यान्तश्चिन्मात्रैकस्वरूपवान् .. ४.. सर्वत्र पूर्णरूपात्मा सर्वत्रात्मावशेषकः . आनन्दरतिरव्यक्तः परिपूर्णश्चिदात्मकः .. ५.. शुद्धचैतन्यरूपात्मा सर्वसङ्गविवर्जितः . नित्यानन्दः प्रसन्नात्मा ह्यन्यचिन्ताविवर्जितः .. ६ किञ्चिदस्तित्वहीनो यः स जीवन्मुक्त उच्यते . न मे चित्तं न मे बुद्धिर्नाहङ्कारो न चेन्द्रियम् .. ७.. न मे देहः कदाचिद्वा न मे प्राणादयः क्वचित् . न मे माया न मे कामो न मे क्रोधः परोऽस्म्यहम् .. ८.. न मे किञ्चिदिदं वापि न मे किञ्चित्क्वचिज्जगत् . न मे दोषो न मे लिङ्गं न मे चक्षुर्न मे मनः .. ९.. न मे श्रोत्रं न मे नासा न मे जिह्वा न मे करः . न मे जाग्रन्न मे स्वप्नं न मे कारणमण्वपि .. १०.. न मे तुरीयमिति यः स जीवन्मुक्त उच्यते . इदं सर्वं न मे किञ्चिदयं सर्वं न मे क्वचित् .. ११.. न मे कालो न मे देशो न मे वस्तु न मे मतिः . न मे स्नानं न मे सन्ध्या न मे दैवं न मे स्थलम् .. १२.. न मे तीर्थं न मे सेवा न मे ज्ञानं न मे पदम् . न मे बन्धो न मे जन्म न मे वाक्यं न मे रविः .. १३.. न मे पुण्यं न मे पापं न मे कार्यं न मे शुभम् . ने मे जीव इति स्वात्मा न मे किञ्चिज्जगत्रयम् .. १४.. न मे मोक्षो न मे द्वैतं न मे वेदो न मे विधिः . न मेऽन्तिकं न मे दूरं न मे बोधो न मे रहः .. १५.. न मे गुरुर्न मे शिष्यो न मे हीनो न चाधिकः . न मे ब्रह्म न मे विष्णुर्न मे रुद्रो न चन्द्रमाः .. १६.. न मे पृथ्वी न मे तोयं न मे वायुर्न मे वियत् . न मे वह्निर्न मे गोत्रं न मे लक्ष्यं न मे भवः .. १७.. न मे ध्याता न मे ध्येयं न मे ध्यानं न मे मनुः . न मे शीतं न मे चोष्णं न मे तृष्णा न मे क्षुधा .. १८.. न मे मित्रं न मे शत्रुर्न मे मोहो न मे जयः . न मे पूर्वं न मे पश्चान्न मे चोर्ध्वं न मे दिशः .. १९.. न मे वक्तव्यमल्पं वा न मे श्रोतव्यमण्वपि . न मे गन्तव्यमीषद्वा न मे ध्यातव्यमण्वपि .. २०.. न मे भोक्तव्यमीषद्वा न मे स्मर्तव्यमण्वपि . न मे भोगो न मे रागो न मे यागो न मे लयः .. २१.. न मे मौर्ख्यं न मे शान्तं न मे बन्धो न मे प्रियम् . न मे मोदः प्रमोदो वा न मे स्थूलं न मे कृशम् .. २२.. न मे दीर्घं न मे ह्रस्वं न मे वृद्धिर्न मे क्षयः . अध्यारोपोऽपवादो वा न मे चैकं न मे बहु .. २३.. न मे आन्ध्यं न मे मान्द्यं न मे पट्विदमण्वपि . न मे मांसं न मे रक्तं न मे मेदो न मे ह्यसृक् .. २४.. न मे मज्जा न मेऽस्थिर्वा न मे त्वग्धातु सप्तकम् . न मे शुक्लं न मे रक्तं न मे नीलं नमे पृथक् .. २५.. न मे तापो न मे लाभो मुख्यं गौणं न मे क्वचित् . न मे भ्रान्तिर्न मे स्थैर्यं न मे गुह्यं न मे कुलम् .. २६.. न मे त्याज्यं न मे ग्राह्यं न मे हास्यं न मे नयः . न मे वृत्तं न मे ग्लानिर्न मे शोष्यं न मे सुखम् .. २७.. न मे ज्ञाता न मे ज्ञानं न मे ज्ञेयं न मे स्वयम् . न मे तुभ्यं नमे मह्यं न मे त्वं च न मे त्वहम् .. २८.. न मे जरा न मे बाल्यं न मे यौवनमण्वपि . अहं ब्रह्मास्म्यहं ब्रह्मास्म्यहं ब्रह्मेति निश्चयः .. २९.. चिदहं चिदहं चेति स जीवन्मुक्त उच्यते . ब्रह्मैवाहं चिदेवाहं परो वाहं न संशयः .. ३०.. स्वयमेव स्वयं हंसः स्वयमेव स्वयं स्थितः . स्वयमेव स्वयं पश्येत्स्वात्मराज्ये सुखं वसेत् .. ३१.. स्वात्मानन्दं स्वयं भोक्ष्येत्स जीवन्मुक्त उच्यते . स्वयमेवैकवीरोऽग्रे स्वयमेव प्रभुः स्मृतः .. ३२.. ब्रह्मभूतः प्रशान्तात्मा ब्रह्मानन्दमयः सुखी . स्वच्छरूपो महामौनी वैदेही मुक्त एव सः .. ३३.. सर्वात्मा समरूपात्मा शुद्धात्मा त्वहमुत्थितः . एकवर्जित एकात्मा सर्वात्मा स्वात्ममात्रकः .. ३४.. अजात्मा चामृतात्माहं स्वयमात्माहमव्ययः . लक्ष्यात्मा ललितात्माहं तूष्णीमात्मस्वभाववान् .. ३५.. आनन्दात्मा प्रियो ह्यात्मा मोक्षात्मा बन्धवर्जितः . ब्रह्मैवाहं चिदेवाहमेवं वापि न चिन्त्यते .. ३६.. चिन्मात्रेणैव यस्तिष्ठेद्वैदेही मुक्त एव सः ..