छान्दोग्य उपनिषद्

From Wikisource

Jump to: navigation, search
उपनिषद्


॥ छान्दोग्योपनिषद् ॥

ॐ  आप्यायन्तु ममाङ्गानि वाक्प्राणश्च्क्षुः
श्रोत्रमथो बलमिन्द्रियाणि च सर्वाणि ।
सर्वं ब्रह्मौपनिषदं माहं ब्रह्म निराकुर्यां मा मा ब्रह्म
निराकरोदनिकारणमस्त्वनिकारणं मेऽस्तु ।
तदात्मनि निरते य उपनिषत्सु धर्मास्ते
मयि सन्तु ते मयि सन्तु ॥

॥ ॐ शान्तिः शान्तिः शान्तिः ॥

॥ प्रथमोऽध्यायः ॥

॥ प्रथमः खण्डः ॥


ओमित्येतदक्षरमुद्गीथमुपासीत ।
ओमिति ह्युद्गायति तस्योपव्याख्यानम्  ॥ १. १. १ ॥

एषां भूतानां पृथिवी रसः पृथिव्या अपो रसः ।
अपामोषधयो रस ओषधीनां पुरुषो रसः
पुरुषस्य वाग्रसो वाच ऋग्रस ऋचः साम रसः
साम्न उद्गीथो रसः  ॥ १. १. २ ॥

स एष रसानाँरसतमः परमः परार्ध्योऽष्टमो
यदुद्गीथः  ॥ १. १. ३ ॥

कतमा कतमर्क्कतमत्कतमत्साम कतमः कतम उद्गीथ
इति विमृष्टं भवति  ॥ १. १. ४ ॥

वागेवर्क्प्राणः सामोमित्येतदक्षरमुद्गीथः ।
तद्वा एतन्मिथुनं यद्वाक्च प्राणश्चर्क्च साम च  ॥ १. १. ५ ॥

तदेतन्मिथुनमोमित्येतस्मिन्नक्षरे सँसृज्यते
यदा वै मिथुनौ समागच्छत आपयतो वै
तावन्योन्यस्य कामम् ॥ १. १. ६ ॥

आपयिता ह वै कामानां भवति य एतदेवं
विद्वानक्षरमुद्गीथमुपास्ते  ॥ १. १. ७ ॥

तद्वा एतदनुज्ञाक्षरं यद्धि किंचानुजानात्योमित्येव
तदाहैषो एव समृद्धिर्यदनुज्ञा समर्धयिता ह वै
कामानां भवति य एतदेवं विद्वानक्षरमुद्गीथमुपास्ते  ॥ १. १. ८ ॥

तेनेयं त्रयीविद्या वर्तते ओमित्याश्रावयत्योमिति
शँसत्योमित्युद्गायत्येतस्यैवाक्षरस्यापचित्यै महिम्ना
रसेन ॥ १. १. ९ ॥

तेनोभौ कुरुतो यश्चैतदेवं वेद यश्च न वेद ।
नाना तु विद्या चाविद्या च यदेव विद्यया करोति
श्रद्धयोपनिषदा तदेव वीर्यवत्तरं भवतीति
खल्वेतस्यैवाक्षरस्योपव्याख्यानं भवति  ॥ १. १. १० ॥


॥ इति प्रथमः खण्डः ॥


॥ द्वितीयः खण्डः ॥


देवासुरा ह वै यत्र संयेतिरे  उभये प्राजापत्यास्तद्ध
देवा उद्गीथमाजह्रुरनेनैनानभिभविष्याम इति  ॥ १. २. १ ॥

ते ह नासिक्यं प्राणमुद्गीथमुपासांचक्रिरे
तँ हासुराः पाप्मना विविधुस्तस्मात्तेनोभयं जिघ्रति
सुरभि च दुर्गन्धि च पाप्मना ह्येष विद्धः  ॥ १. २. २ ॥

अथ ह वाचमुद्गीथमुपासांचक्रिरे ताँ हासुराः पाप्मना
विविधुस्तस्मात्तयोभयं वदति सत्यं चानृतं च
पाप्मना ह्येषा विद्धा  ॥ १. २. ३ ॥

अथ ह चक्षुरुद्गीथमुपासांचक्रिरे तद्धासुराः
पाप्मना विविधुस्तस्मात्तेनोभयं पश्यति दर्शनीयं
चादर्शनीयं च पाप्मना ह्येतद्विद्धम् ॥ १. २. ४ ॥

अथ ह श्रोत्रमुद्गीथमुपासांचक्रिरे तद्धासुराः
पाप्मना विविधुस्तस्मात्तेनोभयँ शृणोति श्रवणीयं
चाश्रवणीयं च पाप्मना ह्येतद्विद्धम्  ॥ १. २. ५ ॥

अथ ह मन उद्गीथमुपासांचक्रिरे तद्धासुराः
पाप्मना विविधुस्तस्मात्तेनोभयँसंकल्पते संकल्पनीयंच
चासंकल्पनीयं च पाप्मना ह्येतद्विद्धम्  ॥ १. २. ६ ॥

अथ ह य एवायं मुख्यः प्राणस्तमुद्गीथमुपासांचक्रिरे
तँहासुरा ऋत्वा विदध्वंसुर्यथाश्मानमाखणमृत्वा
विध्वँसेतैवम्  ॥ १. २. ७ ॥

यथाश्मानमाखणमृत्वा विध्वँसत एवँ हैव
स विध्वँसते य एवंविदि पापं कामयते
यश्चैनमभिदासति स एषोऽश्माखणः  ॥ १. २. ८ ॥

नैवैतेन सुरभि न दुर्गन्धि विजानात्यपहतपाप्मा ह्येष
तेन यदश्नाति यत्पिबति तेनेतरान्प्राणानवति एतमु
एवान्ततोऽवित्त्वोत्क्रमति व्याददात्येवान्तत इति ॥ १. २. ९ ॥

तँ हाङ्गिरा उद्गीथमुपासांचक्र एतमु एवाङ्गिरसं
मन्यन्तेऽङ्गानां यद्रसः ॥ १. २. १० ॥

तेन तँ ह बृहस्पतिरुद्गीथमुपासांचक्र एतमु एव बृहस्पतिं
मन्यन्ते वाग्घि बृहती तस्या एष पतिः  ॥ १. २. ११ ॥

तेन तँ हायास्य उद्गीथमुपासांचक्र एतमु एवायास्यं
मन्यन्त आस्याद्यदयते  ॥ १. २. १२ ॥

तेन तँह बको दाल्भ्यो विदांचकार ।
स ह नैमिशीयानामुद्गाता बभूव स ह स्मैभ्यः
कामानागायति  ॥ १. २. १३ ॥

आगाता ह वै कामानां भवति य एतदेवं
विद्वानक्षरमुद्गीथमुपास्त इत्यध्यात्मम्  ॥ १. २. १४ ॥


॥ इति द्वितीयः खण्डः ॥


॥ तृतीयः खण्डः ॥



अथाधिदैवतं य एवासौ तपति
तमुद्गीथमुपासीतोद्यन्वा एष प्रजाभ्य उद्गायति ।
उद्यँस्तमो भयमपहन्त्यपहन्ता ह वै भयस्य
तमसो भवति य एवं वेद  ॥ १. ३. १ ॥

समान उ एवायं चासौ चोष्णोऽयमुष्णोऽसौ
स्वर इतीममाचक्षते स्वर इति प्रत्यास्वर इत्यमुं
तस्माद्वा एतमिमममुं चोद्गीथमुपासीत  ॥ १. ३. २ ॥

अथ खलु व्यानमेवोद्गीथमुपासीत यद्वै प्राणिति
स प्राणो यदपानिति सोऽपानः  ।
अथ यः प्राणापानयोः संधिः स व्यानो यो व्यानः
सा वाक् ।
तस्मादप्राणन्ननपानन्वाचमभिव्याहरति  ॥ १. ३. ३ ॥

या वाक्सर्क्तस्मादप्राणन्ननपानन्नृचमभिव्याहरति
यर्क्तत्साम तस्मादप्राणन्ननपानन्साम गायति
यत्साम स उद्गीथस्तस्मादप्राणन्ननपानन्नुद्गायति  ॥ १. ३. ४ ॥

अतो यान्यन्यानि वीर्यवन्ति कर्माणि यथाग्नेर्मन्थनमाजेः
सरणं दृढस्य धनुष आयमनमप्राणन्ननपानँस्तानि
करोत्येतस्य हेतोर्व्यानमेवोद्गीथमुपासीत ॥ १. ३. ५ ॥

अथ खलूद्गीथाक्षराण्युपासीतोद्गीथ इति
प्राण एवोत्प्राणेन ह्युत्तिष्ठति वाग्गीर्वाचो ह
गिर इत्याचक्षतेऽन्नं थमन्ने हीदँसर्वँस्थितम् ॥ १. ३. ६ ॥

द्यौरेवोदन्तरिक्षं गीः पृथिवी थमादित्य
एवोद्वायुर्गीरग्निस्थँ सामवेद एवोद्यजुर्वेदो
गीरृग्वेदस्थं दुग्धेऽस्मै वाग्दोहं यो वाचो
दोहोऽन्नवानन्नादो भवति य एतान्येवं
विद्वानुद्गीथाक्षराण्युपास्त उद्गीथ इति  ॥ १. ३. ७ ॥

अथ खल्वाशीःसमृद्धिरुपसरणानीत्युपासीत
येन साम्ना स्तोष्यन्स्यात्तत्सामोपधावेत् ॥ १. ३. ८ ॥

यस्यामृचि तामृचं  यदार्षेयं तमृषिं  यां
देवतामभिष्टोष्यन्स्यात्तां देवतामुपधावेत्  ॥ १. ३. ९ ॥

येन च्छन्दसा स्तोष्यन्स्यात्तच्छन्द उपधावेद्येन
स्तोमेन स्तोष्यमाणः स्यात्तँस्तोममुपधावेत्  ॥ १. ३. १० ॥

यां दिशमभिष्टोष्यन्स्यात्तां दिशमुपधावेत्  ॥ १. ३. ११ ॥

आत्मानमन्तत उपसृत्य स्तुवीत कामं
ध्यायन्नप्रमत्तोऽभ्याशो ह यदस्मै स कामः समृध्येत
यत्कामः स्तुवीतेति यत्कामः स्तुवीतेति  ॥ १. ३. १२ ॥


॥ इति तृतीयः खण्डः ॥


॥ चतुर्थः खण्डः ॥


ओमित्येतदक्षरमुद्गीथमुपासीतोमिति ह्युद्गायति
तस्योपव्याख्यानम्  ॥ १. ४. १ ॥

देवा वै मृत्योर्बिभ्यतस्त्रयीं विद्यां प्राविशँस्ते
छन्दोभिरच्छादयन्यदेभिरच्छादयँस्तच्छन्दसां
छन्दस्त्वम्  ॥ १. ४. २ ॥

तानु तत्र मृत्युर्यथा मत्स्यमुदके परिपश्येदेवं
पर्यपश्यदृचि साम्नि यजुषि ।
ते नु विदित्वोर्ध्वा ऋचः साम्नो यजुषः स्वरमेव
प्राविशन् ॥ १. ४. ३ ॥

यदा वा ऋचमाप्नोत्योमित्येवातिस्वरत्येवँसामैवं
यजुरेष उ स्वरो यदेतदक्षरमेतदमृतमभयं तत्प्रविश्य
देवा अमृता अभया अभवन्  ॥ १. ४. ४ ॥

स य एतदेवं विद्वानक्षरं प्रणौत्येतदेवाक्षरँ
स्वरममृतमभयं प्रविशति तत्प्रविश्य यदमृता
देवास्तदमृतो भवति  ॥ १. ४. ५ ॥


॥ इति चतुर्थः खण्डः ॥


॥ पञ्चमः खण्डः ॥


अथ खलु य उद्गीथः स प्रणवो यः प्रणवः स उद्गीथ
इत्यसौ वा आदित्य उद्गीथ एष प्रणव ओमिति
ह्येष स्वरन्नेति  ॥ १. ५. १ ॥

एतमु एवाहमभ्यगासिषं तस्मान्मम त्वमेकोऽसीति
ह कौषीतकिः पुत्रमुवाच रश्मीँस्त्वं पर्यावर्तयाद्बहवो
वै ते भविष्यन्तीत्यधिदैवतम्  ॥ १. ५. २ ॥

अथाध्यात्मं य एवायं मुख्यः
प्राणस्तमुद्गीथमुपासीतोमिति ह्येष स्वरन्नेति  ॥ १. ५. ३ ॥

