तारसार उपनिषद्
From Wikisource
.. तारसारोपनिषत् .. यन्नारायणतारार्थसत्यज्ञानसुखाकृति . त्रिपान्नारायणाकरं तद्ब्रह्मैवास्मि केवलम् .. ॐ पूर्णमदः पूर्णमिदं पूर्णात्पूर्णमुदच्यते . पूर्णस्य पूर्णमादाय पूर्णमेवावशिष्यते .. ॐ शान्तिः शान्तिः शान्तिः .. हरिः ॐ .. बृहस्पतिरुवाच याज्ञवल्क्यं यदनु कुरुक्षेत्रं देवानां देवयजनं सर्वेषां भूतानां ब्रह्मसदनं तस्माद्यत्र क्वचन गच्घ्छेत्तदेव मन्येतेति . इदं वै कुरुक्षेत्रं देवानां देवयजनं सर्वेषां भूतानां ब्रह्मसदनम् . अत्र हि जन्तोः प्राणेषूत्क्रममाणेषु रुद्रस्तारकं ब्रह्म व्याचष्टे येनासावमृतीभूत्वा मोक्षी भवति . तस्मादविमुक्तमेव निषेवेत . अविमुक्तं न विमुञ्चेत् . एवमेवैष भगवन्निति वै याज्ञवल्क्यः .. १.. अथ हैनं भारद्वाजः पप्रच्छ याज्ञवल्क्यं किं तारकम् . किं तारयतीति . स होवाच याज्ञवल्क्यः . ॐ नमो नारायणायेति तारकं चिदात्मकमित्युपासितव्यम् . ओमित्येकाक्षरमात्मस्वरूपम् . नम इति द्व्यक्षरं प्रकृतिस्वरूपम् . नारायणायेति पञ्चाक्षरं परंब्रह्मस्वरूपम् . इति य एवं वेद . सोऽमृतो भवति . ओमिति ब्रह्मा भवति . नकारो विष्णुर्भवति . मकारो रुद्रो भवति . नकार ईश्वरो भवति . रकारोऽण्डं विराड् भवति . यकारः पुरुषो भवति . णकारो भगवान्भवति . यकारः परमात्मा भवति . एतद्वै नारायणस्याष्टाक्षरं वेद परमपुरुषो भवति . अयमृग्वेदः प्रथमः पादः .. १.. ॐइत्येतदक्षरं परं ब्रह्म . तदेवोपासितव्यम् . एतदेव सूक्ष्माष्टाक्षरं भवति . तदेतदष्टात्मकोऽष्टधा भवति . अकारः प्रथमाक्षरो भवति . उकारो द्वितीयाक्षरो भवति . मकारस्तृतीयाक्षरो भवति . बिन्दुस्तुरीयाक्षरो भवति . नादः पञ्चमाक्षरो भवति . कला षष्ठाक्षरो भवति . कलातीता सप्तमाक्षरो भवति . तत्परश्चाष्टमाक्षरो भवति . तारकत्त्वात्तारको भवति . तदेव तारकं ब्रह्म त्वं विद्धि . तदेवोपासितव्यम् .. अत्रैते श्लोका भवन्ति .. अकारादभवद्ब्रह्मा जाम्बवानितिसंज्ञकः . उकाराक्षरसंभूत उपेन्द्रो हरिनायकः .. १.. मकाराक्षरसंभूतः शिवस्तु हनुमान्स्मृतः . बिन्दुरीश्वरसंज्ञस्तु शत्रुघ्नश्चक्रराट् स्वयम् .. २.. नादो महाप्रभुर्ज्ञेयो भरतः शङ्खनामकः . कलायाः पुरुषः साक्षाल्लक्ष्मणो धरणीधरः .. ३.. कलातीता भगवती स्वयं सीतेति संज्ञिता . तत्परः परमात्मा च श्रीरामः पुरुषोत्तमः .. ४.. ओमित्येतदक्षरमिदं सर्वम् . तस्योपव्याख्यानं भूतं भव्यं भविष्यद्यच्चान्यत्तत्त्वमन्त्रवर्णदेवताछन्दो