३७.. निश्चयं च परित्यज्य अहं ब्रह्मेति निश्चयम् . आनन्दभरितस्वान्तो वैदेही मुक्त एव सः .. ३८.. सर्वमस्तीति नास्तीति निश्चयं त्यज्य तिष्ठति . अहं ब्रह्मास्मि नास्मीति सच्चिदानन्दमात्रकः .. ३९.. किञ्चित्क्वचित्कदाचिच्च आत्मानं न स्पृशत्यसौ . तूष्णीमेव स्थितस्तूष्णीं तूष्णीं सत्यं न किञ्चन .. ४०.. परमात्मा गुणातीतः सर्वात्मा भूतभावनः . कालभेदं वस्तुभेदं देशभेदं स्वभेदकम् .. ४१.. किञ्चिद्भेदं न तस्यास्ति किञ्चिद्वापि न विद्यते . अहं त्वं तदिदं सोऽयं कालात्मा कालहीनकः .. ४२.. शून्यात्मा सूक्ष्मरूपात्मा विश्वात्मा विश्वहीनकः . देवात्मादेवहीनात्मा मेयात्मा मेयवर्जितः .. ४३.. सर्वत्र जडहीनात्मा सर्वेषामन्तरात्मकः . सर्वसङ्कल्पहीनात्मा चिन्मात्रोऽस्मीति सर्वदा .. ४४.. केवलः परमात्माहं केवलो ज्ञानविग्रहः . सत्तामात्रस्वरूपात्मा नान्यत्किञ्चिज्जगद्भयम् .. ४५.. जीवेश्वरेति वाक्क्वेति वेदशास्त्राद्यहं त्विति . इदं चैतन्यमेवेति अहं चैतन्यमित्यपि .. ४६.. इति निश्चयशून्यो यो वैदेही मुक्त एव सः . चैतन्यमात्रसंसिद्धः स्वात्मारामः सुखासनः .. ४७.. अपरिच्छिन्नरूपात्मा अणुस्थूलादिवर्जितः . तुर्यतुर्या परानन्दो वैदेही मुक्त एव सः .. ४८.. नामरूपविहीनात्मा परसंवित्सुखात्मकः . तुरीयातीतरूपात्मा शुभाशुभविवर्जितः .. ४९.. योगात्मा योगयुक्तात्मा बन्धमोक्षविवर्जितः . गुणागुणविहीनात्मा देशकालादिवर्जितः .. ५०.. साक्ष्यसाक्षित्वहीनात्मा किञ्चित्किञ्चिन्न किञ्चन . यस्य प्रपञ्चमानं न ब्रह्माकारमपीह न .. ५१.. स्वस्वरूपे स्वयंज्योतिः स्वस्वरूपे स्वयंरतिः . वाचामगोचरानन्दो वाङ्मनोगोचरः स्वयम् .. ५२.. अतीतातीतभावो यो वैदेही मुक्त एव सः . चित्तवृत्तेरतीतो यश्चित्तवृत्त्यवभासकः .. ५३.. सर्ववृत्तिविहीनात्मा वैदेही मुक्त एव सः . तस्मिन्काले विदेहीति देहस्मरणवर्जितः .. ५४.. ईषन्मात्रं स्मृतं चेद्यस्तदा सर्वसमन्वितः . परैरदृष्टबाह्यात्मा परमानन्दचिद्धनः .. ५५.. परैरदृष्टबाह्यात्मा सर्ववेदान्तगोचरः . ब्रह्मामृतरसास्वादो ब्रह्मामृतरसायनः .. ५६.. ब्रह्मामृतरसासक्तो ब्रह्मामृतरसः स्वयम् . ब्रह्मामृतरसे मग्नो ब्रह्मानन्दशिवार्चनः .. ५७.. ब्रह्मामृतरसे तृप्तो ब्रह्मानन्दानुभावकः . ब्रह्मानन्दशिवानन्दो ब्रह्मानन्दरसप्रभः .. ५८.. ब्रह्मानन्दपरं ज्योतिर्ब्रह्मानन्दनिरन्तरः . ब्रह्मानन्दरसान्नादो ब्रह्मानन्दकुटुम्बकः .. ५९.. ब्रह्मानन्दरसारूढो ब्रह्मानन्दैकचिद्धनः . ब्रह्मानन्दरसोद्बाहो ब्रह्मानन्दरसम्भरः .. ६०.. ब्रह्मानन्दजनैर्युक्तो ब्रह्मानन्दात्मनि स्थितः . आत्मरूपमिद.म् सर्वमात्मनोऽन्यन्न कञ्चन .. ६१.. सर्वमात्माहमात्मास्मि परमात्मा परात्मकः . नित्यानन्द स्वरूपात्मा वैदेही मुक्त एव सः .. ६२.. पूर्णरूपो महानात्मा प्रीतात्मा शाश्वतात्मकः . सर्वान्तर्यामिरूपात्मा निर्मलात्मा निरात्मकः .. ६३.. निर्विकारस्वरूपात्मा शुद्धात्मा शान्तरूपकः . शान्ताशान्तस्वरूपात्मा नैकात्मत्वविवर्जितः .. ६४.. जीवात्मपरमात्मेति चिन्तासर्वस्ववर्जितः . मुक्तामुक्तस्वरूपात्मा मुक्तामुक्तविवर्जितः .. ६५.. बन्धमोक्षस्वरूपात्मा बन्धमोक्षविवर्जितः . द्वैताद्वैतस्वरूपात्मा द्वैताद्वैतविवर्जितः .. ६६.. सर्वासर्वस्वरूपात्मा सर्वासर्वविवर्जितः . मोदप्रमोदरूपात्मा मोदादिविनिवर्जितः .. ६७.. सर्वसङ्कल्पहीनात्मा वैदेही मुक्त एव सः . निष्कलात्मा निर्मलात्मा बुद्धात्मापुरुषात्मकः .. ६८.. आनन्दादिविहीनात्मा अमृतात्मामृतात्मकः . कालत्रयस्वरूपात्मा कालत्रयविवर्जितः .. ६९.. अखिलात्मा ह्यमेयात्मा मानात्मा मानवर्जितः . नित्यप्रत्यक्षरूपात्मा नित्यप्रत्यक्षनिर्णयः .. ७०.. अन्यहीनस्वभावात्मा अन्यहीनस्वयंप्रभः . विद्याविद्यादिमेयात्मा विद्याविद्यादिवर्जितः .. ७१.. नित्यानित्यविहीनात्मा इहामुत्रविवर्जितः . शमादिषट्कशून्यात्मा मुमुक्षुत्वादिवर्जितः .. ७२.. स्थूलदेहविहीनात्मा सूक्ष्मदेहविवर्जितः . कारणादिविहीनात्मा