एतमु एवाहमभ्यगासिषं तस्मान्मम त्वमेकोऽसीति ह
कौषीतकिः पुत्रमुवाच प्राणाँस्त्वं
भूमानमभिगायताद्बहवो वै मे भविष्यन्तीति  ॥ १. ५. ४ ॥

अथ खलु य उद्गीथः स प्रणवो यः प्रणवः
स उद्गीथ इति होतृषदनाद्धैवापि
दुरुद्गीथमनुसमाहरतीत्यनुसमाहरतीति  ॥ । १. ५. ५ ॥


॥ इति पञ्चमः खण्डः ॥


॥ षष्ठः खण्डः ॥


इयमेवर्गग्निः साम तदेतदेतस्यामृच्यध्यूढ़ँ साम
तस्मादृच्यध्यूढँसाम गीयत इयमेव
साग्निरमस्तत्साम  ॥ १. ६. १ ॥

अन्तरिक्षमेवर्ग्वायुः साम तदेतदेतस्यामृच्यध्यूढँ साम
तस्मादृच्यध्यूढँ साम गीयतेऽन्तरिक्षमेव सा
वायुरमस्तत्साम  ॥ १. ६. २ ॥

द्यौरेवर्गादित्यः साम तदेतदेतस्यामृच्यध्यूढँ साम
तस्मादृच्यध्यूढँ साम गीयते द्यौरेव
सादित्योऽमस्तत्साम  ॥ १. ६. ३ ॥

नक्षत्रान्येवर्क्चन्द्रमाः साम तदेतदेतस्यामृच्यध्यूढँ साम
तस्मादृच्यध्यूढँ साम गीयते नक्षत्राण्येव सा चन्द्रमा
अमस्तत्साम  ॥ १. ६. ४ ॥

अथ यदेतदादित्यस्य शुक्लं भाः सैवर्गथ यन्नीलं परः
कृष्णं तत्साम तदेतदेतस्यामृच्यध्यूढँ साम
तस्मादृच्यध्यूढँ साम गीयते  ॥ १. ६. ५ ॥

अथ यदेवैतदादित्यस्य शुक्लं भाः सैव
साथ यन्नीलं परः कृष्णं तदमस्तत्सामाथ
य एषोऽन्तरादित्ये हिरण्मयः पुरुषो दृश्यते
हिरण्यश्मश्रुर्हिरण्यकेश आप्रणस्वात्सर्व एव
सुवर्णः  ॥ १. ६. ६ ॥

तस्य यथा कप्यासं पुण्डरीकमेवमक्षिणी
तस्योदिति नाम स एष सर्वेभ्यः पाप्मभ्य उदित
उदेति ह वै सर्वेभ्यः पाप्मभ्यो य एवं वेद  ॥ १. ६. ७ ॥

तस्यर्क्च साम च गेष्णौ
तस्मादुद्गीथस्तस्मात्त्वेवोद्गातैतस्य हि गाता
स एष ये चामुष्मात्पराञ्चो लोकास्तेषां चेष्टे
देवकामानां चेत्यधिदैवतम् ॥ १. ६. ८ ॥


॥ इति षष्ठः खण्डः ॥


॥ सप्तमः खण्डः ॥


अथाध्यात्मं वागेवर्क्प्राणः साम तदेतदेतस्यामृच्यध्यूढँ
साम तस्मादृच्यध्यूढँसाम गीयते ।
वागेव सा प्राणोऽमस्तत्साम ॥ १. ७. १ ॥

चक्षुरेवर्गात्मा साम तदेतदेतस्यामृच्यध्यूढँसाम
तस्मादृच्यध्यूढँसाम गीयते ।
चक्षुरेव सात्मामस्तत्साम  ॥ १. ७. २ ॥

श्रोत्रमेवर्ङ्मनः साम तदेतदेतस्यामृच्यध्यूढँसाम
तस्मादृच्यध्यूढँसाम गीयते  ।
श्रोत्रमेव सा मनोऽमस्तत्साम   ॥ १. ७. ३ ॥

अथ यदेतदक्ष्णः शुक्लं भाः सैवर्गथ यन्नीलं परः
कृष्णं तत्साम तदेतदेतस्यामृच्यध्यूढँसाम
तस्मादृच्यध्यूढँसाम गीयते ।
अथ यदेवैतदक्ष्णः शुक्लं भाः सैव साथ यन्नीलं परः
कृष्णं तदमस्तत्साम   ॥ १. ७. ४ ॥

अथ य एषोऽन्तरक्षिणि पुरुषो दृश्यते सैवर्क्तत्साम
तदुक्थं तद्यजुस्तद्ब्रह्म तस्यैतस्य तदेव रूपं यदमुष्य रूपं
यावमुष्य गेष्णौ तौ  गेष्णौ यन्नाम तन्नाम  ॥ १. ७. ५ ॥

स एष ये चैतस्मादर्वाञ्चो लोकास्तेषां चेष्टे मनुष्यकामानां
चेति तद्य इमे वीणायां गायन्त्येतं ते गायन्ति
तस्मात्ते धनसनयः ॥ १. ७. ६ ॥

अथ य एतदेवं विद्वान्साम गायत्युभौ स गायति
सोऽमुनैव स एष चामुष्मात्पराञ्चो
लोकास्ताँश्चाप्नोति देवकामाँश्च  ॥ १. ७. ७ ॥

अथानेनैव ये चैतस्मादर्वाञ्चो लोकास्ताँश्चाप्नोति
मनुष्यकामाँश्च तस्मादु हैवंविदुद्गाता ब्रूयात् ॥ १. ७. ८ ॥

कं ते काममागायानीत्येष ह्येव कामागानस्येष्टे य
एवं विद्वान्साम गायति साम गायति  ॥ १. ७. ९ ॥


॥ इति सप्तमः खण्डः ॥


॥ अष्टमः खण्डः ॥


त्रयो होद्गीथे कुशला बभूवुः शिलकः शालावत्यश्चैकितायनो
दाल्भ्यः प्रवाहणो जैवलिरिति ते होचुरुद्गीथे
वै कुशलाः स्मो हन्तोद्गीथे कथां वदाम इति ॥ १. ८. १ ॥

तथेति ह समुपविविशुः स ह प्रावहणो जैवलिरुवाच
भगवन्तावग्रे वदतां ब्राह्मणयोर्वदतोर्वाचँ श्रोष्यामीति
॥ १. ८. २ ॥

स ह शिलकः शालावत्यश्चैकितायनं दाल्भ्यमुवाच
हन्त त्वा पृच्छानीति  पृच्छेति होवाच  ॥ १. ८. ३ ॥

का साम्नो गतिरिति स्वर इति होवाच स्वरस्य का
गतिरिति   प्राण इति होवाच प्राणस्य का
गतिरित्यन्नमिति होवाचान्नस्य का गतिरित्याप
इति होवाच  ॥ १. ८. ४ ॥

अपां का गतिरित्यसौ लोक इति होवाचामुष्य लोकस्य
का गतिरिति न स्वर्गं लोकमिति नयेदिति होवाच स्वर्गं
वयं लोकँ सामाभिसंस्थापयामः स्वर्गसँस्तावँहि
सामेति  ॥ १. ८. ५ ॥

तँ ह शिलकः शालावत्यश्चैकितायनं
दाल्भ्यमुवाचाप्रतिष्ठितं वै किल ते दाल्भ्य साम
यस्त्वेतर्हि ब्रूयान्मूर्धा ते विपतिष्यतीति मूर्धा ते
विपतेदिति ॥ १. ८. ६ ॥

हन्ताहमेतद्भगवतो वेदानीति विद्धीति होवाचामुष्य
लोकस्य का गतिरित्ययं लोक इति होवाचास्य लोकस्य
का गतिरिति न प्रतिष्ठां लोकमिति नयेदिति होवाच
प्रतिष्ठां वयं लोकँ सामाभिसँस्थापयामः
प्रतिष्ठासँस्तावँ हि सामेति ॥ १. ८. ७ ॥

तँ ह प्रवाहणो जैवलिरुवाचान्तवद्वै किल ते
शालावत्य साम   यस्त्वेतर्हि ब्रूयान्मूर्धा ते विपतिष्यतीति
मूर्धा ते विपतेदिति  हन्ताहमेतद्भगवतो वेदानीति
विद्धीति होवाच  ॥ १. ८. ८ ॥


॥ इति अष्टमः खण्डः ॥


॥ नवमः खण्डः ॥


अस्य लोकस्य का गतिरित्याकाश इति होवाच
सर्वाणि ह वा इमानि भूतान्याकाशादेव समुत्पद्यन्त
आकाशं प्रत्यस्तं यन्त्याकाशो ह्येवैभ्यो ज्यायानकाशः
परायणम् ॥ १. ९. १ ॥

स एष परोवरीयानुद्गीथः स एषोऽनन्तः परोवरीयो
हास्य भवति परोवरीयसो ह लोकाञ्जयति
य एतदेवं विद्वान्परोवरीयाँसमुद्गीथमुपास्ते ॥ १. ९. २ ॥

तँ हैतमतिधन्वा शौनक उदरशाण्डिल्यायोक्त्वोवाच
यावत्त एनं प्रजायामुद्गीथं वेदिष्यन्ते परोवरीयो
हैभ्यस्तावदस्मिँल्लोके जीवनं भविष्यति ॥ १. ९. ३ ॥

तथामुष्मिँल्लोके लोक इति स य एतमेवं विद्वानुपास्ते
परोवरीय एव हास्यास्मिँल्लोके जीवनं भवति
तथामुष्मिँल्लोके लोक इति लोके लोक इति ॥ १. ९. ४ ॥


॥ इति नवमः खण्डः ॥


॥ दशमः खण्डः ॥


मटचीहतेषु कुरुष्वाटिक्या सह जाययोषस्तिर्ह
चाक्रायण इभ्यग्रामे प्रद्राणक उवास ॥ १. १०. १ ॥

स हेभ्यं कुल्माषान्खादन्तं बिभिक्षे तँ होवाच ।
नेतोऽन्ये विद्यन्ते यच्च ये म इम उपनिहिता इति
॥ १. १०. २ ॥

एतेषां मे देहीति होवाच तानस्मै प्रददौ
हन्तानुपानमित्युच्छिष्टं वै मे पीतँस्यादिति होवाच
॥ १. १०. ३ ॥

न स्विदेतेऽप्युच्छिष्टा इति न वा
अजीविष्यमिमानखादन्निति होवाच कामो म
उदपानमिति ॥ १. १०. ४ ॥

स ह खादित्वातिशेषाञ्जायाया आजहार साग्र एव
सुभिक्षा बभूव तान्प्रतिगृह्य निदधौ ॥ १. १०. ५ ॥

स ह प्रातः संजिहान उवाच यद्बतान्नस्य लभेमहि
लभेमहि धनमात्राँराजासौ यक्ष्यते स मा
सर्वैरार्त्विज्यैर्वृणीतेति ॥ १. १०. ६ ॥

तं जायोवाच हन्त पत इम एव कुल्माषा इति
तान्खादित्वामुं यज्ञं विततमेयाय ॥ १. १०. ७ ॥

तत्रोद्गातॄनास्तावे स्तोष्यमाणानुपोपविवेश
स ह प्रस्तोतारमुवाच ॥ १. १०. ८ ॥

प्रस्तोतर्या देवता प्रस्तावमन्वायत्ता तां चेदविद्वान्प्रस्तोष्यसि
मूर्धा ते विपतिष्यतीति  ॥ १. १०. ९ ॥

एवमेवोद्गातारमुवाचोद्गातर्या देवतोद्गीथमन्वायत्ता
तां चेदविद्वानुद्गास्यसि मूर्धा ते विपतिष्यतीति ॥ १. १०. १० ॥

एवमेव प्रतिहर्तारमुवाच प्रतिहर्तर्या देवता
प्रतिहारमन्वायत्ता तां चेदविद्वान्प्रतिहरिष्यसि मूर्धा ते
विपतिष्यतीति ते ह समारतास्तूष्णीमासांचक्रिरे
॥ १. १०. ११ ॥


॥ इति दशमः खण्डः ॥


॥ एकादशः खण्डः ॥


अथ हैनं यजमान उवाच  भगवन्तं वा अहं
विविदिषाणीत्युषस्तिरस्मि चाक्रायण इति होवाच  ॥ १. ११. १ ॥

स होवाच भगवन्तं वा अहमेभिः सर्वैरार्त्विज्यैः
पर्यैषिषं भगवतो वा अहमवित्त्यान्यानवृषि ॥ १. ११. २ ॥