ऋक्कलाशक्तिसृष्ट्यात्मकमिति . य एवं वेद . यजुर्वेदो द्वितीयः पादः .. २.. अथ हैनं भारद्वाजो याज्ञवल्क्यमुवाचाथ कैर्मन्त्रैः परमात्मा प्रीतो भवति स्वात्मानं दर्शयति तन्नो ब्रूहि भगव इति . स होवाच याज्ञवल्क्यः . ॐ यो ह वै श्रीपरमात्मा नारायणः स भगवानकारवाच्यो जाम्बवान्भूर्भुवः सुवस्तस्मै वै नमोनमः .. १.. ॐ यो ह वै श्रीपरमात्मा नारायणः स भगवानुकारवाच्य उपेन्द्रस्वरूपो हरिनायको भूर्भुवः सुवस्तस्मै वै नमोनमः .. २.. ॐ यो ह वै श्रीपरमात्मा नारायणः स भगवान्मकारवाच्यः शिवस्वरूपो हनूमान्भूर्भुवः सुवस्तस्मै नमोनमः .. ३.. ॐ यो ह वै श्रीपरमात्मा नारायणः स भगवान्बिन्दुस्वरूपः शत्रुघ्नो भूर्भुवः सुवस्तस्मै वै नमोनमः .. ४.. ॐ यो ह वै श्रीपरमात्मा नारायणः स भगवान्नादस्वरूपो भरतो भूर्भुवः सुवस्तस्मै वै नमोनमः .. ५.. ॐ यो ह वै श्रीपरमात्मा नारायणः स भगवान्कलास्वरूपो लक्ष्मणो भूर्भुवः सुवस्तस्मै वै नमोनमः .. ६.. ॐ यो ह वै श्रीपरमात्मा नारायणः स भगवान्कलातीता भगवती सीता चित्स्वरूपा भूर्भुवः सुवस्तस्मै वै नमोनमः .. ७.. यथा प्रथममन्त्रोक्तावाद्यन्तौ तथा सर्वमन्त्रेषु द्रष्टव्यम् . उकारवाच्य उपेन्द्रस्वरूपो हरिनायकः २ मकारवाच्यः शिवस्वरूपो हनुमान् ३ बिन्दुस्वरूपः शत्रुघ्नः ४ नादस्वरूपो भरतः ५ कलास्वरूपो लक्ष्मणः ६ कलातीता भगवती सीता चित्स्वरूपा ७ ॐ यो ह वै श्रीपरमात्मा नारायणः स भगवांस्तत्परः परमपुरुषः पुराणपुरुषोत्तमो नित्यशुद्धबुद्धमुक्तसत्य- परमानन्ताद्वयपरिपूर्णः परमात्मा ब्रह्मैवाहं रामोऽस्मि भूर्भुवः सुवस्तस्मै नमोनमः .. ८.. एतदष्टविधमन्त्रं योऽधीते सोऽग्निपूतो भवति . स वायुपूतो भवति . स आदित्यपूतो भवति . स स्थाणुपूतो भवति . स सर्वैर्देवैर्ज्ञातो भवति . तेनेतिहासपुराणानं रुद्राणां शतसहस्राणि जप्तानि फलानि भवन्ति . श्रीमन्नारायणाष्टाक्षरानुस्मरणेन गायत्र्याः शतसहस्रं जप्तं भवति . प्रणवानामयुतं जप्तं भवति . दशपूर्वान्दशोत्तरान्पुनाति . नारायणपदमवाप्नोति य एवं वेद . तद्विष्णोः परमं पदं सदा पश्यन्ति सूरयः . दिवीव चक्षुराततम् . तद्विप्रासो विपन्यवो जागृवांसः समिन्धते . विष्णोर्यत्परमं पदम् .. इत्युपनिषत् .. सामवेदस्तृतीयः पादः .. ३.. ॐ पूर्णमदः पूर्णमिदं पूर्णात्पूर्णमुदच्यते . पूर्णस्य पूर्णमादाय पूर्णमेवावशिष्यते .. ॐ शान्तिः शान्तिः शान्तिः .. इति तारसारोपनिषत्समाप्ता ..