तुरीयादिविवर्जितः .. ७३.. अन्नकोशविहीनात्मा प्राणकोशविवर्जितः . मनःकोशविहीनात्मा विज्ञानादिविवर्जितः .. ७४.. आनन्दकोशहीनात्मा पञ्चकोशविवर्जितः . निर्विकल्पस्वरूपात्मा सविकल्पविवर्जितः .. ७५.. दृश्यानुविद्धहीनात्मा शब्दविद्धविवर्जितः . सदा समाधिशून्यात्मा आदिमध्यान्तवर्जितः .. ७६.. प्रज्ञानवाक्यहीनात्मा अहंब्रह्मास्मिवर्जितः . तत्त्वमस्यादिहीनात्मा अयमात्मेत्यभावकः .. ७७.. ओङ्कारवाच्यहीनात्मा सर्ववाच्यविवर्जितः . अवस्थात्रयहीनात्मा अक्षरात्मा चिदात्मकः .. ७८.. आत्मज्ञेयादिहीनात्मा यत्किञ्चिदिदमात्मकः . भानाभानविहीनात्मा वैदेही मुक्त एव सः .. ७९.. आत्मानमेव वीक्षस्व आत्मानं बोधय स्वकम् . स्वमात्मानं स्वयं भुङ्क्ष्व स्वस्थो भव षडानन .. ८०.. स्वमात्मनि स्वयं तृप्तः स्वमात्मानं स्वयं चर . आत्मानमेव मोदस्व वैदेही मुक्तिको भवेत्युपनिषत् .. इति चतुर्थोऽध्यायः .. ४.. निदाघो नाम वै मुनिः पप्रच्छ ऋभुं भगवन्तमात्मानात्मविवेकमनुब्रूहीति . स होवाच ऋभुः . सर्ववाचोऽवधिर्ब्रह्म सर्वचिन्तावधिर्गुरुः . सर्वकारणकार्यात्मा कार्यकारणवर्जितः .. १.. सर्वसङ्कल्परहितः सर्वनादमयः शिवः . सर्ववर्जितचिन्मात्रः सर्वानन्दमयः परः .. २.. सर्वतेजःप्रकाशात्मा नादानन्दमयात्मकः . सर्वानुभवनिर्मुक्तः सर्वध्यानविवर्जितः .. ३.. सर्वनादकलातीत एष आत्माहमव्ययः . आत्मानात्मविवेकादिभेदाभेदविवर्जितः .. ४.. शान्ताशान्तादिहीनात्मा नादान्तर्ज्योतिरूपकः . महावाक्यार्थतो दूरो ब्रह्मास्मीत्यतिदूरतः .. ५.. तच्छब्दवर्ज्यस्त्वंशब्दहीनो वाक्यार्थवर्जितः . क्षराक्षरविहीनो यो नादान्तर्ज्योतिरेव सः .. ६.. अखण्डैकरसो वाहमानन्दोऽस्मीति वर्जितः . सर्वातीतस्वभावात्मा नादान्तर्ज्योतिरेव सः .. ७.. आत्मेति शब्दहीनो य आत्मशब्दार्थवर्जितः . सच्चिदानन्दहीनो य एषैवात्मा सनातनः .. ८.. स निर्देष्टुमशक्यो यो वेदवाक्यैरगम्यतः . यस्य किञ्चिद्बहिर्नास्ति किञ्चिदन्तः कियन्न च .. ९.. यस्य लिङ्गं प्रपञ्चं वा ब्रह्मैवात्मा न संशयः . नास्ति यस्य शरीरं वा जीवो वा भूतभौतिकः .. १०.. नामरूपादिकं नास्ति भोज्यं वा भोगभुक्च वा . सद्वाऽसद्वा स्थितिर्वापि यस्य नास्ति क्षराक्षरम् .. ११.. गुणं वा विगुणं वापि सम आत्मा न संशयः . यस्य वाच्यं वाचकं वा श्रवणं मननं च वा .. १२.. गुरुशिष्यादिभेदं वा देवलोकाः सुरासुराः . यत्र धर्ममधर्मं वा शुद्धं वाशुद्धमण्वपि .. १३.. यत्र कालमकालं वा निश्चयः संशयो न हि . यत्र मन्त्रममन्त्रं वा विद्याविद्ये न विद्यते .. १४.. द्रष्टृदर्शनदृश्यं वा ईषन्मात्रं कलात्मकम् . अनात्मेति प्रसङ्गो वा ह्यनात्मेति मनोऽपि वा .. १५.. अनात्मेति जगद्वापि नास्ति नास्ति निश्चिनु . सर्वसङ्कल्पशून्यत्वात्सर्वकार्यविवर्जनात् .. १६.. केवलं ब्रह्ममात्रत्वान्नास्त्यनात्मेति निश्चिनु . देहत्रयविहीनत्वात्कालत्रयविवर्जनात् .. १७.. जीवत्रयगुणाभावात्तापत्रयविवर्जनात् . लोकत्रयविहीनत्वात्सर्वमात्मेति शासनात् .. १८.. चित्ताभाच्चिन्तनीयं देहाभावाज्जरा न च . पादाभावाद्गतिर्नास्ति हस्ताभावात्क्रिया न च .. १९.. मृत्युर्नास्ति जनाभावाद्बुद्ध्यभावात्सुखादिकम् . धर्मो नास्ति शुचिर्नास्ति सत्यं नास्ति भयं न च .. २०.. अक्षरोच्चारणं नास्ति गुरुशिष्यादि नास्त्यपि . एकाभावे द्वितीयं न न द्वितीये न चैकता .. २१.. सत्यत्वमस्ति चेत्किञ्चिदसत्यं न च संभवेत् . असत्यत्वं यदि भवेत्सत्यत्वं न घटिष्यति .. २२.. शुभं यद्यशुभं विद्धि अशुभाच्छुभमिष्यते . भयं यद्यभवं विद्धि अभयाद्भयमापतेत् .. २३.. बन्धत्वमपि चेन्मोक्षो बन्धाभावे क्व मोक्षता . मरणं यदि चेज्जन्म जन्माभावे मृतिर्न च .. २४.. त्वमित्यपि भवेच्चाहं त्वं नो चेदहमेव न . इदं यदि तदेवास्ति तदभादिदं न च .. २५.. अस्तीति चेन्नास्ति तदा नास्ति चेदस्ति किञ्चन . कार्यं चेत्कारणं किञ्चित्कार्याभावे न कारणम् .. २६.. द्वैतं यदि तदाऽद्वैतं द्वैताभावे द्वयं न च . दृश्यं यदि दृगप्यस्ति दृश्याभावे दृगेन न .. २७.. अन्तर्यदि बहिः सत्यमन्ता भावे बहिर्न च . पूर्णत्वमस्ति चेत्किञ्चिदपूर्णत्वं प्रसज्यते .. २८.. तस्मादेतत्क्वचिन्नास्ति त्वं चाहं वा इमे इदम् . नास्ति दृष्टान्तिकं सत्ये नास्ति दार्ष्टान्तिकं ह्यजे .. २९.. परंब्रह्माहमस्मीति स्मरणस्य मनो न हि . ब्रह्ममात्रं जगदिदं ब्रह्ममात्रं त्वमप्यहम् .. ३०.. चिन्मात्रं केवल.