भगवाँस्त्वेव मे सर्वैरार्त्विज्यैरिति तथेत्यथ
तर्ह्येत एव समतिसृष्टाः  स्तुवतां यावत्त्वेभ्यो धनं
दद्यास्तावन्मम दद्या इति तथेति ह यजमान उवाच
॥ १. ११. ३ ॥

अथ हैनं प्रस्तोतोपससाद प्रस्तोतर्या देवता
प्रस्तावमन्वायत्ता तां चेदविद्वान्प्रस्तोष्यसि मूर्धा ते
विपतिष्यतीति मा भगवानवोचत्कतमा सा देवतेति
॥ १. ११. ४ ॥

प्राण इति होवाच सर्वाणि ह वा इमानि भूतानि
प्राणमेवाभिसंविशन्ति प्राणमभ्युज्जिहते सैषा देवता
प्रस्तावमन्वायत्ता तां चेदविद्वान्प्रास्तोष्यो
मूर्धा ते व्यपतिष्यत्तथोक्तस्य मयेति ॥ १. ११. ५ ॥

अथ हैनमुद्गातोपससादोद्गातर्या देवतोद्गीथमन्वायत्ता
तां चेदविद्वानुद्गास्यसि मूर्धा ते विपतिष्यतीति
मा भगवानवोचत्कतमा सा देवतेति ॥ १. ११. ६ ॥

आदित्य इति होवाच सर्वाणि ह वा इमानि
भूतान्यादित्यमुच्चैः सन्तं गायन्ति सैषा
देवतोद्गीथमन्वायत्ता तां चेदविद्वानुदगास्यो
मूर्धा ते व्यपतिष्यत्तथोक्तस्य मयेति ॥ १. ११. ७ ॥

अथ हैनं प्रतिहर्तोपससाद प्रतिहर्तर्या देवता
प्रतिहारमन्वायत्ता तां चेदविद्वान्प्रतिहरिष्यसि
मूर्धा ते विपतिष्यतीति मा भगवानवोचत्कतमा
सा देवतेति ॥ १. ११. ८ ॥

अन्नमिति होवाच सर्वाणि ह वा इमानि भूतन्यन्नमेव
प्रतिहरमाणानि जीवन्ति सैषा देवता प्रतिहारमन्वायत्ता
तां चेदविद्वान्प्रत्यहरिष्यो मूर्धा ते व्यपतिष्यत्तथोक्तस्य
मयेति तथोक्तस्य मयेति ॥ १. ११. ९ ॥


॥ इति एकादशः खण्डः ॥


॥ द्वादशः खण्डः ॥


अथातः शौव उद्गीथस्तद्ध बको दाल्भ्यो ग्लावो वा
मैत्रेयः स्वाध्यायमुद्वव्राज ॥ १. १२. १ ॥

तस्मै श्वा श्वेतः प्रादुर्बभूव तमन्ये श्वान
उपसमेत्योचुरन्नं नो भगवानागायत्वशनायामवा
इति  ॥ १. १२. २ ॥

तान्होवाचेहैव मा प्रातरुपसमीयातेति तद्ध बको दाल्भ्यो
ग्लावो वा मैत्रेयः प्रतिपालयांचकार  ॥ १. १२. ३ ॥

ते ह यथैवेदं बहिष्पवमानेन स्तोष्यमाणाः सँरब्धाः
सर्पन्तीत्येवमाससृपुस्ते ह समुपविश्य
हिं चक्रुः  ॥ १. १२. ४ ॥

ओ३मदा३मों३पिबा३मों३ देवो वरुणः
प्रजपतिः सविता२न्नमिहा२हरदन्नपते३ऽन्नमिहा
२हरा२हरो३मिति ॥ १. १२. ५ ॥


॥ इति द्वादशः खण्डः ॥


॥ त्रयोदशः खण्डः ॥


अयं वाव लोको हाउकारः वायुर्हाइकारश्चन्द्रमा
अथकारः । आत्मेहकारोऽग्निरीकारः ॥ १. १३. १ ॥

आदित्य ऊकारो निहव एकारो विश्वे देवा
औहोयिकारः  प्रजपतिर्हिंकारः प्राणः स्वरोऽन्नं या
वाग्विराट् ॥ १. १३. २ ॥

अनिरुक्तस्त्रयोदशः स्तोभः संचरो हुंकारः  ॥ १. १३. ३ ॥

दुग्धेऽस्मै वाग्दोहं यो वाचो दोहोऽन्नवानन्नादो भवति
य एतामेवँसाम्नामुपनिषदं वेदोपनिषदं वेदेति ॥ १. १३. ४ ॥


॥ इति त्रयोदशः खण्डः ॥


॥ इति प्रथमोऽध्यायः ॥

<HR>

॥ द्वितीयोऽध्यायः ॥


॥ प्रथमः खण्डः ॥


समस्तस्य खलु साम्न उपासनँ साधु यत्खलु साधु
तत्सामेत्याचक्षते   यदसाधु तदसामेति ॥ २. १. १ ॥

तदुताप्याहुः साम्नैनमुपागादिति साधुनैनमुपागादित्येव
तदाहुरसाम्नैनमुपागादित्यसाधुनैनमुपगादित्येव
तदाहुः ॥ २. १. २ ॥

अथोताप्याहुः साम नो बतेति यत्साधु भवति साधु बतेत्येव
तदाहुरसाम नो बतेति यदसाधु भवत्यसाधु बतेत्येव
तदाहुः ॥ २. १. ३ ॥

स य एतदेवं विद्वानसाधु सामेत्युपास्तेऽभ्याशो ह यदेनँ
साधवो धर्मा आ च गच्छेयुरुप च नमेयुः ॥ २. १. ४ ॥


॥ इति प्रथमः खण्डः ॥


॥ द्वितीयः खण्डः ॥


लोकेषु पञ्चविधँ सामोपासीत पृथिवी हिंकारः  ।
अग्निः प्रस्तावोऽन्तरिक्षमुद्गीथ आदित्यः प्रतिहारो
द्यौर्निधनमित्यूर्ध्वेषु  ॥ २. २. १ ॥

अथावृत्तेषु द्यौर्हिंकार आदित्यः
प्रस्तावोऽन्तरिक्षमुद्गीथोऽग्निः प्रतिहारः पृथिवी
निधनम्  ॥ २. २. २ ॥

कल्पन्ते हास्मै लोका ऊर्ध्वाश्चावृत्ताश्च य एतदेवं
विद्वाँल्लोकेषु पञ्चविधं सामोपास्ते ॥ २. २. ३ ॥


॥ इति द्वितीयः खण्डः ॥


॥ तृतीयः खण्डः ॥


वृष्टौ पञ्चविधँ सामोपासीत पुरोवातो हिंकारो
मेघो जायते स प्रस्तावो वर्षति स उद्गीथो विद्योतते
स्तनयति स प्रतिहार उद्गृह्णाति तन्निधनम् ॥ २. ३. १ ॥

वर्षति हास्मै वर्षयति ह य एतदेवं विद्वान्वृष्टौ
पञ्चविधँसामोपास्ते ॥ २. ३. २ ॥


॥ इति तृतीयः खण्डः ॥


॥ चतुर्थः खण्डः ॥


सर्वास्वप्सु पञ्चविधँसामोपासीत मेघो यत्संप्लवते
स हिंकारो यद्वर्षति स प्रस्तावो याः प्राच्यः स्यन्दन्ते
स उद्गीथो याः  प्रतीच्यः स प्रतिहारः
समुद्रो निधनम् ॥ २. ४. १ ॥

न हाप्सु प्रैत्यप्सुमान्भवति य एतदेवं विद्वान्सर्वास्वप्सु
पञ्चविधँसामोपास्ते  ॥ २. ४. २ ॥


॥ इति चतुर्थः खण्डः ॥


॥ पञ्चमः खण्डः ॥


ऋतुषु पञ्चविधँ सामोपासीत वसन्तो हिंकारः
ग्रीष्मः  प्रस्तावो वर्षा उद्गीथः शरत्प्रतिहारो
हेमन्तो निधनम् ॥ २. ५. १ ॥

कल्पन्ते हास्मा ऋतव ऋतुमान्भवति य एतदेवं
विद्वानृतुषु पञ्चविधँ सामोपास्ते ॥ २. ५. २ ॥


॥ इति पञ्चमः खण्डः ॥


॥ षष्ठः खण्डः ॥


पशुषु पञ्चविधँ सामोपासीताजा हिंकारोऽवयः
प्रस्तावो गाव उद्गीथोऽश्वाः प्रतिहारः
पुरुषो निधनम्  ॥ २. ६. १ ॥

भवन्ति हास्य पशवः पशुमान्भवति य एतदेवं
विद्वान्पशुषु पञ्चविधँ सामोपास्ते  ॥ २. ६. २ ॥


॥ इति षष्ठः खण्डः ॥


॥ सप्तमः खण्डः ॥


प्राणेषु पञ्चविधं परोवरीयः सामोपासीत प्राणो
हिंकारो वाक्प्रस्तावश्चक्षुरुद्गीथः श्रोत्रं प्रतिहारो
मनो निधनं परोवरीयाँसि वा एतानि ॥ २. ७. १ ॥

परोवरीयो हास्य भवति परोवरीयसो ह लोकाञ्जयति
य एतदेवं विद्वान्प्राणेषु पञ्चविधं परोवरीयः
सामोपास्त इति तु पञ्चविधस्य ॥ २. ७. २ ॥


॥ इति सप्तमः खण्डः ॥


॥ अष्टमः खण्डः ॥


अथ सप्तविधस्य वाचि सप्तविध्ँ सामोपासीत
यत्किंच वाचो हुमिति स हिंकारो यत्प्रेति स प्रस्तावो
यदेति स आदिः   ॥ २. ८. १ ॥

यदुदिति स उद्गीथो यत्प्रतीति स प्रतिहारो
यदुपेति स उपद्रवो यन्नीति तन्निधनम् ॥ २. ८. २ ॥

दुग्धेऽस्मै वाग्दोहं यो वाचो दोहोऽन्नवानन्नादो भवति
य एतदेवं विद्वान्वाचि सप्तविधँ सामोपास्ते  ॥ २. ८. ३ ॥


॥ इति अष्टमः खण्डः ॥


॥ नवमः खण्डः ॥


अथ खल्वमुमादित्यँसप्तविधँ सामोपासीत सर्वदा
समस्तेन साम मां प्रति मां प्रतीति सर्वेण
समस्तेन साम  ॥ २. ९. १ ॥

तस्मिन्निमानि सर्वाणि भूतान्यन्वायत्तानीति
विद्यात्तस्य यत्पुरोदयात्स हिंकारस्तदस्य
पशवोऽन्वायत्तास्तस्मात्ते हिं कुर्वन्ति
हिंकारभाजिनो ह्येतस्य साम्नः  ॥ २. ९. २ ॥

अथ यत्प्रथमोदिते स प्रस्तावस्तदस्य मनुष्या
अन्वायत्तास्तस्मात्ते प्रस्तुतिकामाः प्रशँसाकामाः
प्रस्तावभाजिनो  ह्येतस्य साम्नः  ॥ २. ९. ३ ॥

अथ यत्संगववेलायाँ स आदिस्तदस्य वयाँस्यन्वायत्तानि
तस्मात्तान्यन्तरिक्षेऽनारम्बणान्यादायात्मानं
परिपतन्त्यादिभाजीनि ह्येतस्य साम्नः  ॥ २. ९. ४ ॥

अथ यत्संप्रतिमध्यंदिने  स उद्गीथस्तदस्य
देवा अन्वायत्तास्तस्मात्ते सत्तमाः
प्राजापत्यानामुद्गीथभाजिनो ह्येतस्य साम्नः  ॥ २. ९. ५ ॥

अथ यदूर्ध्वं मध्यंदिनात्प्रागपराह्णात्स
प्रतिहारस्तदस्य गर्भा अन्वायत्तास्तस्मात्ते
प्रतिहृतानावपद्यन्ते प्रतिहारभाजिनो
ह्येतस्य साम्नः   ॥ २. ९. ६ ॥

अथ यदूर्ध्वमपराह्णात्प्रागस्तमयात्स
उपद्रवस्तदस्यारण्या अन्वायत्तास्तस्मात्ते पुरुषं
दृष्ट्वा कक्षँश्वभ्रमित्युपद्रवन्त्युपद्रवभाजिनो
ह्येतस्य साम्नः  ॥ २. ९. ७ ॥

अथ यत्प्रथमास्तमिते तन्निधनं तदस्य
पितरोऽन्वायत्तास्तस्मात्तान्निदधति निधनभाजिनो
ह्येतस्य साम्न एवं खल्वमुमादित्यँ सप्तविधँ
सामोपास्ते  ॥ २. ९. ८ ॥


