गणपति उपनिषद्
From Wikisource
.. गणपत्युपनिषत् .. यं नत्वा मुनयः सर्वे निर्विघ्नं यान्ति तत्पदम् . गणेशोपनिषद्वेद्यं तद्ब्रह्मैवास्मि सर्वगम् .. ॐ भद्रं कर्णेभिः श्रुणुयाम देवाः . भद्रं पश्येमाक्षभिर्यजत्राः . स्थिरैरङ्गैस्तुष्टुवाँसस्तनूभिर्व्यशेम देवहितं यदायुअः .. ॐ शान्तिः शान्तिः शान्तिः .. हरिः ॐ.. नमस्ते गणपतये . त्वमेव प्रत्यक्षं तत्त्वमसि . त्वमेव केवलं कर्तासि . त्वमेव केवलं धर्तासि . त्वमेव केवलं हर्तासि . त्वमेव सर्वं खल्विदं ब्रह्मासि . त्वं साक्षादात्मासि नित्यम् . ऋतं वच्मि . सत्यं वच्मि . अव त्वं माम् . अव वक्तारम् . अव श्रोतारम् . अव दातारम् . अव धातारम् . अवानूचानमव शिष्यम् . अव पश्चात्तात् . अव पुरस्तात् . अव चोत्तरात्तात् . अव दक्षिणात्तात् . अव चोर्ध्वात्तात् . अवाधरात्तात् . सर्वतो मां पाहि पाहि समन्तात् . त्वं वाङ्मयस्त्वं चिन्मयः . त्वमानन्दमयस्त्वं ब्रह्ममयः . त्वं सच्चिदानन्दाद्वितीयोऽसि . त्वं प्रत्यक्षं ब्रह्मासि . त्वं ज्ञानमयो विज्ञानमयोऽसि . सर्वं जगदिदं त्वत्तो जायते . सर्वं जगदिदं त्वत्तस्तिष्ठति . सर्वं जगदिदं त्वयि लयमेष्यति . सर्वं जगदिदं त्वयि प्रत्येति . त्वं भूमिरापोऽनलोऽनिलो नभः . त्वं चत्वारि वाक्पदानि . त्वं गुणत्रयातीतः . त्वं कालत्रयातीतः . त्वं देहत्रयातीतः . त्वं मूलाधारस्थितोऽसि नित्यम् . त्वं शक्तित्रयात्मकः . त्वां योगिनो ध्यायन्ति नित्यम् . त्वं ब्रह्मा त्वं विष्णुस्त्वं रुद्रस्त्वमिन्द्रस्त्वमग्निस्त्वं वायुस्त्वं सूर्यस्त्वं चन्द्रमास्त्वं ब्रह्म भूर्भुवःसुवरोम् . गणादिं पूर्वमुच्चार्य वर्णादिं तदनन्तरम् . अनुस्वारः परतरः . अर्धेन्दुलसितम् .. १.. तारेण रुद्धम् . एतत्तव मनुस्वरूपम् . गकारः पूर्वरूपम् . अकारो मध्यम रूपम् . अनुस्वारश्चान्त्यरूपम् . बिन्दुरुत्तररूपम् . नादः सन्धानम् . संहिता सन्धिः . सैषा गणेशविद्या . गणक ऋषिः निचृद्गायत्री छन्दः . श्रीमहागणपतिर्देवता . ॐ गम् . गणपतये नमः . एकदन्ताय विद्महे वक्रतुण्डाय धीमहि . तन्नो दन्ती प्रचोदयात् .. एकदन्तं चतुर्हस्तं पाशमङ्कुशधारिणम् . अभयं वरदं हस्तैर्बिभ्राणं मूशकध्वजम् .. रक्तं लम्बोदरं शूर्पकर्णकं रक्तवाससम् . रक्तगन्धानुलिप्ताङ्गं रक्तपुष्पैः सुपूजितम् .. भक्तानुकंपिनं देवं जगत्कारणमच्युतम् . आविर्भूतं च सृष्ट्यादौ प्रकृतेः पुरुषात्परम् .. एवं ध्यायति यो नित्यं स योगी योगिनां वरः . नमो व्रातपतये नमो गणपतये नमः प्रथमपतये नमस्तेऽस्तु लम्बोदरायैकदन्ताय विघ्नविनाशिने शिवसुताय श्रीवरदमूर्तये नमोनमः .. .. एतदथर्वशिरो योधीते स ब्रह्मभूयाय कल्पते . स सर्वविघ्नैर्न बाध्यते . स सर्वतः सुखमेधते . स पञ्चमहापातकोपपातकात्प्रमुच्यते . सायमधीयानो दिवसकृतं पापं नाशयति . प्रातरधीयानो रात्रिकृतं पापं नाशयति . सायं प्रातः प्रयुञ्जानोऽपापो भवति . धर्मार्थकाममोक्षं च विन्दति . इदमथर्वसीर्षमशिष्याय न देयम् . यो यदि मोहाद्दास्यति स पापीयान्भवति . सहस्रावर्तनाद्यं यं काममधीते तं तमनेन साधयेत् . अनेन गणपतिमभिशिञ्चति स वाग्मी भवति . चतुर्थ्यामनश्नञ्जपति स विद्यावान्भवति . इत्यथर्वणवाक्यम् . ब्रह्माद्याचरणं विद्यात् . न बिभेति कदाचनेति . यो दुर्वाङ्कुरैर्यजति स वैश्रवणोपमो भवति . यो लाजैर्यजति स यशोवान्भवति . स मेधावान्भवति . यो मोदकसहस्रेण यजति स वाञ्छितफलमवाप्नोति . यः साज्यसमिद्भिर्यजति स सर्वं लभते स सर्वं लभते . अष्टौ ब्राह्मणान्सम्यग्ग्राहयित्वा सूर्यवर्चस्वी भवति . सूर्यग्रहे महानद्यां प्रतिमासंनिधौ वा जप्त्वा सिद्धमन्त्रो भवति . महाविघ्नात्प्रमुच्यते . महादोषात्प्रमुच्यते . स सर्वविद्भवति स सर्वविद्भवति . य एवं वेदेत्युपनिषत् .. ॐ भद्रं कर्णेभिः श्रुणुयाम देवाः . भद्रं पश्येमाक्षभिर्यजत्राः . स्थिरैरङ्गैस्तुष्टुवाँसस्तनूभिर्व्यशेम देवहितं यदायुः .. ॐ शान्तिः शान्तिः शान्तिः .. इति गणपत्युपनिषत्समाप्ता ..