म् चाहं नास्त्यनात्म्येति निश्चिनु . इदं प्रपञ्चं नास्त्येव नोत्पन्नं नो स्थितं क्वचित् .. ३१.. चित्तं प्रपञ्चमित्याहुर्नास्ति नास्त्येव सर्वदा . न प्रपञ्चं न चित्तादि नाहङ्कारो न जीवकः .. ३२.. मायाकार्यादिकं नास्ति माया नास्ति भयं नहि . कर्ता नास्ति क्रिया नास्ति श्रवणं मननं नहि .. ३३.. समाधिद्वितयं नास्ति मातृमानादि नास्ति हि . अज्ञानं चापि नास्त्येव ह्यविवेकं कदाचन .. ३४.. अनुबन्धचतुष्कं न सम्बन्धत्रयमेव न . न गङ्गा न गया सेतुर्न भूतं नान्यदस्ति हि .. ३५.. न भूमिर्न जलं नाग्निर्न न वायुर्न च खं क्वचित् . न देवा न च दिक्पाला न वेदा न गुरुः क्वचित् .. ३६.. न दूरं नास्तिकं नालं न मध्यं न क्वचित्स्थितम् . नाद्वैतं द्वैतसत्यं वा ह्यसत्यं वा इदं न च .. ३७.. बन्धमोक्षादिकं नास्ति सद्वाऽसद्वा सुखादि वा . जातिर्नास्ति गतिर्नास्ति वर्णो नास्ति न लौकिकम् .. ३८.. सर्वं ब्रह्मेति नास्त्येव ब्रह्म इत्यपि नास्ति हि . चिदित्येवेति नास्त्येव चिदहंभाषणं न हि .. ३९.. अहं ब्रह्मास्मि नास्त्येव नित्यशुद्धोऽस्मि न क्वचित् . वाचा यदुच्यते किञ्चिन्मनसा मनुते क्वचित् .. ४०.. बुद्ध्या निश्चिनुते नास्ति चित्तेन ज्ञायते नहि . योगी योगादिकं नास्ति सदा सर्वं सदा न च .. ४१.. अहोरात्रादिकं नास्ति स्नानध्यानादिकं नहि . भ्रान्तिरभ्रान्तिर्नास्त्येव नास्त्यनात्मेति निश्चिनु .. ४२.. वेदशास्त्रं पुराणं च कार्यं कारणमीश्वरः . लोको भूतं जनस्त्वैक्यं सर्वं मिथ्या न संशयः .. ४३.. बन्धो मोक्षः सुखं दुःखं ध्यानं चित्तं सुरासुराः . गौणं मुख्यं परं चान्यत्सर्वं मिथ्या न संशयः .. ४४.. वाचा वदति यत्किञ्चित्सङ्कल्पैः कल्प्यते च यत् . मनसा चिन्त्यते यद्यत्सर्वं मिथ्या न संशयः .. ४५.. बुद्ध्या निश्चीयते किञ्चिच्चित्ते निश्चीयते क्वचित् . शास्त्रैः प्रपञ्च्यते यद्यन्नेत्रेणैव निरीक्ष्यते .. ४६.. श्रोत्राभ्यां श्रूयते यद्यदन्यत्सद्भावमेव च . नेत्रं श्रोत्रं गात्रमेव मिथ्येति च सुनिश्चितम् .. ४७.. इदमित्येव निर्दिष्टमयमित्येव कल्प्यते . त्वमहं तदिदं सोऽहमन्यत्सद्भावमेव च .. ४८.. यद्यत्संभाव्यते लोके सर्वसङ्कल्पसंभ्रमः . सर्वाध्यासं सर्वगोप्यं सर्वभोगप्रभेदकम् .. ४९.. सर्वदोषप्रभेदाच्च नास्त्यनात्मेति निश्चिनु . मदीयं च त्वदीयं च ममेति च तवेति च .. ५०.. मह्यं तुभ्यं मयेत्यादि तत्सर्वं वितथं भवेत् . रक्षको विष्णुरित्यादि ब्रह्मा सृष्टेस्तु कारणम् .. ५१.. संहारे रुद्र इत्येवं सर्वं मिथ्येति निश्चिनु . स्नानं जपस्तपो होमः स्वाध्यायो देवपूजनम् .. ५२.. मन्त्रं तन्त्रं च सत्सङ्गो गुणदोषविजृम्भणम् . अन्तःकरणसद्भाव अविद्याश्च संभवः .. ५३.. अनेककोटिब्रह्माण्डं सर्वं मिथ्येति निश्चिनु . सर्वदेशिकवाक्योक्तिर्येन केनापि निश्चितम् .. ५४.. दृश्यते जगति यद्यद्यद्यज्जगति वीक्ष्यते . वर्तते जगति यद्यत्सर्वं मिथ्येति निश्चिनु .. ५५.. येन केनाक्षरेणोक्तं येन केन विनिश्चितम् . येन केनापि गदितं येन केनापि मोदितम् .. ५६.. येन केनापि यद्दत्तं येन केनापि यत्कृतम् . यत्र यत्र शुभं कर्म यत्र यत्र च दुष्कृतम् .. ५७.. यद्यत्करोषि सत्येन सर्वं मिथ्येति निश्चिनु . त्वमेव परमात्मासि त्वमेव परमो गुरुः .. ५८.. त्वमेवाकाशरूपोऽसि साक्षिहीनोऽसि सर्वदा . त्वमेव सर्वभावोऽसि त्वं ब्रह्मासि न संशयः .. ५९.. कालहीनोऽसि कालोऽसि सदा ब्रह्मासि चिद्घनः . सर्वतः स्वस्वरूपोऽसि चैतन्यघनवानसि .. ६०.. सत्योऽसि सिद्धोऽसि सनातनोऽसि