॥ इति नवमः खण्डः ॥


॥ दशमः खण्डः ॥


अथ खल्वात्मसंमितमतिमृत्यु सप्तविधँ
सामोपासीत हिंकार इति त्र्यक्षरं प्रस्ताव
इति त्र्यक्षरं तत्समम्   ॥ २. १०. १ ॥

आदिरिति द्व्यक्षरं प्रतिहार इति चतुरक्षरं
तत इहैकं तत्समम्  ॥ २. १०. २ ॥

उद्गीथ इति त्र्यक्षरमुपद्रव इति चतुरक्षरं
त्रिभिस्त्रिभिः समं भवत्यक्षरमतिशिष्यते
त्र्यक्षरं तत्समम् ॥ २. १०. ३ ॥

निधनमिति त्र्यक्षरं तत्सममेव भवति
तानि ह वा एतानि द्वाविँशतिरक्षराणि  ॥ २. १०. ४ ॥

एकविँशत्यादित्यमाप्नोत्येकविँशो वा
इतोऽसावादित्यो द्वाविँशेन परमादित्याज्जयति
तन्नाकं तद्विशोकम्  ॥ २. १०. ५ ॥

आप्नोती हादित्यस्य जयं परो हास्यादित्यजयाज्जयो
भवति य एतदेवं विद्वानात्मसंमितमतिमृत्यु
सप्तविधँ सामोपास्ते सामोपास्ते ॥ २. १०. ६ ॥


॥ इति दशमः खण्डः ॥


॥ एकादशः खण्डः ॥


मनो हिंकारो वाक्प्रस्तावश्चक्षुरुद्गीथः श्रोत्रं प्रतिहारः
प्राणो निधनमेतद्गायत्रं प्राणेषु प्रोतम् ॥ २. ११. १ ॥

स एवमेतद्गायत्रं प्राणेषु प्रोतं वेद प्राणी भवति
सर्वमायुरेति ज्योग्जीवति महान्प्रजया पशुभिर्भवति
महान्कीर्त्या महामनाः स्यात्तद्व्रतम् ॥ २. ११. २ ॥


॥ इति एकदशः खण्डः ॥


॥ द्वादशः खण्डः ॥


अभिमन्थति स हिंकारो धूमो जायते स प्रस्तावो
ज्वलति स उद्गीथोऽङ्गारा भवन्ति स प्रतिहार
उपशाम्यति तन्निधनँ सँशाम्यति
तन्निधनमेतद्रथंतरमग्नौ प्रोतम् ॥ २. १२. १ ॥

स य एवमेतद्रथंतरमग्नौ प्रोतं वेद ब्रह्मवर्चस्यन्नादो
भवति सर्वमायुरेति ज्योग्जीवति महान्प्रजया
पशुभिर्भवति महान्कीर्त्या   न प्रत्यङ्ङग्निमाचामेन्न
निष्ठीवेत्तद्व्रतम् ॥ २. १२. २ ॥


॥ इति द्वादशः खण्डः ॥


॥ त्रयोदशः खण्डः ॥


उपमन्त्रयते स हिंकारो ज्ञपयते स प्रस्तावः
स्त्रिया सह शेते स उद्गीथः प्रति स्त्रीं सह शेते
स प्रतिहारः कालं गच्छति तन्निधनं पारं गच्छति
तन्निधनमेतद्वामदेव्यं मिथुने प्रोतम्   ॥ २. १३. १ ॥

स य एवमेतद्वामदेव्यं मिथुने प्रोतं वेद
मिथुनी भवति मिथुनान्मिथुनात्प्रजायते
सर्वमायुरेति ज्योग्जीवति महान्प्रजया पशुभिर्भवति
महान्कीर्त्या न कांचन परिहरेत्तद्व्रतम् ॥ २. १३. २ ॥


॥ इति त्रयोदशः खण्डः ॥


॥ चतुर्दशः खण्डः ॥


उद्यन्हिंकार उदितः  प्रस्तावो मध्यंदिन उद्गीथोऽपराह्णः
प्रतिहारोऽस्तं यन्निधनमेतद्बृहदादित्ये प्रोतम् ॥ २. १४. १ ॥

स य एवमेतद्बृहदादित्ये प्रोतं वेद तेजस्व्यन्नादो
भवति सर्वमायुरेति ज्योग्जीवति महान्प्रजया
पशुभिर्भवति महान्कीर्त्या तपन्तं न निन्देत्तद्व्रतम्
॥ २. १४. २ ॥


॥ इति चतुर्दशः खण्डः ॥


॥ पञ्चदशः खण्डः ॥


अभ्राणि संप्लवन्ते स हिंकारो मेघो जायते
स प्रस्तावो वर्षति स उद्गीथो विद्योतते स्तनयति
स प्रतिहार उद्गृह्णाति तन्निधनमेतद्वैरूपं पर्जन्ये प्रोतम्
॥ २. १५. १ ॥

स य एवमेतद्वैरूपं पर्जन्ये प्रोतं वेद
विरूपाँश्च सुरूपँश्च पशूनवरुन्धे
सर्वमायुरेति ज्योग्जीवति महान्प्रजया पशुभिर्भवति
महान्कीर्त्या वर्षन्तं न निन्देत्तद्व्रतम् ॥ २. १५. २ ॥


॥ इति पञ्चदशः खण्डः ॥


॥ षोडशः खण्डः ॥


वसन्तो हिंकारो ग्रीष्मः  प्रस्तावो वर्षा उद्गीथः
शरत्प्रतिहारो हेमन्तो निधनमेतद्वैराजमृतुषु प्रोतम्
॥ २. १६. १ ॥

स य एवमेतद्वैराजमृतुषु प्रोतं वेद विराजति
प्रजया पशुभिर्ब्रह्मवर्चसेन सर्वमायुरेति
ज्योग्जीवति महान्प्रजया पशुभिर्भवति
महान्कीर्त्यर्तून्न निन्देत्तद्व्रतम् ॥ २. १६. २ ॥


॥ इति षोडशः खण्डः ॥


॥ सप्तदशः खण्डः ॥


पृथिवी हिंकारोऽन्तरिक्षं प्रस्तावो द्यौरुद्गीथो
दिशः  प्रतिहारः  समुद्रो निधनमेताः  शक्वर्यो
लोकेषु प्रोताः  ॥ २. १७. १ ॥

स य एवमेताः शक्वर्यो लोकेषु प्रोता वेद लोकी भवति
सर्वमायुरेति ज्योग्जीवति महान्प्रजया पशुभिर्भवति
महान्कीर्त्या लोकान्न निन्देत्तद्व्रतम् ॥ २. १७. २ ॥


॥ इति सप्तदशः खण्डः ॥


॥ अष्टादशः खण्डः ॥


अजा हिंकारोऽवयः प्रस्तावो गाव उद्गीथोऽश्वाः प्रतिहारः
पुरुषो निधनमेता रेवत्यः पशुषु प्रोताः ॥ २. १८. १ ॥

स य एवमेता रेवत्यः पशुषु प्रोता वेद
पशुमान्भवति सर्वमायुरेति ज्योग्जीवति
महान्प्रजया पशुभिर्भवति महान्कीर्त्या
पशून्न निन्देत्तद्व्रतम्  ॥ २. १८. २ ॥


॥ इति अष्टादशः खण्डः ॥


॥ एकोनविंशः खण्डः ॥


लोम हिंकारस्त्वक्प्रस्तावो माँसमुद्गीथोस्थि
प्रतिहारो मज्जा निधनमेतद्यज्ञायज्ञीयमङ्गेषु
प्रोतम् ॥ २. १९. १ ॥

स य एवमेतद्यज्ञायज्ञीयमङ्गेषु प्रोतं वेदाङ्गी भवति
नाङ्गेन विहूर्छति सर्वमायुरेति ज्योग्जीवति
महान्प्रजया पशुभिर्भवति महान्कीर्त्या संवत्सरं
मज्ज्ञो नाश्नीयात्तद्व्रतं मज्ज्ञो
नाश्नीयादिति वा  ॥ २. १९. २ ॥


॥ इति एकोनविंशः खण्डः ॥


॥ विंशः खण्डः ॥


अग्निर्हिंकारो वायुः प्रस्ताव आदित्य उद्गीथो
नक्षत्राणि प्रतिहारश्चन्द्रमा निधनमेतद्राजनं
देवतासु प्रोतम् ॥ २. २०. १ ॥

स य एवमेतद्राजनं देवतासु प्रोतं वेदैतासामेव
देवतानाँसलोकताँसर्ष्टिताँसायुज्यं गच्छति
सर्वमायुरेति ज्योग्जीवति महान्प्रजया पशुभिर्भवति
महान्कीर्त्या ब्राह्मणान्न निन्देत्तद्व्रतम् ॥ २. २०. २ ॥


॥ इति विंशः खण्डः ॥


॥ एकविंशः खण्डः ॥


त्रयी विद्या हिंकारस्त्रय इमे लोकाः स
प्रस्तावोऽग्निर्वायुरादित्यः स उद्गीथो नक्षत्राणि
वयाँसि मरीचयः स प्रतिहारः सर्पा गन्धर्वाः
पितरस्तन्निधनमेतत्साम सर्वस्मिन्प्रोतम् ॥ २. २१. १ ॥

स य एवमेतत्साम सर्वस्मिन्प्रोतं वेद सर्वँ ह
भवति ॥ २. २१. २ ॥

तदेष श्लोको यानि पञ्चधा त्रीणी त्रीणि
तेभ्यो न ज्यायः परमन्यदस्ति ॥ २. २१. ३ ॥

यस्तद्वेद स वेद सर्वँ सर्वा दिशो बलिमस्मै हरन्ति
सर्वमस्मीत्युपासित तद्व्रतं तद्व्रतम् ॥ २. २१. ४ ॥


॥ इति एकविंशः खण्डः ॥


॥ द्वाविंशः खण्डः ॥


विनर्दि साम्नो वृणे पशव्यमित्यग्नेरुद्गीथोऽनिरुक्तः
प्रजापतेर्निरुक्तः सोमस्य मृदु श्लक्ष्णं वायोः
श्लक्ष्णं बलवदिन्द्रस्य क्रौञ्चं बृहस्पतेरपध्वान्तं
वरुणस्य तान्सर्वानेवोपसेवेत वारुणं त्वेव वर्जयेत् ॥ २. २२. १ ॥

अमृतत्वं देवेभ्य आगायानीत्यागायेत्स्वधां
पितृभ्य आशां मनुष्येभ्यस्तृणोदकं पशुभ्यः
स्वर्गं लोकं यजमानायान्नमात्मन आगायानीत्येतानि
मनसा ध्यायन्नप्रमत्तः स्तुवीत  ॥ २. २२. २ ॥

सर्वे स्वरा इन्द्रस्यात्मानः सर्व ऊष्माणः
प्रजापतेरात्मानः सर्वे स्पर्शा मृत्योरात्मानस्तं
यदि स्वरेषूपालभेतेन्द्रँशरणं प्रपन्नोऽभूवं
स त्वा प्रति वक्ष्यतीत्येनं ब्रूयात् ॥ २. २२. ३ ॥

अथ यद्येनमूष्मसूपालभेत प्रजापतिँशरणं
प्रपन्नोऽभूवं स त्वा प्रति पेक्ष्यतीत्येनं
ब्रूयादथ यद्येनँ स्पर्शेषूपालभेत मृत्युँ शरणं
प्रपन्नोऽभूवं स त्वा प्रति धक्ष्यतीत्येनं ब्रूयात्
॥ २. २२. ४ ॥

सर्वे स्वरा घोषवन्तो बलवन्तो वक्तव्या इन्द्रे बलं
ददानीति सर्व ऊष्माणोऽग्रस्ता अनिरस्ता विवृता
वक्तव्याः  प्रजापतेरात्मानं परिददानीति सर्वे स्पर्शा
लेशेनानभिनिहिता वक्तव्या मृत्योरात्मानं
परिहराणीति  ॥ २. २२. ५ ॥


॥ इति द्वाविंशः खण्डः ॥


॥ त्रयोविंशः खण्डः ॥


त्रयो धर्मस्कन्धा यज्ञोऽध्ययनं दानमिति प्रथमस्तप
एव द्वितीयो ब्रह्मचार्याचार्यकुलवासी
तृतीयोऽत्यन्तमात्मानमाचार्यकुलेऽवसादयन्सर्व
एते पुण्यलोका भवन्ति ब्रह्मसँस्थोऽमृतत्वमेति  ॥ २. २३. १ ॥

