क्षुरिक उपनिषद्

From Wikisource

Jump to: navigation, search

.. क्षुरिकोपनिषत् .. कैवल्यनाडीकान्तस्थपराभूमिनिवासिनम् . क्षुरिकोपनिषद्योगभासुरं राममाश्रये .. ॐ सहनाववतु .. सह नौ भुनक्तु .. सह वीर्यं करवावहै .. तेजस्विनावधीतमस्तु मा विद्विषावहै .. ॐ शान्तिः शान्तिः शान्तिः .. ॐ क्षुरिकां सम्प्रवक्ष्यामि धारणां योगसिद्धये . यं प्राप्य न पुनर्जन्म योगयुक्तस्य जायते .. १.. वेदतत्त्वार्थविहितं यथोक्तं हि स्वयंभुवा . निःशब्दं देशमास्थाय तत्रासनमवस्थितः .. २.. कूर्मोऽङ्गानीव संहृत्य मनो हृदि निरुध्य च . मात्राद्वादशयोगेन प्रणवेन शनैः शनैः .. ३.. पूरयेत्सर्वमात्मानं सर्वद्वारं निरुध्य च . उरोमुखकटिग्रीवं किञ्चिद्भूदयमुन्नतम् .. ४.. प्राणान्सन्धारयेत्तस्मिनासाभ्यन्तरचारिणः . भूत्वा तत्र गतः प्राणः शनैरथ समुत्सृजेत् .. ५.. स्थिरमात्रादृढं कृत्वा अङ्गुष्ठेन समाहितः . द्वे गुल्फे तु प्रकुर्वीत जङ्घे चैव त्रयस्त्रयः .. ६.. द्वे जानुनी तथोरुभ्यां गुदे शिश्ने त्रयस्त्रयः . वायोरायतनं चात्र नाभिदेशे समाश्रयेत् .. ७.. तत्र नाडी सुषुम्ना तु नाडीभिर्बहुभिर्वृता .. अणु रक्तश्च पीताश्च कृष्णास्ताम्रा विलोहिताः .. ८.. अतिसूक्ष्मां च तन्वीं च शुक्लां नाडीं समाश्रयेत् . तत्र संचारयेत्प्राणानूर्णनाभीव तन्तुना .. ९.. ततो रक्तोत्पलाभासं पुरुषायतनं महत् दहरं पुण्डरीकं तद्वेदान्तेषु निगद्यते .. १०.. तद्भित्त्वा कण्ठमायाति तां नाडीं पूरयन्यतः . मनसस्तु क्षुरं गृह्य सुतीक्ष्णं बुद्धिनिर्मलम् .. ११.. पादस्योपरि यन्मध्ये तद्रूपं नाम कृन्तयेत् . मनोद्वारेण तीक्ष्णेन योगमाश्रित्य नित्यशः .. १२.. इन्द्रवज्र इति प्रोक्तं मर्मजङ्घानुकीर्तनम् . तद्ध्यानबलयोगेन धारणाभिर्निकृन्तयेत् .. १३.. ऊर्वोर्मध्ये तु संस्थाप्य मर्मप्राणविमोचनम् . चतुरभ्यासयोगेन छिन्देदनभिशङ्कितः ..१४.. ततः कण्ठान्तरे योगी समूहन्नाडिसञ्चयम् . एकोत्तरं नाडिशतं तासां मध्ये वराः स्मृताः .. १५.. सुषुम्ना तु परे लीना विरजा ब्रह्मरूपिणी . इडा तिष्ठति वामेन पिङ्गला दक्षिणेन च .. १६.. तयोर्मध्ये वरं स्थानं यस्तं वेद स वेदवित् . द्वासप्ततिसहस्राणि प्रतिनाडीषु तैतिलम् .. १७.. छिद्यते ध्यानयोगेन सुषुम्नैका न छिद्यते . योगनिर्मलधारेण क्षुरेणानलवर्चसा .. १८.. छिन्देन्नाडीशतं धीरः प्रभावादिह जन्मनि . जातीपुष्पसमायोगैर्यथा वास्यति तैतिलम् .. १९.. एवं शुभाशुभैर्भावैः सा नाडीति विभावयेत् . तद्भाविताः प्रपद्यन्ते पुनर्जन्मविवर्जिताः .. २०.. तपोविजितचित्तस्तु निःशब्दं देशमास्थितः . निःसङ्गतत्त्वयोगज्ञो निरपेक्षः शनैः शनैः .. २१.. पाशं छित्त्वा यथा हंसो निर्विशङ्कं खमुत्क्रमेत् . छिन्नपाशस्तथा जीवः संसारं तरते सदा .. २२.. यथा निर्वाणकाले तु दीपो दग्ध्वा लयं व्रजेत् . तथा सर्वाणि कर्माणि योगी दग्ध्वा लयं व्रजेत् .. २३.. प्राणायामसुतीक्ष्णेन मात्राधारेण योगवित् . वैराग्योपलघृष्टेन छित्त्वा तं तु न बध्यते .. २४.. अमृतत्वं समाप्नोति यदा कामात्स मुच्यते . सर्वेषणाविनिर्मुक्तश्छित्त्वा तं तु न बध्यत इत्युपनिषत् .. ॐ सह नाववतु .. सह नौ भुनक्तु .. सह वीर्यं करवावहै .. तेजस्विनावधीतमस्तु मा विद्विषावहै .. ॐ शान्तिः शान्तिः शान्तिः .. .. इति क्षुरिकोपनिषत्समाप्ता ..