        मुक्तोऽसि मोक्षोऽसि मुदामृतोऽसि .

देवोऽसि शान्तोऽसि निरामयोऽसि

        ब्रह्मासि पूर्णोऽसि परात्परोऽसि .. ६१..

समोऽसि सच्चापि सनातनोऽसि

        सत्यादिवाक्यैः प्रतिबोधितोऽसि .

सर्वाङ्गहीनोऽसि सदा स्थितोऽसि

        ब्रह्मेन्द्ररुद्रादिविभावितोऽसि .. ६२..

सर्वप्रपञ्चभ्रमवर्जितोऽसि

        सर्वेषु भूतेषु च भासितोऽसि .

सर्वत्र सङ्कल्पविवर्जितोऽसि

        सर्वागमान्तार्थविभावितोऽसि .. ६३..

सर्वत्र सन्तोषसुखासनोऽसि

        सर्वत्र गत्यादिविवर्जितोऽसि .

सर्वत्र लक्ष्यादिविवर्जितोऽसि

        ध्यातोऽसि विष्ण्वादिसुरैरजस्रम् .. ६४..

चिदाकारस्वरूपोऽसि चिन्मात्रोऽसि निरङ्कुशः . आत्मन्येव स्थितोऽसि त्वं सर्वशून्योऽसि निर्गुणः .. ६५.. आनन्दोऽसि परोऽसि त्वमेक एवाद्वितीयकः . चिद्घनानन्दरूपोऽसि परिपूर्णस्वरूपकः .. ६६.. सदसि त्वमसि ज्ञोऽसि सोऽसि जानासि वीक्षसि . सच्चिदानन्दरूपोऽसि वासुदेवोऽसि वै प्रभुः .. ६७.. अमृतोऽसि विभुश्चासि चञ्चलो ह्यचलो ह्यसि . सर्वोऽसि सर्वहीनोऽसि शान्ताशान्तविवर्जितः .. ६८.. सत्तामात्रप्रकाशोऽसि सत्तासामान्यको ह्यसि . नित्यसिद्धिस्वरूपोऽसि सर्वसिद्धिविवर्जितः .. ६९.. ईषन्मात्रविशून्योऽसि अणुमात्रविवर्जितः . अस्तित्ववर्जितोऽसि त्वं नास्तित्वादिविवर्जितः .. ७०.. लक्ष्यलक्षणहीनोऽसि निर्विकारो निरामयः . सर्वनादान्तरोऽसि त्वं कलाकाष्ठाविवर्जितः .. ७१.. ब्रह्मविष्ण्वीशहीनोऽसि स्वस्वरूपं प्रपश्यसि . स्वस्वरूपावशेषोऽसि स्वानन्दाब्धौ निमज्जसि .. ७२.. स्वात्मराज्ये स्वमेवासि स्वयंभावविवर्जितः . शिष्टपूर्णस्वरूपोऽसि स्वस्मात्किञ्चिन्न पश्यसि .. ७३.. स्वस्वरूपान्न चलसि स्वस्वरूपेण जृम्भसि . स्वस्वरूपादनन्योऽसि ह्यहमेवासि निश्चिनु .. ७४.. इदं प्रपञ्चं यत्किञ्चिद्यद्यज्जगति विद्यते . दृश्यरूपं च दृग्रूपं सर्वं शशविषाणवत् .. ७५.. भूमिरापोऽनलो वायुः खं मनो बुद्धिरेव च . अहङ्कारश्च तेजश्च लोकं भुवनमण्डलम् .. ७६.. नाशो जन्म च सत्यं च पुण्यपापजयादिकम् . रागः कामः क्रोधलोभौ ध्यानं ध्येयं गुणं परम् .. ७७.. गुरुशिष्योपदेशादिरादिरन्तं शमं शुभम् . भूतं भव्यं वर्तमानं लक्ष्यं लक्षणमद्वयम् .. ७८.. शमो विचारः सन्तोषो भोक्तृभोज्यादिरूपकम् . यमाद्यष्टाङ्गयोगं च गमनागमनात्मकम् .. ७९.. आदिमध्यान्तरङ्गं च ग्राह्यं त्याज्यं हरिः शिवः . इन्द्रियाणि मनश्चैव अवस्थात्रितयं तथा .. ८०.. चतुर्विंशतितत्त्वं च साधनानां चतुष्टयम् . सजातीयं विजातीयं लोका भूरादयः क्रमात् .. ८१.. सर्ववर्णाश्रमाचारं मन्त्रतन्त्रादिसंग्रहम् . विद्याविद्यादिरूपं च सर्ववेदं जडाजडम् .. ८२.. बन्धमोक्षविभागं च ज्ञानविज्ञानरूपकम् . बोधाबोधस्वरूपं वा द्वैताद्वैतादिभाषणम् .. ८३.. सर्ववेदान्तसिद्धान्तं सर्वशास्त्रार्थनिर्णयम् . अनेकजीवसद्भावमेकजीवादिनिर्णयम् .. ८४.. यद्यद्ध्यायति चित्तेन यद्यत्सङ्कल्पते क्वचित् . बुद्ध्या निश्चीयते यद्यद्गुरुणा संशृणोति यत् .. ८५.. यद्यद्वाचा व्याकरोति यद्यदाचार्यभाषणम् . यद्यत्स्वरेन्द्रियैर्भाव्यं यद्यन्मीमांसते पृथक् .. ८६.. यद्यन्न्यायेन निर्णीतं महद्भिर्वेदपारगैः . शिवः क्षरति लोकान्वै विष्णुः पाति जगत्त्रयम् .. ८७.. ब्रह्मा सृजति लोकान्वै एवमादिक्रियादिकम् . यद्यदस्ति पुराणेषु यद्यद्वेदेषु निर्णयम् .. ८८.. सर्वोपनिषदां भावं सर्वं शशविषाणवत् . देहोऽहमिति सङ्कल्पं तदन्तःकरणं स्मृतम् .. ८९.. देहोऽहमिति सङ्कल्पो महत्संसार उच्यते . देहोऽहमिति सङ्कल्पस्तद्बन्धमिति चोच्यते .. ९०.. देहोऽहमिति सङ्कल्पस्तद्दुःखमिति चोच्यते . देहोऽहमिति यद्भानं तदेव नरकं स्मृतम् .. ९१.. देहोऽहमिति सङ्कल्पो जगत्सर्वमितीर्यते . देहोऽहमिति सङ्कल्पो हृदयग्रन्थिरीरितिः .. ९२.. देहोऽहमिति यज्ज्ञानं तदेवाज्ञानमुच्यते . देहोऽहमिति यज्ज्ञानं तदसद्भावमेव च .. ९३.. देहोऽहमिति या बुद्धिः सा चाविद्येति भण्यते . देहोऽहमिति यज्ज्ञानं तदेव द्वैतमुच्यते .. ९४.. देहोऽहमिति सङ्कल्पः सत्यजीवः स एव हि . देहोऽहमिति यज्ज्ञानं परिच्छिन्नमितीरितम् .. ९५.. देहोऽहमिति सङ्कल्पो महापापमिति स्फुटम् . देहोऽहमिति या बुद्धिस्तृष्णा दोषामयः किल .. ९६.. यत्किञ्चिदपि सङ्कल्पस्तापत्रयमितीरितम् . कामं क्रोधं बन्धनं सर्वदुःखं

      विश्वं दोषं कालनानास्वरूपम् .

यत्किञ्चेदं सर्वसङ्कल्पजालं

      तत्किञ्चेदं मानसं सोम विद्धि .. ९७..