प्रजापतिर्लोकानभ्यतपत्तेभ्योऽभितप्तेभ्यस्त्रयी विद्या
संप्रास्रवत्तामभ्यतपत्तस्या अभितप्ताया एतान्यक्षराणि
संप्रास्र्वन्त भूर्भुवः स्वरिति  ॥ २. २३. २ ॥

तान्यभ्यतपत्तेभ्योऽभितप्तेभ्य ॐकारः
संप्रास्रवत्तद्यथा शङ्कुना सर्वाणि पर्णानि
संतृण्णान्येवमोंकारेण सर्वा वाक्संतृण्णोंकार एवेदँ
सर्वमोंकार एवेदँ सर्वम् ॥ २. २३. ३ ॥


॥ इति त्रयोविंशः खण्डः ॥


॥ चतुर्विंशः खण्डः ॥


ब्रह्मवादिनो वदन्ति यद्वसूनां प्रातः सवनँ रुद्राणां
माध्यंदिनँ सवनमादित्यानां च विश्वेषां च
देवानां तृतीयसवनम् ॥ २. २४. १ ॥

क्व तर्हि यजमानस्य लोक इति स यस्तं न विद्यात्कथं
कुर्यादथ विद्वान्कुर्यात् ॥ २. २४. २ ॥

पुरा प्रातरनुवाकस्योपाकरणाज्जघनेन
गार्हपत्यस्योदाङ्मुख उपविश्य स वासवँ
सामाभिगायति ॥ २. २४. ३ ॥

लो३कद्वारमपावा३र्णू ३३ पश्येम त्वा वयँ
रा ३३३३३ हु ३ म् आ ३३ ज्या ३ यो ३ आ ३२१११
इति ॥ २. २४. ४ ॥

अथ जुहोति नमोऽग्नये पृथिवीक्षिते लोकक्षिते
लोकं मे यजमानाय विन्दैष वै यजमानस्य लोक
एतास्मि  ॥ २. २४. ५ ॥

अत्र यजमानः  परस्तादायुषः  स्वाहापजहि
परिघमित्युक्त्वोत्तिष्ठति तस्मै वसवः प्रातःसवनँ
संप्रयच्छन्ति  ॥ २. २४. ६ ॥

पुरा माध्यंदिनस्य
सवनस्योपाकरणाज्जघनेनाग्नीध्रीयस्योदङ्मुख
उपविश्य स रौद्र\m +सामाभिगायति ॥ २. २४. ७ ॥

लो३कद्वारमपावा३र्णू३३ पश्येम त्वा वयं
वैरा३३३३३ हु३म् आ३३ज्या ३यो३आ३२१११इति
॥ २. २४. ८ ॥

अथ जुहोति नमो वायवेऽन्तरिक्षक्षिते लोकक्षिते
लोकं मे यजमानाय विन्दैष वै यजमानस्य लोक
एतास्मि  ॥ २. २४. ९ ॥

अत्र यजमानः परस्तादायुषः स्वाहापजहि
परिघमित्युक्त्वोत्तिष्ठति तस्मै रुद्रा
माध्यंदिनँसवनँसंप्रयच्छन्ति  ॥ २. २४. १० ॥

पुरा तृतीयसवनस्योपाकरणाज्जघनेनाहवनीयस्योदङ्मुख
उपविश्य स आदित्यँस वैश्वदेवँ सामाभिगायति
॥ २. २४. ११ ॥

लो३कद्वारमपावा३र्णू३३पश्येम त्वा वयँ स्वारा
३३३३३ हु३म् आ३३ ज्या३ यो३आ ३२१११ इति
॥ २. २४. १२ ॥

आदित्यमथ वैश्वदेवं लो३कद्वारमपावा३र्णू३३ पश्येम
त्वा वयँसाम्रा३३३३३ हु३म् आ३३ ज्या३यो३आ ३२१११
इति ॥ २. २४. १३ ॥

अथ जुहोति नम आदित्येभ्यश्च विश्वेभ्यश्च देवेभ्यो
दिविक्षिद्भ्यो लोकक्षिद्भ्यो लोकं मे यजमानाय
विन्दत  ॥ २. २४. १४ ॥

एष वै यजमानस्य लोक एतास्म्यत्र यजमानः
परस्तादायुषः स्वाहापहत परिघमित्युक्त्वोत्तिष्ठति
॥ २. २४. १५ ॥

तस्मा आदित्याश्च विश्वे च देवास्तृतीयसवनँ
संप्रयच्छन्त्येष ह वै यज्ञस्य मात्रां वेद य एवं वेद
य एवं वेद  ॥ २. २४. १६ ॥


॥ इति चतुर्विंशः खण्डः ॥


॥ इति द्वितीयोऽध्यायः ॥

<HR>

॥ तृतीयोऽध्यायः ॥


॥ प्रथमः खण्डः ॥


असौ वा आदित्यो देवमधु तस्य द्यौरेव
तिरश्चीनवँशोऽन्तरिक्षमपूपो मरीचयः पुत्राः  ॥ ३. १. १ ॥

तस्य ये प्राञ्चो रश्मयस्ता एवास्य प्राच्यो मधुनाड्यः ।
ऋच एव मधुकृत ऋग्वेद एव पुष्पं ता अमृता
आपस्ता वा एता ऋचः   ॥ ३. १. २ ॥

एतमृग्वेदमभ्यतपँस्तस्याभितप्तस्य यशस्तेज
इन्द्रियं वीर्यमन्नाद्यँरसोऽजायत  ॥ ३. १. ३ ॥

तद्व्यक्षरत्तदादित्यमभितोऽश्रयत्तद्वा
एतद्यदेतदादित्यस्य रोहितँरूपम् ॥ ३. १. ४ ॥


॥ इति प्रथमः खण्डः ॥


॥ द्वितीयः खण्डः ॥


अथ येऽस्य दक्षिणा रश्मयस्ता एवास्य दक्षिणा
मधुनाड्यो यजूँष्येव मधुकृतो यजुर्वेद एव पुष्पं
ता अमृत आपः   ॥ ३. २. १ ॥

तानि वा एतानि यजूँष्येतं
यजुर्वेदमभ्यतपँस्तस्याभितप्तस्य यशस्तेज इन्द्रियं
वीर्यमन्नाद्यँरसोजायत  ॥ ३. २. २ ॥

तद्व्यक्षरत्तदादित्यमभितोऽश्रयत्तद्वा
एतद्यदेतदादित्यस्य शुक्लँ रूपम् ॥ ३. २. ३ ॥


॥ इति द्वितीयः खण्डः ॥


॥ तृतीयः खण्डः ॥


अथ येऽस्य प्रत्यञ्चो रश्मयस्ता एवास्य प्रतीच्यो
मधुनाड्यः सामान्येव मधुकृतः सामवेद एव पुष्पं
ता अमृता आपः ॥ ३. ३. १ ॥

तानि वा एतानि सामान्येतँ
सामवेदमभ्यतपँस्तस्याभितप्तस्य यशस्तेज इन्द्रियं
वीर्यमन्नाद्यँरसोऽजायत  ॥ ३. ३. २ ॥

तद्व्यक्षरत्तदादित्यमभितोऽश्रयत्तद्वा
एतद्यदेतदादित्यस्य कृष्णँरूपम् ॥ ३. ३. ३ ॥


॥ इति तृतीयः खण्डः ॥


॥ चतुर्थः खण्डः ॥


अथ येऽस्योदञ्चो रश्मयस्ता एवास्योदीच्यो
मधुनाड्योऽथर्वाङ्गिरस एव मधुकृत
इतिहासपुराणं पुष्पं ता अमृता आपः ॥ ३. ४. १ ॥

ते वा एतेऽथर्वाङ्गिरस एतदितिहासपूराणमभ्यतपँ
स्तस्याभितप्तस्य यशस्तेज इन्द्रियां
वीर्यमन्नाद्यँरसोऽजायत  ॥ ३. ४. २ ॥

तद्व्यक्षरत्तदादित्यमभितोऽश्रयत्तद्वा
एतद्यदेतदादित्यस्य परं कृष्णँरूपम् ॥ ३. ४. ३ ॥


॥ इति चतुर्थः खण्डः ॥


॥ पञ्चमः खण्डः ॥


अथ येऽस्योर्ध्वा रश्मयस्ता एवास्योर्ध्वा
मधुनाड्यो गुह्या एवादेशा मधुकृतो ब्रह्मैव
पुष्पं   ता अमृता आपः  ॥ ३. ५. १ ॥

ते वा एते गुह्या आदेशा एतद्ब्रह्माभ्यतपँ
स्तस्याभितप्तस्य यशस्तेज इन्द्रियं
वीर्यमन्नाद्यँरसोऽजायत  ॥ ३. ५. २ ॥

तद्व्यक्षरत्तदादित्यमभितोऽश्रयत्तद्वा
एतद्यदेतदादित्यस्य मध्ये क्षोभत इव  ॥ ३. ५. ३ ॥

ते वा एते रसानाँरसा वेदा हि रसास्तेषामेते
रसास्तानि वा एतान्यमृतानाममृतानि वेदा
ह्यमृतास्तेषामेतान्यमृतानि ॥ ३. ५. ४ ॥


॥ इति पञ्चमः खण्डः ॥


॥ षष्ठः खण्डः ॥


तद्यत्प्रथमममृतं तद्वसव उपजीवन्त्यग्निना मुखेन न वै
देवा अश्नन्ति न पिबन्त्येतदेवामृतं दृष्ट्वा
तृप्यन्ति ॥ ३. ६. १ ॥

त एतदेव रूपमभिसंविशन्त्येतस्माद्रूपादुद्यन्ति ॥ ३. ६. २ ॥

स य एतदेवममृतं वेद वसूनामेवैको भूत्वाग्निनैव
मुखेनैतदेवामृतं दृष्ट्वा तृप्यति स य एतदेव
रूपमभिसंविशत्येतस्माद्रूपादुदेति  ॥ ३. ६. ३ ॥

स यावदादित्यः पुरस्तादुदेता पश्चादस्तमेता
वसूनामेव तावदाधिपत्यँस्वाराज्यं पर्येता  ॥ ३. ६. ४ ॥


॥ इति षष्ठः खण्डः ॥


॥ सप्तमः खण्डः ॥


अथ यद्द्वितीयममृतं तद्रुद्रा उपजीवन्तीन्द्रेण
मुखेन न वै देवा अश्नन्ति न पिबन्त्येतदेवामृतं
दृष्ट्वा तृप्यन्ति ॥ ३. ७. १ ॥

त एतदेव रूपमभिसंविशन्त्येतस्माद्रूपादुद्यन्ति  ॥ ३. ७. २ ॥

स य एतदेवममृतं वेद रुद्राणामेवैको भूत्वेन्द्रेणैव
मुखेनैतदेवामृतं दृष्ट्वा तृप्यति स एतदेव
रूपमभिसंविशत्येतस्माद्रूपादुदेति  ॥ ३. ७. ३ ॥

स यावदादित्यः पुरस्तादुदेता पश्चादस्तमेता
द्विस्तावद्दक्षिणत उदेतोत्तरतोऽस्तमेता रुद्राणामेव
तावदाधिपत्यँस्वाराज्यं पर्येता ॥ ३. ७. ४ ॥


॥ इति सप्तमः खण्डः ॥


॥ अष्टमः खण्डः ॥


अथ यत्तृतीयममृतं तदादित्या उपजीवन्ति वरुणेन
मुखेन न वै देवा अश्नन्ति न पिबन्त्येतदेवामृतं
दृष्ट्वा तृप्यन्ति  ॥ ३. ८. १ ॥

त एतदेव रूपमभिसंविशन्त्येतस्माद्रूपादुद्यन्ति  ॥ ३. ८. २ ॥

स य एतदेवममृतं वेदादित्यानामेवैको भूत्वा वरुणेनैव
मुखेनैतदेवामृतं दृष्ट्वा तृप्यति   स एतदेव
रूपमभिसंविशत्येतस्माद्रूपादुदेति  ॥ ३. ८. ३ ॥

स यावदादित्यो दक्षिणत उदेतोत्तरतोऽस्तमेता
द्विस्तावत्पश्चादुदेता पुरस्तादस्तमेतादित्यानामेव
तावदाधिपत्यँस्वाराज्यं पर्येता  ॥ ३. ८. ४ ॥


॥ इति अष्टमः खण्डः ॥


॥ नवमः खण्डः ॥


अथ यच्चतुर्थममृतं तन्मरुत उपजीवन्ति सोमेन
मुखेन न वै देवा अश्नन्ति न पिबन्त्येतदेवामृतं
दृष्ट्वा तृप्यन्ति  ॥ ३. ९. १ ॥

