कृष्ण उपनिषद्

From Wikisource

Jump to: navigation, search
.. कृष्ण ..
          .. कृष्णोपनिषत् ..


          kR^ishhNopanishhat.h

Send corrections to H.P . Raghunandan hpraghu@genius.tisl.soft.net OR Shrisha Rao shrao@nyx.net OR Vijay S . Pai vijaypai@rice.edu


         .. श्री गुरुभ्यो नमः हरिः ॐ ..
     यो रामः कृष्णतामेत्य सार्वात्म्यं प्राप्य लीलया .
     अतोषयद्देव्मौनिपटलं तं नतोऽस्म्यहम्  .. १..
         ॐ भद्रं कर्णेभिरिति शान्तिः  .
         .. अथ प्रथम खंडः ..
  हरिः ॐ . श्रीमहाविष्णुं सच्चिदानन्दलक्षणं रामचन्द्रं
  दृष्ट्वा सर्वाङ्गसुन्दरं मुनयो वनवासिनो विस्मिता बभूवुः  .
  तं होचुर्नोऽवद्यमवतारान्वै गण्यन्ते आलिङ्गामो भवन्तमिति .
  भवान्तरे कृष्णावतारे यूयं गोपिका भूत्व मामालिङ्गथ
  अन्ये येऽवतारास्ते हि गोपा न स्त्रीश्च नो कुरु . अन्योन्यविग्रहं
  धार्यं तवाङ्गस्पर्शनादिह . शाश्वतस्पर्शयितास्माकं
  गृण्हीमोऽवतारान्वयम्   .. १..
  रुद्रादीनां वचः शृत्वा प्रोवाच भगवान्स्वयम्  .
  अङ्गयङ्गं करिष्यामि भवद्वाक्यं करोम्यहम्  .. २..
  मोदितास्ते सुरा सर्वे कृतकृत्याधुना वयम्  .
  यो नन्दः परमानन्दो यशोदो मुक्तिगेहिनी   .. ३..
  माया सा त्रिविधा प्रोक्ता सत्त्वराजसतामसी  .
  प्रोक्ता च सात्त्विकी रुद्रे भक्ते ब्रह्मणि राजसी  .. ४..
  तामसी दैत्यपक्षेषु माया त्रेधा ह्युदाहृता  .
  अजेया वैष्णवी माया जप्येन च सुता पुरा  .. ५..
  देवकी ब्रह्मपुत्र सा या वेदैरुपगीयते  .
  निगमो वसुदेवो यो वेदार्थः कृष्णरामयोः  .. ६..
  स्तुवते सततं यस्तु सोऽवतीर्णो महीतळे  .
  वने वृन्दावने क्रीडङ्गोपगोपीसुरैः सह   .. ७..
  गोप्यो गाव ऋचस्तस्य यष्टिका कमलासनः  .
  वंशस्तु भगवान् रुद्रः शृङ्गमिन्द्रः सगोसुरः   .. ८..
  गोकुलं वनवैकुण्ठं तापसास्तत्र ते द्रुमाः  .
  लोभक्रोधादयो दैत्याः कलिकालस्तिरस्कृतः   .. ९..
  गोपरूपो हरिः साक्षान्मायाविग्रहधारणः  .
  दुर्बोधं कुहकं तस्य मायया मोहितं जगत्   .. १०..
  दुर्जया सा सुरैः सर्वैर्धृष्टिरूपो भवेद्विजः  .
  रुद्रो येन कृतो वंशस्तस्य माया जगत्कथम्   .. ११..
  बलं ज्ञानं सुराणां वै तेषां ज्ञानं हृतं क्षणात्  .
  शेशनागो भवेद्रामः कृष्णो ब्रह्मैव शाश्वतम्  .. १२..
  अष्टावष्टसहस्रे द्वे शताधिक्यः स्त्रियस्तथा  .
  ऋचोपनिषदस्ता वै ब्रह्मरूपा ऋचः स्त्रियाः   .. १३..
  द्वेषाश्चाणूरमल्लोऽयं मत्सरो मुष्टिको जयः  .
  दर्पः कुवलयापीडो गर्वो रक्षः खगो बकः   .. १४..
  दया सा रोहिणी माता सत्यभामा धरेति वै  .
  अघासुरो माहाव्याधिः कलिः कंसः स भूपतिः   .. १५..
  शमो मित्रः सुदामा च सत्याक्रोद्धवो दमः  .
  यः शङ्खः स स्वयं विष्णुर्लक्ष्मीरुपो व्यवस्थितः   .. १६..
  दुग्धसिन्धौ समुत्पन्नो मेघघोषस्तु संस्मृतः  .
  दुग्दोदधिः कृतस्तेन भग्नभाण्डो दधिगृहे   .. १७..
  क्रीडते बालको भूत्वा पूर्ववत्सुमहोदधौ  .
  संहारार्थं च शत्रूणां रक्षणाय च संस्थितः   .. १८..
  कृपार्थे सर्वभूतानां गोप्तारं धर्ममात्मजम्  .
  यत्स्रष्टुमीश्वरेणासीतच्चक्रं ब्रह्मरूपदृक्   .. १९..
  जयन्तीसंभवो वायुश्चमरो धर्मसंज्ञितः  .
  यस्यासौ ज्वलनाभासः खड्गरूपो महेश्वरः    .. २०..
  कश्यपोलूखलः ख्यातो रज्जुर्माताऽदितिस्तथा  .
  चक्रं शङ्खं च संसिद्धिं बिन्दुं च सर्वमूर्धनि   .. २१..
  यावन्ति देवरूपाणि वदन्ति विभुधा जनाः  .
  नमन्ति देवरूपेभ्य एवमादि न संशयः   .. २२..
  गदा च काळिका साक्षात्सर्वशत्रुनिबर्हिणी  .
  धनुः शार्ङ्गं स्वमायाच शरत्कालः सुभोजनः   .. २३..
  अब्जकाण्डं जगत्बीजं धृतं पाणौ स्वलीलया  .
  गरुडो वटभाण्डीरः सुदामा नारदो मुनिः   .. २४..
  वृन्दा भक्तिः क्रिया बुद्धीः सर्वजन्तुप्रकाशिनी  .
  तस्मान्न भिन्नं नाभिन्नमाभिर्भिन्नो न वै विभुः  .
  भूमावुत्तारितं सर्वं वैकुण्ठं स्वर्गवासिनाम्   .. २५..
         .. इति प्रथम खण्डः ..
         .. अथ द्वितीयः खण्डः ..