मन एव जगत्सर्वं मन एव महारिपुः . मन एव हि संसारो मन एव जगत्त्रयम् .. ९८.. मन एव महद्दुःखं मन एव जरादिकम् . मन एव हि कालश्च मन एव मलं तथा .. ९९.. मन एव हि सङ्कल्पो मन एव हि जीवकः . मन एव हि चित्तं च मनोऽहङ्कार एव च .. १००.. मन एव महद्बन्धं मनोऽन्तःकरणं च तत् . मन एव हि भूमिश्च मन एव हि तोयकम् .. १०१.. मन एव हि तेजश्च मन एव मरुन्महान् . मन एव हि चाकाशं मन एव हि शब्दकम् .. १०२.. स्पर्शं रूपं रसं गन्धं कोशाः पञ्च मनोभवाः . जाग्रत्स्वप्नसुषुप्त्यादि मनोमयरितीरितम् .. १०३.. दिक्पाला वसवो रुद्रा आदित्याश्च मनोमयाः . दृश्यं जडं द्वन्द्वजातमज्ञानं मानसं स्मृतम् .. १०४.. सङ्कल्पमेव यत्किञ्चित्तत्तन्नास्तीति निश्चिनु . नास्ति नास्ति जगत्सर्वं गुरुशिष्यादिकं नहीत्युपनिषत् .. १०५.. इति पञ्चमोऽध्यायः .. ५.. ऋभुः .. सर्वं सच्चिन्मयं विद्धि सर्वं सच्चिन्मयं ततम् . सच्चिदानन्दमद्वैतं सच्चिदानन्दमद्वयम् .. १.. सच्चिदानन्दमात्रं हि सच्चिदानन्दमन्यकम् . सच्चिदानन्दरूपोऽहं सच्चिदानन्दमेव खम् .. २.. सच्चिदानन्दमेव त्वं सच्चिदानन्दकोऽस्म्यहम् . मनोबुद्धिरहङ्कारचित्तसङ्घातका अमी .. ३.. न त्वं नाहं न चान्यद्वा सर्वं ब्रह्मैव केवलम् . न वाक्यं न पदं वेदं नाक्षरं न जडं क्वचित् .. ४.. न मध्यं नादि नान्तं वा न सत्यं न निबन्धजम् . न दुःखं न सुखं भावं न माया प्रकृतिस्तथा .. ५.. न देहं न मुखं घ्राणं न जिह्वा न च तालुनी . न दन्तोष्ठौ ललाटं च निश्वासोच्छ्वास एव च .. ६.. न स्वेदमस्थि मांसं च न रक्तं न च मूत्रकम् . न दूरं नान्तिकं नाङ्गं नोदरं न किरीटकम् .. ७.. न हस्तपादचलनं न शास्त्रं न च शासनम् . न वेत्ता वेदनं वेद्यं न जाग्रत्स्वप्नसुप्तयः .. ८.. तुर्यातीतं न मे किञ्चित्सर्वं सच्चिन्मयं ततम् . नाध्यात्मिकं नाधिभूतं नाधिदैवं न मायिकम् .. ९.. न विश्वतैजसः प्राज्ञो विराट्सूत्रात्मकेश्वरः . न गमागमचेष्टा च न नष्टं न प्रयोजनम् .. १०.. त्याज्यं ग्राह्यं न दूष्यं वा ह्यमेध्यामेध्यकं तथा . न पीनं न कृशं क्लेदं न कालं देशभाषणम् .. ११.. न सर्वं न भयं द्वैतं न वृक्षतृणपर्वताः . न ध्यानं योगसंसिद्धिर्न ब्रह्मवैश्यक्षत्रकम् .. १२.. न पक्षी न मृगो नाङ्गी न लोभो मोह एव च . न मदो न च मात्सर्यं कामक्रोधादयस्तथा .. १३.. न स्त्रीशूद्रबिडालादि भक्ष्यभोज्यादिकं च यत् . न प्रौढहीनो नास्तिक्यं न वार्तावसरोऽति हि .. १४.. न लौकिको न लोको वा न व्यापारो न मूढता . न भोक्ता भोजनं भोज्यं न पात्रं पानपेयकम् .. १५.. न शत्रुमित्रपुत्रादिर्न माता न पिता स्वसा . न जन्म न मृतिर्वृद्धिर्न देहोऽहमिति भ्रमः .. १६.. न शून्यं नापि चाशून्यं नान्तःकरणसंसृतिः . न रात्रिर्न दिवा नक्तं न ब्रह्मा न हरिः शिवः .. १७.. न वारपक्षमासादि वत्सरं न च चञ्चलम् . न ब्रह्मलोको वैकुण्ठो न कैलासो न चान्यकः .. १८.. न स्वर्गो न च देवेन्द्रो नाग्निलोको न चाग्निकः . न यमो यमलोको वा न लोका लोकपालकाः .. १९.. न भूर्भुवःस्वस्त्रैलोक्यं न पातालं न भूतलम् . नाविद्या न च विद्या च न माया प्रकृतिर्जडा .. २०.. न स्थिरं क्षणिकं नाशं न गतिर्न च धावनम् . न ध्यातव्यं न मे ध्यानं न मन्त्रो न जपः क्वचित् .. २१.. न पदार्था न पूजार्हं नाभिषेको न चार्चनम् . न पुष्पं न फलं पत्रं गन्धपुष्पादिधूपकम् .. २२.. न स्तोत्रं न नमस्कारो न प्रदक्षिणमण्वपि . न प्रार्थना पृथग्भावो न हविर्नाग्निवन्दनम् .. २३.. न होमो न च कर्माणि न दुर्वाक्यं सुभाषणम् . न गायत्री न वा सन्धिर्न मनस्यं न दुःस्थितिः .. २४.. न दुराशा न दुष्टात्मा न चाण्डालो न पौल्कसः . न दुःसहं दुरालापं न किरातो न कैतवम् .. २५.. न पक्षपातं न पक्षं वा न विभूषणतस्करौ . न च दम्भो दाम्भिको वा न हीनो नाधिको नरः .. २६.. नैकं द्वयं त्रयं तुर्यं न महत्वं न चाल्पता . न पूर्णं न परिच्छिन्नं न काशी न व्रतं तपः .. २७.. न गोत्रं न कुलं सूत्रं न विभुत्वं न शून्यता . न स्त्री न योषिन्नो वृद्धा न कन्या न वितन्तुता .. २८.. न सूतकं न जातं वा नान्तर्मुखसुविभ्रमः . न महावाक्यमैक्यं वा नाणिमादिविभूतयः .. २९.. सर्वचैतन्यमात्रत्वात्सर्वदोषः सदा न हि . सर्वं सन्मात्ररूपत्वात्सच्चिदानन्दमात्रकम् .. ३०.. ब्रह्मैव सर्वं नान्योऽस्ति तदहं तदहं तथा . तदेवाहं तदेवाहं ब्रह्मैवाहं सनातनम् .. ३१.. ब्रह्मैवाहं न संसारी ब्रह्मैवाहं न मे मनः . ब्रह्मैवाहं न मे बुद्धिर्ब्रह्मैवाहं न चेन्द्रियः .. ३२.. ब्रह्मैवाहं