त एतदेव रूपमभिसंविशन्त्येतस्माद्रूपादुद्यन्ति  ॥ ३. ९. २ ॥

स य एतदेवममृतं वेद मरुतामेवैको भूत्वा सोमेनैव
मुखेनैतदेवामृतं दृष्ट्वा तृप्यति   स एतदेव
रूपमभिसंविशत्येतस्माद्रूपादुदेति  ॥ ३. ९. ३ ॥

स यावदादित्यः पश्चादुदेता पुरस्तादस्तमेता
द्विस्तावदुत्तरत उदेता दक्षिणतोऽस्तमेता मरुतामेव
तावदाधिपत्य्ँस्वाराज्यं पर्येता  ॥ ३. ९. ४ ॥


॥ इति नवमः खण्डः ॥


॥ दशमः खण्डः ॥


अथ यत्पञ्चमममृतं तत्साध्या उपजीवन्ति ब्रह्मणा
मुखेन  न वै देवा अश्नन्ति न पिबन्त्येतदेवामृतं
दृष्ट्वा तृप्यन्ति  ॥ ३. १०. १ ॥

त एतदेव रूपमभिसंविशन्त्येतस्माद्रूपादुद्यन्ति  ॥ ३. १०. २ ॥

स य एतदेवममृतं वेद साध्यानामेवैको भूत्वा
ब्रह्मणैव मुखेनैतदेवामृतं दृष्ट्वा तृप्यति स एतदेव
रूपमभिसंविशत्येतस्माद्रूपादुदेति  ॥ ३. १०. ३ ॥

स यावदादित्य उत्तरत उदेता दक्षिणतोऽस्तमेता
द्विस्तावदूर्ध्वं उदेतार्वागस्तमेता साध्यानामेव
तावदाधिपत्यँस्वाराज्यं पर्येता  ॥ ३. १०. ४ ॥


॥ इति दशमः खण्डः ॥


॥ एकादशः खण्डः ॥


अथ तत ऊर्ध्व उदेत्य नैवोदेता नास्तमेतैकल एव
मध्ये स्थाता तदेष श्लोकः  ॥ ३. ११. १ ॥

न वै तत्र न निम्लोच नोदियाय कदाचन ।
देवास्तेनाहँसत्येन मा विराधिषि ब्रह्मणेति ॥ ३. ११. २ ॥

न ह वा अस्मा उदेति न निम्लोचति सकृद्दिवा हैवास्मै
भवति य एतामेवं ब्रह्मोपनिषदं वेद ॥ ३. ११. ३ ॥

तद्धैतद्ब्रह्मा प्रजापतय उवाच प्रजापतिर्मनवे
मनुः प्रजाभ्यस्तद्धैतदुद्दालकायारुणये ज्येष्ठाय पुत्राय
पिता ब्रह्म प्रोवाच ॥ ३. ११. ४ ॥

इदं वाव तज्ज्येष्ठाय पुत्राय पिता ब्रह्म
प्रब्रूयात्प्रणाय्याय वान्तेवासिने ॥ ३. ११. ५ ॥

नान्यस्मै कस्मैचन यद्यप्यस्मा इमामद्भिः परिगृहीतां
धनस्य पूर्णां दद्यादेतदेव ततो भूय इत्येतदेव
ततो भूय इति ॥ ३. ११. ६ ॥


॥ इति एकादशः खण्डः ॥


॥ द्वादशः खण्डः ॥


गायत्री वा ईदँ सर्वं भूतं यदिदं  किं च वाग्वै गायत्री
वाग्वा इदँ सर्वं भूतं गायति च त्रायते च ॥ ३. १२. १ ॥

या वै सा गायत्रीयं वाव सा येयं पृथिव्यस्याँ हीदँ
सर्वं भूतं प्रतिष्ठितमेतामेव नातिशीयते ॥ ३. १२. २ ॥

या वै सा पृथिवीयं वाव सा यदिदमस्मिन्पुरुषे
शरीरमस्मिन्हीमे प्राणाः प्रतिष्ठिता एतदेव
नातिशीयन्ते ॥ ३. १२. ३ ॥

यद्वै तत्पुरुषे शरीरमिदं वाव तद्यदिदमस्मिन्नन्तः
पुरुषे हृदयमस्मिन्हीमे प्राणाः प्रतिष्ठिता एतदेव
नातिशीयन्ते ॥ ३. १२. ४ ॥

सैषा चतुष्पदा षड्विधा गायत्री तदेतदृचाभ्यनूक्तम्
॥ ३. १२. ५ ॥

तावानस्य महिमा ततो ज्यायाँश्च पूरुषः ।
पादोऽस्य सर्वा भूतानि त्रिपादस्यामृतं दिवीति ॥ ३. १२. ६ ॥

यद्वै तद्ब्रह्मेतीदं वाव तद्योयं बहिर्धा
पुरुषादाकाशो यो वै स बहिर्धा पुरुषादाकाशः ॥ ३. १२. ७ ॥

अयं वाव स योऽयमन्तः पुरुष अकाशो यो वै सोऽन्तः
पुरुष आकाशः  ॥ ३. १२. ८ ॥

अयं वाव स योऽयमन्तर्हृदय आकाशस्तदेतत्पूर्णमप्रवर्ति
पूर्णमप्रवर्तिनीँश्रियं लभते य एवं वेद ॥ ३. १२. ९ ॥


॥ इति द्वादशः खण्डः ॥


॥ त्रयोदशः खण्डः ॥


तस्य ह वा एतस्य हृदयस्य पञ्च देवसुषयः
स योऽस्य प्राङ्सुषिः स प्राणस्तच्चक्षुः
स आदित्यस्तदेतत्तेजोऽन्नाद्यमित्युपासीत
तेजस्व्यन्नादो भवति य एवं वेद ॥ ३. १३. १ ॥

अथ योऽस्य दक्षिणः  सुषिः  स व्यानस्तच्छ्रोत्रँ
स चन्द्रमास्तदेतच्छ्रीश्च यशश्चेत्युपासीत
श्रीमान्यशस्वी भवति य एवं वेद ॥ ३. १३. २ ॥

अथ योऽस्य प्रत्यङ्सुषिः सोऽपानः
सा वाक्सोऽग्निस्तदेतद्ब्रह्मवर्चसमन्नाद्यमित्युपासीत
ब्रह्मवर्चस्यन्नादो भवति य एवं वेद ॥ ३. १३. ३ ॥

अथ योऽस्योदङ्सुषिः स समानस्तन्मनः
स पर्जन्यस्तदेतत्कीर्तिश्च व्युष्टिश्चेत्युपासीत
कीर्तिमान्व्युष्टिमान्भवति य एवं वेद ॥ ३. १३. ४ ॥

अथ योऽस्योर्ध्वः सुषिः स उदानः स वायुः
स आकाशस्तदेतदोजश्च महश्चेत्युपासीतौजस्वी
महस्वान्भवति य एवं वेद ॥ ३. १३. ५ ॥

ते वा एते पञ्च ब्रह्मपुरुषाः स्वर्गस्य लोकस्य
द्वारपाः स य एतानेवं पञ्च ब्रह्मपुरुषान्स्वर्गस्य
लोकस्य द्वारपान्वेदास्य कुले वीरो जायते प्रतिपद्यते
स्वर्गं लोकं य एतानेवं पञ्च ब्रह्मपुरुषान्स्वर्गस्य
लोकस्य द्वारपान्वेद ॥ ३. १३. ६ ॥

अथ यदतः परो दिवो ज्योतिर्दीप्यते विश्वतः पृष्ठेषु
सर्वतः पृष्ठेष्वनुत्तमेषूत्तमेषु लोकेष्विदं वाव
तद्यदिदमस्मिन्नन्तः पुरुषे ज्योतिः ॥ ३. १३. ७ ॥

तस्यैषा दृष्टिर्यत्रितदस्मिञ्छरीरे सँस्पर्शेनोष्णिमानं
विजानाति तस्यैषा श्रुतिर्यत्रैतत्कर्णावपिगृह्य निनदमिव
नदथुरिवाग्नेरिव ज्वलत उपशृणोति  तदेतद्दृष्टं च
श्रुतं चेत्युपासीत  चक्षुष्यः श्रुतो भवति य एवं वेद
य एवं वेद  ॥ ३. १३. ८ ॥


॥ इति त्रयोदशः खण्डः ॥


॥ चतुर्दशः खण्डः ॥


सर्वं खल्विदं ब्रह्म तज्जलानिति शान्त उपासीत ।
अथ खलु क्रतुमयः पुरुषो यथाक्रतुरस्मिँल्लोके
पुरुषो भवति तथेतः प्रेत्य भवति  स क्रतुं कुर्वीत
॥ ३. १४. १ ॥

मनोमयः प्राणशरीरो भारूपः सत्यसंकल्प
आकाशात्मा सर्वकर्मा सर्वकामः सर्वगन्धः सर्वरसः
सर्वमिदमभ्यत्तोऽवाक्यनादरः  ॥ ३. १४. २ ॥

एष म आत्मान्तर्हृदयेऽणीयान्व्रीहेर्वा यवाद्वा
सर्षपाद्वा श्यामाकाद्वा श्यामाकतण्डुलाद्वैष
म आत्मान्तर्हृदये ज्यायान्पृथिव्या
ज्यायानन्तरिक्षाज्ज्यायान्दिवो ज्यायानेभ्यो
लोकेभ्यः  ॥ ३. १४. ३ ॥

सर्वकर्मा सर्वकामः सर्वगन्धः सर्वरसः
सर्वमिदमभ्यात्तोऽवाक्यनादर एष म आत्मान्तर्हृदय
एतद्ब्रह्मैतमितः प्रेत्याभिसंभवितास्मीति यस्य स्यादद्धा
न विचिकित्सास्तीति ह स्माह शाण्डिल्यः शाण्डिल्यः
॥ ३. १४. ४ ॥


॥ इति चतुर्दशः खण्डः ॥


॥ पञ्चदशः खण्डः ॥


अन्तरिक्षोदरः कोशो भूमिबुध्नो न जीर्यति दिशो
ह्यस्य स्रक्तयो द्यौरस्योत्तरं बिलँ  स एष कोशो
वसुधानस्तस्मिन्विश्वमिदँ श्रितम्  ॥ ३. १५. १ ॥

तस्य प्राची दिग्जुहूर्नाम सहमाना नाम दक्षिणा
राज्ञी नाम प्रतीची सुभूता नामोदीची तासां
वायुर्वत्सः  स य एतमेवं वायुं दिशां वत्सं वेद न
पुत्ररोदँ रोदिति सोऽहमेतमेवं वायुं दिशां वत्सं
वेद मा पुत्ररोदँरुदम् ॥ ३. १५. २ ॥

अरिष्टं कोशं प्रपद्येऽमुनामुनामुना
प्राणं प्रपद्येऽमुनामुनामुना भूः प्रपद्येऽमुनामुनामुना
भुवः प्रपद्येऽमुनामुनामुना स्वः प्रपद्येऽमुनामुनामुना
॥ ३. १५. ३ ॥

स यदवोचं प्राणं प्रपद्य इति प्राणो वा इदँ सर्वं
भूतं यदिदं किंच तमेव तत्प्रापत्सि  ॥ ३. १५. ४ ॥

अथ यदवोचं भूः प्रपद्य इति पृथिवीं प्रपद्येऽन्तरिक्षं
प्रपद्ये दिवं प्रपद्य इत्येव तदवोचम् ॥ ३. १५. ५ ॥

अथ यदवोचं भुवः प्रपद्य इत्यग्निं प्रपद्ये वायुं
प्रपद्य आदित्यं प्रपद्य इत्येव तदवोचम् ॥ ३. १५. ६ ॥

अथ यदवोचँस्वः प्रपद्य इत्यृग्वेदं प्रपद्ये यजुर्वेदं प्रपद्ये
सामवेदं प्रपद्य इत्येव तदवोचं  तदवोचम् ॥ ३. १५. ७ ॥


॥ इति पञ्चदशः खण्डः ॥


॥ षोडशः खण्डः ॥


पुरुषो वाव यज्ञस्तस्य यानि चतुर्विँशति वर्षाणि
तत्प्रातःसवनं चतुर्विँशत्यक्षरा गायत्री गायत्रं
प्रातःसवनं तदस्य वसवोऽन्वायत्ताः  प्राणा वाव वसव
एते हीदँसर्वं वासयन्ति  ॥ ३. १६. १ ॥