शेषो ह वै वासुदेवात् संकर्षणो नाम जीव आसीत् .

सोऽकामयत प्रजाः सृजेयेति .

ततः प्रद्युम्नसंज्ञक आसीत् .

तस्मात् अहंकारनामानिरुद्धो हिरण्यगर्भोऽजायत .

तस्मात् दश प्रजापतयो मरीच्याद्याः स्थाणुदक्षकर्दमप्रियव्रतोत्तनपादवायवो व्यजायन्त .

तेभ्योः सर्वाणि भूतानि च .

तस्माच्छेषादेव सर्वाणि च भूतानि समुत्पद्यन्ते .

तस्मिन्नेव प्रलीयन्ते .

स एव बहुधा जायमानः सर्वान् परिपाति .

स एव काद्रवेयो व्याकरणज्योतिषादिशास्त्रणि निर्मिमाणो बहुभिर्मुमुक्षुभिरुपास्यमानोऽखिलां भुवमेकस्मिन् शीर्ष्ण सिद्धार्थवदवध्रियमाणः सर्वैर्मुनिभिः संप्रार्थ्यमानः सहस्रशिखराणि मेरोः शिरोभिरावार्यमाणो महावाय्वहंकारं निराचकार .

स एव भगवान् भगवन्तं बहुधा विप्रीयमाणः अखिलेन स्वेन रुपेण युगे युगे तेनैव जयमानः स एव सौमित्रिरैक्ष्वाकः सर्वाणि धानुषशास्त्राणि सर्वाण्यस्त्रशास्त्राणि बहुधा विप्रीयमानो रक्षांसि सर्वाणि विनिघ्नंश्चातुर्वर्ण्यधर्मान् प्रवर्तयामास .

स एव भगवान् युगसंधिकाले शारदाभ्रसंनिकाशो रौहिनेयो वासुदेवः सर्वाणि गदाद्यायुधशास्त्राणि व्याचक्षाणो नैकान् राजन्यमण्डलान्निराचिकीर्षुः भुभारमखिलं निचखान .

स एव भगवान् युगे तुरियेऽपि ब्रह्मकुले जायमानः सर्व उपनिषदः उद्दिधीर्षुः सर्वाणि धर्मशास्त्राणि विस्तारयिष्णुः सर्वानपि जनान् संतारयिष्णुः सर्वानपि वैष्णवान् धर्मान् विजृम्भयन् सर्वानपि पाषण्डान् निचखान .

स एष जगदन्तर्यामी .

स एष सर्वात्मकः .

स एव मुमुक्षुभिर्ध्येयः .

स एव मोक्षप्रदः .

एतं स्मृत्वा सर्वेभ्यः पापेभ्यो मुच्यते .

तन्नाम संकीर्तयन् विष्णुसायुज्यं गच्छति .

तदेतद् दिवा अधीयानः रात्रिकृतं पापं नाशयति .

नक्तमधीयानो दिवसकृतं पापं नाशयति .

तदेतद्वेदानां रहस्यं तदेतदुपनिषदां रहस्यम् एतदधीयानः सर्वत्रतुफलं लभते शान्तिमेति मनःशुद्धिमेति सर्वतीर्थफलं लभते य एवं वेद देहबन्धाद्विमुच्यते इत्युपनिषत् ..

         .. इति द्वितीयः खण्डः ..
         हरिः ॐ तत्सत्
         ॐ भद्रं कर्णेभिरिति शान्तिः
         .. इति कृष्णोपनिषत्समाप्ता ..
         .. भारतीरमणमुख्यप्राणंतर्गत श्रीकृष्णार्पणमस्तु ..