न देहोऽहं ब्रह्मैवाहं न गोचरः . ब्रह्मैवाहं न जीवोऽहं ब्रह्मैवाहं न भेदभूः .. ३३.. ब्रह्मैवाहं जडो नाहमहं ब्रह्म न मे मृतिः . ब्रह्मैवाहं न च प्राणो ब्रह्मैवाहं परात्परः .. ३४.. इदं ब्रह्म परं ब्रह्म सत्यं ब्रह्म प्रभुर्हि सः . कालो ब्रह्म कला ब्रह्म सुखं ब्रह्म स्वयंप्रभम् .. ३५.. एकं ब्रह्म द्वयं ब्रह्म मोहो ब्रह्म शमादिकम् . दोषो ब्रह्म गुणो ब्रह्म दमः शान्तं विभुः प्रभुः .. ३६.. लोको ब्रह्म गुरुर्ब्रह्म शिष्यो ब्रह्म सदाशिवः . पूर्वं ब्रह्म परं ब्रह्म शुद्धं ब्रह्म शुभाशुभम् .. ३७.. जीव एव सदा ब्रह्म सच्चिदानन्दमस्म्यहम् . सर्वं ब्रह्ममयं प्रोक्तं सर्वं ब्रह्ममयं जगत् .. ३८.. स्वयं ब्रह्म न सन्देहः स्वस्मादन्यन्न किञ्चन . सर्वमात्मैव शुद्धात्मा सर्वं चिन्मात्रमद्वयम् .. ३९.. नित्यनिर्मलरूपात्मा ह्यात्मनोऽन्यन्न किञ्चन . अणुमात्रलसद्रूपमणुमात्रमिदं जगत् .. ४०.. अणुमाअत्रं शरीरं वा ह्यणुमात्रमसत्यकम् . अणुमात्रमचिन्त्यं वा चिन्त्यं वा ह्यणुमात्रकम् .. ४१.. ब्रह्मैव सर्वं चिन्मात्रं ब्रह्ममात्रं जगत्त्रयम् . आनन्दं परमानन्दमन्यत्किञ्चिन्न किञ्चन .. ४२.. चैतन्यमात्रमोङ्कारं ब्रह्मैव सकलं स्वयम् . अहमेव जगत्सर्वमहमेव परं पदम् .. ४३.. अहमेव गुणातीत अहमेव परात्परः . अहमेव परं ब्रह्म अहमेव गुरोर्गुरुः .. ४४.. अहमेवाखिलाधार अहमेव सुखात्सुखम् . आत्मनोऽन्यज्जगन्नास्ति आत्मनोऽन्यत्सुखं न च .. ४५.. आत्मनोऽन्या गतिर्नास्ति सर्वमात्ममयं जगत् . आत्मनोऽन्यन्नहि क्वापि आत्मनोऽन्यत्तृणं नहि .. ४६.. आत्मनोऽन्यत्तुषं नास्ति सर्वमात्ममयं जगत् . ब्रह्ममात्रमिदं सर्वं ब्रह्ममात्रमसन्न हि .. ४७.. ब्रह्ममात्रं श्रुतं सर्वं स्वयं ब्रह्मैव केवलम् . ब्रह्ममात्रं वृतं सर्वं ब्रह्ममात्रं रसं सुखम् .. ४८.. ब्रह्ममात्रं चिदाकाशं सच्चिदानन्दमव्ययम् . ब्रह्मणोऽन्यतरन्नास्ति ब्रह्मणोऽन्यज्जगन्न च .. ४९.. ब्रह्मणोऽन्यदह नास्ति ब्रह्मणोऽन्यत्फलं नहि . ब्रह्मणोऽन्यत्तृणं नास्ति ब्रह्मणोऽन्यत्पदं नहि .. ५०.. ब्रह्मणोऽन्यद्गुरुर्नास्ति ब्रह्मणोऽन्यमसद्वपुः . ब्रह्मणोऽन्यन्न चाहन्ता त्वत्तेदन्ते नहि क्वचित् .. ५१.. स्वयं ब्रह्मात्मकं विद्धि स्वस्मादन्यन्न किञ्चन . यत्किञ्चिद्दृश्यते लोके यत्किञ्चिद्भाष्यते जनैः .. ५२.. यत्किञ्चिद्भुज्यते क्वापि तत्सर्वमसदेव हि . कर्तृभेदं क्रियाभेदं गुणभेदं रसादिकम् ..५३.. लिङ्गभेदमिदं सर्वमसदेव सदा सुखम् . कालभेदं देशभेदं वस्तुभेदं जयाजयम् .. ५४.. यद्यद्भेदं च तत्सर्वमसदेव हि केवलम् . असदन्तःकरणकमसदेवेन्द्रियादिकम् .. ५५.. असत्प्राणादिकं सर्वं सङ्घातमसदात्मकम् . असत्यं पञ्चकोशाख्यमसत्यं पञ्च देवताः .. ५६.. असत्यं षड्विकारादि असत्यमरिवर्गकम् . असत्यं षडृतुश्चैव असत्यं षड्रसस्तथा .. ५७.. सच्चिदानन्दमात्रोऽहमनुत्पन्नमिदं जगत् . आत्मैवाहं परं सत्यं नान्याः संसारदृष्टयः .. ५८.. सत्यमानन्दरूपोऽहं चिद्घनानन्दविग्रहः . अहमेव परानन्द अहमेव परात्परः .. ५९.. ज्ञानाकारमिदं सर्वं ज्ञानानन्दोऽहमद्वयः . सर्वप्रकाशरूपोऽहं सर्वाभावस्वरूपकम् .. ६०.. अहमेव सदा भामीत्येवं रूपं कुतोऽप्यसत् . त्वमित्येवं परं ब्रह्म चिन्मयानन्दरूपवान् .. ६१.. चिदाकारं चिदाकाशं चिदेव परमं सुखम् . आत्मैवाहमसन्नाहं कूटस्थोऽहं गुरुः परः .. ६२.. सच्चिदानन्दमात्रोऽहमनुत्पन्नमिदं जगत् . कालो नास्ति जगन्नास्ति मायाप्रकृतिरेव न .. ६३.. अहमेव हरिः साक्षादहमेव सदाशिवः . शुद्धचैतन्यभावोऽहं शुद्धसत्त्वानुभावनः .. ६४.. अद्वयानन्दमात्रोऽहं चिद्घनैकरसोऽस्म्यहम् . सर्वं ब्रह्मैव सततं सर्वं ब्रह्मैव केवलम् .. ६५.. सर्वं ब्रह्मैव सततं सर्वं ब्रह्मैव चेतनम् . सर्वान्तर्यामिरूपोऽहं सर्वसाक्षित्वलक्षणः .. ६६.. परमात्मा परं ज्योतिः परं धाम परा गतिः . सर्ववेदान्तसारोऽहं सर्वशास्त्रसुनिश्चितः .. ६७.. योगानन्दस्वरूपोऽहं मुख्यानन्दमहोदयः . सर्वज्ञानप्रकाशोऽस्मि मुख्यविज्ञानविग्रहः .. ६८.. तुर्यातुर्यप्रकाशोऽस्मि तुर्यातुर्यादिवर्जितः . चिदक्ष्रोऽन् सत्योऽहं वासुदवोऽजररोऽमरः .. ६९.. अहं ब्रह्म चिदाकाशं नित्यं ब्रह्म निरञ्जनम् . शुद्धं बुद्धं सदामुक्तमनामकमरूपकम् .. ७०.. सच्चिदानन्दरूपोऽहमनुन्त्पन्नमिदं जगत् . सत्यासत्यं जगन्नास्ति सङ्कल्पकलनादिकम् .. ७१.. नित्यानन्दमयं ब्रह्म केवलं सर्वदा स्वयम् . अनन्तमव्ययं शान्तमेकरूपमनामयम् .. ७२.. मत्तोऽन्यदस्ति चेन्मिथ्या यथा