तं चेदेतस्मिन्वयसि किंचिदुपतपेत्स ब्रूयात्प्राणा
वसव इदं मे प्रातःसवनं माध्यंदिनँसवनमनुसंतनुतेति
माहं प्राणानां वसूनां मध्ये यज्ञो विलोप्सीयेत्युद्धैव
तत एत्यगदो ह भवति  ॥ ३. १६. २ ॥

अथ यानि चतुश्चत्वारिँशद्वर्षाणि तन्माध्यंदिनँ
सवनं  चतुश्चत्वारिँशदक्षरा त्रिष्टुप्त्रैष्टुभं
माध्यंदिनँसवनं तदस्य रुद्रा अन्वायत्ताः  प्राणा
वाव रुद्रा  एते हीदँसर्वँरोदयन्ति  ॥ ३. १६. ३ ॥

तं चेदेतस्मिन्वयसि किंचिदुपतपेत्स ब्रूयात्प्राणा रुद्रा
इदं मे माध्यंदिनँसवनं तृतीयसवनमनुसंतनुतेति
माहं प्राणानाँरुद्राणां मध्ये यज्ञो विलोप्सीयेत्युद्धैव
तत एत्यगदो ह भवति  ॥ ३. १६. ४ ॥

अथ यान्यष्टाचत्वारिँशद्वर्षाणि
तत्तृतीयसवनमष्टाचत्वारिँशदक्षरा
जगती जागतं तृतीयसवनं तदस्यादित्या अन्वायत्ताः
प्राणा वावादित्या एते हीदँसर्वमाददते  ॥ ३. १६. ५ ॥

तं चेदेतस्मिन्वयसि किंचिदुपतपेत्स ब्रूयात्प्राणा
अदित्या इदं मे तृतीयसवनमायुरनुसंतनुतेति माहं
प्राणानामादित्यानां मध्ये यज्ञो विलोप्सीयेत्युद्धैव
तत एत्यगदो हैव भवति  ॥ ३. १६. ६ ॥

एतद्ध स्म वै तद्विद्वानाह महिदास ऐतरेयः
स किं म एतदुपतपसि योऽहमनेन न प्रेष्यामीति
स ह षोडशं वर्षशतमजीवत्प्र ह षोडशं
वर्षशतं जीवति य एवं वेद  ॥ ३. १६. ७ ॥


॥ इति षोडशः खण्डः ॥


॥ सप्तदशः खण्डः ॥


स यदशिशिषति यत्पिपासति यन्न रमते ता अस्य
दीक्षाः  ॥ ३. १७. १ ॥

अथ यदश्नाति यत्पिबति यद्रमते तदुपसदैरेति  ॥ ३. १७. २ ॥

अथ यद्धसति यज्जक्षति यन्मैथुनं चरति स्तुतशस्त्रैरेव
तदेति  ॥ ३. १७. ३ ॥

अथ यत्तपो दानमार्जवमहिँसा सत्यवचनमिति
ता अस्य दक्षिणाः  ॥ ३. १७. ४ ॥

तस्मादाहुः सोष्यत्यसोष्टेति पुनरुत्पादनमेवास्य
तन्मरणमेवावभृथः  ॥ ३. १७. ५ ॥

तद्धैतद्घोर् आङ्गिरसः कृष्णाय
देवकीपुत्रायोक्त्वोवाचापिपास एव स बभूव
सोऽन्तवेलायामेतत्त्रयं प्रतिपद्येताक्षितमस्यच्युतमसि
प्राणसँशितमसीति तत्रैते द्वे ऋचौ भवतः  ॥ ३. १७. ६ ॥

आदित्प्रत्नस्य रेतसः ।
उद्वयं तमसस्परि ज्योतिः पश्यन्त उत्तरँस्वः
पश्यन्त उत्तरं देवं देवत्रा सूर्यमगन्म
ज्योतिरुत्तममिति ज्योतिरुत्तममिति  ॥ ३. १७. ७ ॥


॥ इति सप्तदशः खण्डः ॥


॥ अष्टादशः खण्डः ॥


मनो ब्रह्मेत्युपासीतेत्यध्यात्ममथाधिदैवतमाकाशो
ब्रह्मेत्युभयमादिष्टं भवत्यध्यात्मं चाधिदैवतं च
॥ ३. १८. १ ॥

तदेतच्चतुष्पाद्ब्रह्म वाक्पादः प्राणः पादश्चक्षुः
पादः श्रोत्रं पाद इत्यध्यात्ममथाधिदैवतमग्निः
पादो वायुः पादा अदित्यः पादो दिशः पाद
इत्युभयमेवादिष्टं भवत्यध्यात्मं  चैवाधिदैवतं च
॥ ३. १८. २ ॥

वागेव ब्रह्मणश्चतुर्थः पादः सोऽग्निना ज्योतिषा
भाति च तपति च भाति च तपति च कीर्त्या यशसा
ब्रह्मवर्चसेन य एवं वेद  ॥ ३. १८. ३ ॥

प्राण एव ब्रह्मणश्चतुर्थः पादः स वायुना ज्योतिषा
भाति च तपति च्  भाति च तपति च कीर्त्या यशसा
ब्रह्मवर्चसेन य एवं वेद  ॥ ३. १८. ४ ॥

चक्षुरेव ब्रह्मणश्चतुर्थः पादः स आदित्येन ज्योतिषा
भाति च तपति च  भाति च तपति च कीर्त्या यशसा
ब्रह्मवर्चसेन य एवं वेद  ॥ ३. १८. ५ ॥

श्रोत्रमेव ब्रह्मणश्चतुर्थः पादः स दिग्भिर्ज्योतिषा
भाति च तपति च  भाति च तपति च कीर्त्या यशसा
ब्रह्मवर्चसेन य एवं वेद य एवं वेद  ॥ ३. १८. ६ ॥


॥ इति अष्टादशः खण्डः ॥


॥ एकोनविंशः खण्डः ॥


आदित्यो ब्रह्मेत्यादेशस्तस्योपव्याख्यानमसदेवेदमग्र
आसीत् । तत्सदासीत्तत्समभवत्तदाण्डं निरवर्तत
तत्संवत्सरस्य मात्रामशयत तन्निरभिद्यत ते आण्डकपाले
रजतं च सुवर्णं चाभवताम् ॥ ३. १९. १ ॥

तद्यद्रजतँ सेयं पृथिवी यत्सुवर्णँ सा द्यौर्यज्जरायु
ते पर्वता  यदुल्बँ समेघो नीहारो या धमनयस्ता
नद्यो यद्वास्तेयमुदकँ स समुद्रः  ॥ ३. १९. २ ॥

अथ यत्तदजायत सोऽसावादित्यस्तं जायमानं घोषा
उलूलवोऽनूदतिष्ठन्त्सर्वाणि च भूतानि सर्वे च
कामास्तस्मात्तस्योदयं प्रति प्रत्यायनं प्रति घोषा
उलूलवोऽनूत्तिष्ठन्ति सर्वाणि च भूतानि सर्वे च कामाः
॥ ३. १९. ३ ॥

स य एतमेवं विद्वानादित्यं ब्रह्मेत्युपास्तेऽभ्याशो ह
यदेनँ साधवो घोषा आ च गच्छेयुरुप च
निम्रेडेरन्निम्रेडेरन् ॥ ३. १९. ४ ॥


॥ इति एकोनविंशः खण्डः ॥


॥ इति तृतीयोऽध्यायः ॥

<HR>

॥ चतुर्थोऽध्यायः ॥


॥ प्रथमः खण्डः ॥


जानश्रुतिर्ह पौत्रायणः श्रद्धादेयो बहुदायी बहुपाक्य आस
स ह सर्वत आवसथान्मापयांचक्रे सर्वत एव
मेऽन्नमत्स्यन्तीति ॥ ४. १. १ ॥

अथ हँसा निशायामतिपेतुस्तद्धैवँ हँ सोहँ समभ्युवाद
हो होऽयि भल्लाक्ष भल्लाक्ष जानश्रुतेः पौत्रायणस्य
समं दिवा ज्योतिराततं तन्मा प्रसाङ्क्षी स्तत्त्वा
मा प्रधाक्षीरिति ॥ ४. १. २ ॥

तमु ह परः प्रत्युवाच कम्वर एनमेतत्सन्तँ सयुग्वानमिव
रैक्वमात्थेति यो नु कथँ सयुग्वा रैक्व इति ॥ ४. १. ३ ॥

यथा कृतायविजितायाधरेयाः संयन्त्येवमेनँ सर्वं
तदभिसमैति यत्किंच प्रजाः साधु कुर्वन्ति यस्तद्वेद
यत्स वेद स मयैतदुक्त इति ॥ ४. १. ४ ॥

तदु ह जानश्रुतिः पौत्रायण उपशुश्राव
स ह संजिहान एव क्षत्तारमुवाचाङ्गारे ह सयुग्वानमिव
रैक्वमात्थेति यो नु कथँ सयुग्वा रैक्व इति ॥ ४. १. ५ ॥

यथा कृतायविजितायाधरेयाः संयन्त्येवमेनँ सर्वं
तदभिसमैति यत्किंच प्रजाः साधु कुर्वन्ति यस्तद्वेद
यत्स वेद स मयैतदुक्त इति ॥ ४. १. ६ ॥

स ह क्षत्तान्विष्य नाविदमिति प्रत्येयाय तँ होवाच
यत्रारे ब्राह्मणस्यान्वेषणा तदेनमर्च्छेति ॥ ४. १. ७ ॥

सोऽधस्ताच्छकटस्य पामानं कषमाणमुपोपविवेश
तँ हाभ्युवाद त्वं नु भगवः सयुग्वा रैक्व
इत्यहँ ह्यरा३ इति ह प्रतिजज्ञे स ह क्षत्ताविदमिति
प्रत्येयाय ॥ ४. १. ८ ॥


॥ इति प्रथमः खण्डः ॥


॥ द्वितीयः खण्डः ॥


तदु ह जानश्रुतिः पौत्रायणः षट्शतानि गवां
निष्कमश्वतरीरथं तदादाय प्रतिचक्रमे तँ हाभ्युवाद
॥ ४. २. १ ॥

रैक्वेमानि षट्शतानि गवामयं निष्कोऽयमश्वतरीरथोऽनु
म एतां भगवो देवताँ शाधि यां देवतामुपास्स इति
॥ ४. २. २ ॥

तमु ह परः प्रत्युवाचाह हारेत्वा शूद्र तवैव सह
गोभिरस्त्विति तदु ह पुनरेव जानश्रुतिः पौत्रायणः
सहस्रं गवां निष्कमश्वतरीरथं दुहितरं तदादाय
प्रतिचक्रमे ॥ ४. २. ३ ॥

तँ हाभ्युवाद रैक्वेदँ सहस्रं गवामयं
निष्कोऽयमश्वतरीरथ इयं जायायं ग्रामो
यस्मिन्नास्सेऽन्वेव मा भगवः शाधीति ॥ ४. २. ४ ॥

तस्या ह मुखमुपोद्गृह्णन्नुवाचाजहारेमाः शूद्रानेनैव
मुखेनालापयिष्यथा इति ते हैते रैक्वपर्णा नाम
महावृषेषु यत्रास्मा उवास स तस्मै होवाच ॥ ४. २. ५ ॥


॥ इति द्वितीयः खण्डः ॥


॥ तृतीयः खण्डः ॥


वायुर्वाव संवर्गो यदा वा अग्निरुद्वायति वायुमेवाप्येति
यदा सूर्योऽस्तमेति वायुमेवाप्येति यदा चन्द्रोऽस्तमेति
वायुमेवाप्येति ॥ ४. ३. १ ॥

यदाप उच्छुष्यन्ति वायुमेवापियन्ति
वायुर्ह्येवैतान्सर्वान्संवृङ्क्त इत्यधिदैवतम् ॥ ४. ३. २ ॥

अथाध्यात्मं प्राणो वाव संवर्गः स यदा स्वपिति प्राणमेव
वागप्येति प्राणं चक्षुः प्राणँ श्रोत्रं प्राणं मनः प्राणो
ह्येवैतान्सर्वान्संवृङ्क्त इति ॥ ४. ३. ३ ॥

तौ वा एतौ द्वौ सम्वर्गौ वायुरेव देवेषु प्राणः प्राणेषु
॥ ४. ३. ४ ॥

अथ ह शौनकं च कापेयमभिप्रतारिणं च काक्षसेनिं
परिविष्यमाणौ ब्रह्मचारी बिभिक्षे तस्मा उ ह न ददतुः
॥ ४. ३. ५ ॥

स होवाच महात्मनश्चतुरो देव एकः कः स जगार
भुवनस्य गोपास्तं कापेय नाभिपश्यन्ति मर्त्या
अभिप्रतारिन्बहुधा वसन्तं यस्मै वा एतदन्नं तस्मा
एतन्न दत्तमिति ॥ ४. ३. ६ ॥