मरुमरीचिका . वन्ध्याकुमारवचने भीतिश्चेदस्ति किञ्चन .. ७३.. शशशृङ्गेण नागेन्द्रो मृतश्चेज्जगदस्ति तत् . मृगतृष्णाजलं पीत्वा तृप्तश्चेदस्त्विदं जगत् .. ७४.. नरशृङ्गेण नष्टश्चेत्कश्चिदस्त्विदमेव हि . गन्धर्वनगरे सत्ये जगद्भवति सर्वदा .. ७५.. गगने नीलिमासत्ये जगत्सत्यं भविष्यति . शुक्तिकारजतं सत्यं भूषणं चेज्जगद्भवेत् .. ७६.. रज्जुसर्पेण दष्टश्चेन्नरो भवतु संसृतिः . जातरूपेण बाणेन ज्वालाग्नौ नाशिते जगत् .. ७७.. विन्ध्याटव्यां पायसान्नमस्ति चेज्जगदुद्भवः . रम्भास्तम्भेन काष्ठेन पाकसिद्धौ जगद्भवेत् .. ७८.. सद्यः कुमारिकरूपैः पाके सिद्धे जगद्भवेत् . चित्रस्थदीपैस्तमसो नाशश्चेदस्त्विदं जगत् .. ७९.. मासात्पूर्वं मृतो मर्त्यो ह्यागतश्चेज्जगद्भवेत् . तक्रं क्षीरस्वरूपं चेत्क्वचिन्नित्यं जगद्भवेत् .. ८०.. गोस्तनादुद्भवं क्षीरं पुनरारोपणे जगत् . भूरजोऽब्धौ समुत्पन्ने जगद्भवतु सर्वदा .. ८१.. कूर्मरोम्णा गजे बद्धे जगदस्तु मदोत्कटे . नालस्थतन्तुना मेरुश्चालितश्चेज्जगद्भवेत् .. ८२.. तरङ्गमालया सिन्धुर्बद्धश्चेदस्त्विदं जगत् . अग्नेरधश्चेज्ज्वलनं जगद्भवतु सर्वदा .. ८३.. ज्वालावह्निः शीतलश्चेदस्तिरूपमिदं जगत् . ज्वालाग्निमण्डले पद्मवृद्धिश्चेज्जगदस्त्विदम् .. ८४.. महच्छैलेन्द्रनीलं वा सम्भवच्चेदिदं जगत् . मेरुरागत्य पद्माक्षे स्थितश्चेदस्त्विदं जगत् .. ८५.. निगिरेच्चेद्भृङ्गसूनुर्मेरुं चलवदस्त्विदम् . मशकेन हते सिंहे जगत्सत्यं तदास्तु ते .. ८६.. अणुकोटरविस्तीर्णे त्रैलोक्यं चेज्जगद्भवेत् . तृणानलश्च नित्यश्चेत्क्षणिकं तज्जगद्भवेत् .. ८७.. स्वप्नदृष्टं च यद्वस्तु जागरे चेज्जगद्भवः . नदीवेगो निश्चलश्चेत्केनापीदं भवेज्जगत् .. ८८.. क्षुधितस्याग्निर्भोज्यश्चेन्निमिषं कल्पितं भवेत् . जात्यन्धै रत्नविषयः सुज्ञातश्चेज्जगत्सदा .. ८९.. नपुंसककुमारस्य स्त्रीसुखं चेद्भवज्जगत् . निर्मितः शशशृङ्गेण रथश्चेज्जगदस्ति तत् .. ९०.. सद्योजाता तु या कन्या भोगयोग्या भवेज्जगत् . वन्ध्या गर्भाप्ततत्सौख्यं ज्ञाता चेदस्त्विदं जगत् .. ९१.. काको वा हंसवद्गच्छेज्जगद्भवतु निश्चलम् . महाखरो वा सिंहेन युध्यते चेज्जगत्स्थितिः .. ९२.. महाखरो गजगतिं गतश्चेज्जगदस्तु तत् . सम्पूर्णचन्द्रसूर्यश्चेज्जगद्भातु स्वयं जडम् .. ९३.. चन्द्रसूर्यादिकौ त्यक्त्वा राहुश्चेद्दृश्यते जगत् . भृष्टबीजसमुत्पन्नवृद्धिश्चेज्जगदस्तु सत् .. ९४.. दरिद्रो धनिकानां च सुखं भुङ्क्ते तदा जगत् . शुना वीर्येण सिंहस्तु जितो यदि जगत्तदा .. ९५.. ज्ञानिनो हृदयं मूढैर्ज्ञातं चेत्कल्पनं तदा . श्वानेन सागरे पीते निःशेषेण मनो भवेत् .. ९६.. शुद्धाकाशो मनुष्येषु पतितश्चेत्तदा जगत् . भूमौ वा पतितं व्योम व्योमपुष्पं सुगन्धकम् .. ९७.. शुद्धाकाशे वने जाते चलिते तु तदा जगत् . केवले दर्पणे नास्ति प्रतिबिम्बं तदा जगत् .. ९८.. अजकुक्षौ जगन्नास्ति ह्यात्मकुक्षौ जगन्नहि . सर्वथा भेदकलनं द्वैताद्वैतं न विद्यते .. ९९.. मायाकार्यमिदं भेदमस्ति चेद्ब्रह्मभावनम् . देहोऽहमिति दुःखं चेद्ब्रह्माहमिति निश्चयः .. १००.. हृदयग्रन्थिरस्तित्वे छिद्यते ब्रह्मचक्रकम् . संशये समनुप्राप्ते ब्रह्मनिश्चयमाश्रयेत् .. १०१.. अनात्मरूपचोरश्चेदात्मरत्नस्य रक्षणम् . नित्यानन्दमयं ब्रह्म केवलं सर्वदा स्वयम् .. १०२.. एवमादिसुदृष्टान्तैः साधितं ब्रह्ममात्रकम् . ब्रह्मैव सर्वभवनं भुवनं नाम सन्त्यज .. १०३.. अहं ब्रह्मेति निश्चित्य अहंभावं परित्यज . सर्वमेव लयं याति सुप्तहस्तस्थपुष्पवत् .. १०४.. न देहो न च कर्माणि सर्वं ब्रह्मैव केवलम् . न भूतं न च कार्यं च न चावस्थाचतुष्टयम् .. १०५.. लक्षणात्रयविज्ञानं सर्वं ब्रह्मैव केवलम् . सर्वव्यापारमुत्सृज्य ह्यहं ब्रह्मेति भावय .. १०६.. अहं ब्रह्म न सन्देहो ह्यहं ब्रह्म चिदात्मकम् . सच्चिदानन्दमात्रोऽहमिति निश्चित्य तत्त्यज .. १०७.. शाङ्करीयं महाशास्त्रं न देयं यस्य कस्यचित् . नास्तिकाय कृतघ्नाय दुर्वृत्ताय दुरात्मने .. १०८.. गुरुभक्तिविशुद्धान्तःकरणाय महात्मने . सम्यक्परीक्ष्य दातव्यं मासं षाण्मासवत्सरम् .. १०९.. सर्वोपनिषदभ्यासं दूरतस्त्यज्य सादरम् . तेजोबिन्दूपनिषदमभ्यसेत्सर्वदा मुदा .. ११०.. सकृदभ्यासमात्रेण ब्रह्मैव भवति स्वयम् . ब्रह्मैव भवति स्वयमित्युपनिषत् .. ॐ सह नाववतु .. सह नौ भुनक्तु .. सह वीर्यं करवावहै .. तेजस्विनावधीतमस्तु मा विद्विषावहै .. इति तेजोबिन्दूपनिषत्समाप्ता ..

Personal tools