तदु ह शौनकः कापेयः प्रतिमन्वानः प्रत्येयायात्मा देवानां
जनिता प्रजानाँ हिरण्यदँष्ट्रो बभसोऽनसूरिर्महान्तमस्य
महिमानमाहुरनद्यमानो यदनन्नमत्तीति वै वयं
ब्रह्मचारिन्नेदमुपास्महे दत्तास्मै भिक्षामिति ॥ ४. ३. ७ ॥

तस्म उ ह ददुस्ते वा एते पञ्चान्ये पञ्चान्ये दश
सन्तस्तत्कृतं तस्मात्सर्वासु दिक्ष्वन्नमेव दश कृतँ सैषा
विराडन्नादी तयेदँ सर्वं दृष्टँ सर्वमस्येदं दृष्टं
भवत्यन्नादो भवति य एवं वेद य एवं वेद ॥ ४. ३. ८ ॥


॥ इति तृतीयः खण्डः ॥


॥ चतुर्थः खण्डः ॥



सत्यकामो ह जाबालो जबालां मातरमामन्त्रयांचक्रे
ब्रह्मचर्यं भवति विवत्स्यामि किंगोत्रो न्वहमस्मीति
॥ ४. ४. १ ॥

सा हैनमुवाच नाहमेतद्वेद तात यद्गोत्रस्त्वमसि
बह्वहं चरन्ती परिचारिणी यौवने त्वामलभे
साहमेतन्न वेद यद्गोत्रस्त्वमसि जबाला तु नामाहमस्मि
सत्यकामो नाम त्वमसि स सत्यकाम एव जाबालो
ब्रवीथा इति ॥ ४. ४. २ ॥

स ह हारिद्रुमतं गौतममेत्योवाच ब्रह्मचर्यं भगवति
वत्स्याम्युपेयां भगवन्तमिति ॥ ४. ४. ३ ॥

तँ होवाच किंगोत्रो नु सोम्यासीति स होवाच
नाहमेतद्वेद भो यद्गोत्रोऽहमस्म्यपृच्छं मातरँ
सा मा प्रत्यब्रवीद्बह्वहं चरन्ती परिचरिणी यौवने
त्वामलभे साहमेतन्न वेद यद्गोत्रस्त्वमसि जबाला तु
नामाहमस्मि सत्यकामो नाम त्वमसीति सोऽहँ
सत्यकामो जाबालोऽस्मि भो इति ॥ ४. ४. ४ ॥

तँ होवाच नैतदब्राह्मणो विवक्तुमर्हति समिधँ
सोम्याहरोप त्वा नेष्ये न सत्यादगा इति तमुपनीय
कृशानामबलानां चतुःशता गा निराकृत्योवाचेमाः
सोम्यानुसंव्रजेति ता अभिप्रस्थापयन्नुवाच
नासहस्रेणावर्तेयेति स ह वर्षगणं प्रोवास ता यदा
सहस्रँ संपेदुः ॥ ४. ४. ५ ॥


॥ इति चतुर्थः खण्डः ॥


॥ पञ्चमः खण्डः ॥


अथ हैनमृषभोऽभ्युवाद सत्यकाम३ इति
भगव इति ह प्रतिशुश्राव प्राप्ताः सोम्य सहस्रँ स्मः
प्रापय न आचार्यकुलम् ॥ ४. ५. १ ॥

ब्रह्मणश्च ते पादं ब्रवाणीति ब्रवीतु मे भगवानिति
तस्मै होवाच प्राची दिक्कला प्रतीची दिक्कला
दक्षिणा दिक्कलोदीची दिक्कलैष वै सोम्य चतुष्कलः
पादो ब्रह्मणः प्रकाशवान्नाम ॥ ४. ५. २ ॥

स य एतमेवं विद्वाँश्चतुष्कलं पादं ब्रह्मणः
प्रकाशवानित्युपास्ते प्रकाशवानस्मिँल्लोके भवति
प्रकाशवतो ह लोकाञ्जयति य एतमेवं विद्वाँश्चतुष्कलं
पादं ब्रह्मणः प्रकाशवानित्युपास्ते ॥ ४. ५. ३ ॥


॥ इति पञ्चमः खण्डः ॥


॥ षष्ठः  खण्डः ॥


अग्निष्टे पादं वक्तेति स ह श्वोभूते ग
आभिप्रस्थापयांचकार ता यत्राभि सायं
बभूवुस्तत्राग्निमुपसमाधाय गा उपरुध्य समिधमाधाय
पश्चादग्नेः  प्राङुपोपविवेश  ॥ ४. ६. १ ॥

तमग्निरभ्युवाद सत्यकाम३ इति भगव इति
ह प्रतिशुश्राव  ॥ ४. ६. २ ॥

ब्रह्मणः सोम्य ते पादं ब्रवाणीति ब्रवीतु मे भगवानिति
तस्मै होवाच पृथिवी कलान्तरिक्षं कला द्यौः कला
समुद्रः कलैष वै सोम्य चतुष्कलः पादो
ब्रह्मणोऽनन्तवान्नाम  ॥ ४. ६. ३ ॥

स य एतमेवं विद्वाँश्चतुष्कलं पादं
ब्रह्मणोऽनन्तवानित्युपास्तेऽनन्तवानस्मिँल्लोके
भवत्यनन्तवतो ह लोकाञ्जयति य एतमेवं विद्वाँश्चतुष्कलं
पादं ब्रह्मणोऽनन्तवानित्युपास्ते  ॥ ४. ६. ४ ॥


॥ इति षष्ठः खण्डः ॥


॥ सप्तमः खण्डः ॥


हँसस्ते पादं वक्तेति स ह श्वोभूते गा
अभिप्रस्थापयांचकार ता यत्राभि सायं
बभूवुस्तत्राग्निमुपसमाधाय गा उपरुध्य समिधमाधाय
पश्चादग्नेः  प्राङुपोपविवेश ॥ ४. ७. १ ॥

तँहँस उपनिपत्याभ्युवाद सत्यकाम३ इति भगव
इति ह प्रतिशुश्राव ॥ ४. ७. २ ॥

ब्रह्मणः सोम्य ते पादं ब्रवाणीति ब्रवीतु मे भगवानिति
तस्मै होवाचाग्निः कला सूर्यः कला चन्द्रः कला
विद्युत्कलैष वै सोम्य चतुष्कलः पादो ब्रह्मणो
ज्योतिष्मान्नाम ॥ ४. ७. ३ ॥

स य एतमेवं विद्वाँश्चतुष्कलं पादं ब्रह्मणो
ज्योतिष्मानित्युपास्ते ज्योतिष्मानस्मिँल्लोके भवति
ज्योतिष्मतो ह लोकाञ्जयति य एतमेवं विद्वाँश्चतुष्कलं
पादं ब्रह्मणो ज्योतिष्मानित्युपास्ते ॥ ४. ७. ४ ॥


॥ इति सप्तमः खण्डः ॥


॥ अष्टमः खण्डः ॥



मद्गुष्टे पादं वक्तेति स ह श्वोभूते गा अभिप्रस्थापयांचकार
ता यत्राभि सायं बभूवुस्तत्राग्निमुपसमाधाय गा
उपरुध्य समिधमाधाय पश्चादग्नेः प्राङुपोपविवेश ॥ ४. ८. १ ॥

तं मद्गुरुपनिपत्याभ्युवाद सत्यकाम३ इति भगव इति
ह प्रतिशुश्राव ॥ ४. ८. २ ॥

ब्रह्मणः सोम्य ते पादं ब्रवाणीति ब्रवीतु मे भगवानिति
तस्मै होवाच प्राणः कला चक्षुः कला श्रोत्रं कला मनः
कलैष वै सोम्य चतुष्कलः पादो ब्रह्मण आयतनवान्नाम
॥ ४. ८. ३ ॥

स यै एतमेवं विद्वाँश्चतुष्कलं पादं ब्रह्मण
आयतनवानित्युपास्त आयतनवानस्मिँल्लोके
भवत्यायतनवतो ह लोकाञ्जयति य एतमेवं
विद्वाँश्चतुष्कलं पादं ब्रह्मण आयतनवानित्युपास्ते
॥ ४. ८. ४ ॥


॥ इति अष्टमः  खण्डः ॥



॥ नवमः खण्डः ॥


प्राप हाचर्यकुलं तमाचर्योऽभ्युवाद सत्यकाम३ इति
भगव इति ह प्रतिशुश्राव ॥ ४. ९. १ ॥

ब्रह्मविदिव वै सोम्य भासि को नु त्वानुशशासेत्यन्ये
मनुष्येभ्य इति ह प्रतिजज्ञे भगवाँस्त्वेव मे कामे ब्रूयात्
॥ ४. ९. २ ॥

श्रुतँह्येव मे भगवद्दृशेभ्य आचार्याद्धैव विद्या विदिता
साधिष्ठं प्रापतीति तस्मै हैतदेवोवाचात्र ह न किंचन
वीयायेति वीयायेति ॥ ४. ९. ३ ॥


॥ इति नवमः खण्डः ॥


॥ दशमः खण्डः ॥


उपकोसलो ह वै कामलायनः सत्यकामे जाबाले
ब्रह्मचार्यमुवास तस्य ह द्वादश वार्षाण्यग्नीन्परिचचार
स ह स्मान्यानन्तेवासिनः समावर्तयँस्तं ह स्मैव न
समावर्तयति ॥ ४. १०. १ ॥

तं जायोवाच तप्तो ब्रह्मचारी कुशलमग्नीन्परिचचारीन्मा
त्वाग्नयः परिप्रवोचन्प्रब्रूह्यस्मा इति तस्मै हाप्रोच्यैव
प्रवासांचक्रे ॥ ४. १०. २ ॥

स ह व्याधिनानशितुं दध्रे तमाचार्यजायोवाच
ब्रह्मचारिन्नशान किं नु नाश्नासीति स होवाच
बहव इमेऽस्मिन्पुरुषे कामा नानात्यया व्याधीभिः
प्रतिपूर्णोऽस्मि नाशिष्यामीति ॥ ४. १०. ३ ॥

अथ हाग्नयः समूदिरे तप्तो ब्रह्मचारी कुशलं नः
पर्यचारीद्धन्तास्मै प्रब्रवामेति तस्मै होचुः प्राणो ब्रह्म
कं ब्रह्म खं ब्रह्मेति ॥ ४. १०. ४ ॥

स होवाच विजानाम्यहं यत्प्राणो ब्रह्म कं च तु खं च न
विजानामीति ते होचुर्यद्वाव कं तदेव खं यदेव खं तदेव
कमिति प्राणं च हास्मै तदाकाशं चोचुः ॥ ४. १०. ५ ॥


॥ इति दशमः  खण्डः ॥


॥ एकादशः  खण्डः ॥


अथ हैनं गार्हपत्योऽनुशशास पृथिव्यग्निरन्नमादित्य
इति य एष आदित्ये पुरुषो दृश्यते सोऽहमस्मि स
एवाहमस्मीति ॥ ४. ११. १ ॥

स य एतमेवं विद्वानुपास्तेऽपहते पापकृत्यां लोकी भवति
सर्वमायुरेति ज्योग्जीवति नास्यावरपुरुषाः क्षीयन्त उप
वयं तं भुञ्जामोऽस्मिँश्च लोकेऽमुष्मिँश्च य एतमेवं
विद्वानुपास्ते ॥ ४. ११. २ ॥


॥ इति एकादशः खण्डः ॥


॥ द्वादशः खण्डः ॥


अथ हैनमन्वाहार्यपचनोऽनुशशासापो दिशो नक्षत्राणि
चन्द्रमा इति य एष चन्द्रमसि पुरुषो दृश्यते सोऽहमस्मि
स एवाहमस्मीति ॥ ४. १२. १ ॥

स य एतमेवं विद्वानुपास्तेऽपहते पापकृत्यां लोकी भवति
सर्वमायुरेति ज्योग्जीवति नास्यावरपुरुषाः क्षीयन्त उप
वयं तं भुञ्जामोऽस्मिँश्च लोकेऽमुष्मिँश्च य एतमेवं
विद्वानुपास्ते ॥ ४. १२. २ ॥


॥ इति द्वादशः खण्डः ॥


॥ त्रयोदशः खण्डः ॥


अथ हैनमाहवनीयोऽनुशशास प्राण आकाशो द्यौर्विद्युदिति
य एष विद्युति पुरुषो दृश्यते सोऽहमस्मि स
एवाहमस्मी