कठरुद्र उपनिषद्

From Wikisource

Jump to: navigation, search

.. कठरुद्रोपनिषत् .. परिव्रज्याधर्मपूगालंकारा यत्पदं ययुः . तदहं कठविद्यार्थं रामचन्द्रपदं भजे .. ॐ सहनाववतु सह नौ भुनक्तु सह वीर्यं करवावहै .. तेजस्विनावधीतमस्तु मा विद्विषावहै .. ॐ शान्तिः शान्तिः शान्तिः .. हरिः ॐ .. देवा ह वै भगवन्तमब्रुवन्नधीहि भगवन्ब्रह्मविद्याम् . स प्रजापतिरब्रवीत्सशिखान्केशान्निष्कृत्य विसृज्य यज्ञोपवीतं निष्कृत्य पुत्रं दृष्ट्वा त्वं ब्रह्मा त्वं यज्ञस्त्वं वषट्कार- स्त्वमोङ्कारस्त्वं स्वाहा त्वं स्वधा त्वं धाता त्वं विधाता त्वं प्रतिष्ठाऽसीति वदेत् . अथ पुत्रो वदत्यहं ब्रह्माहं यज्ञोऽहं वषट्कारोऽहमोंकारोऽहं स्वाहाहं स्वधाहं धाताहं विधाताहं त्वष्टाहं प्रतिष्ठास्मीति . तान्येतान्यनुव्रजन्नाश्रुमापातयेत् . यदश्रुमापातयेत्प्रजां विच्छिन्द्यात् . प्रदक्षिणमावृत्त्यैतच्चैतच्चानवेक्षमाणाः प्रत्यायन्ति . स स्वर्ग्यो भवति ब्रह्मचारी वेदमधीत्य वेदोक्ताचरितब्रह्मचर्यो दारानाहृत्य पुत्रानुत्पाद्य ताननुपादिभिर्वितत्येष्ट्वा च शक्तितो यज्ञैः . तस्य संन्यासो गुरुभिरनुज्ञातस्य बान्धवैश्च . सोऽरण्यं परेत्य द्वादशरात्रं पयसाग्निहोत्रं जुहुयात् . द्वादशरात्रं पयोभक्षा स्यात् . द्वादशरात्रस्यान्ते अग्नये वैश्वानराय प्रजापतये च प्राजापत्यं चरुं वैष्णवं त्रिकपालमग्निं संस्थितानि पूर्वाणि दारुपात्राण्याग्नौ जुहुयात् . मृण्मयान्यप्सु जुहुयात् . तैजसानि गुरवे दद्यात् . मा त्वं मामपहाय परागाः . नाहं त्वामपहाय परागामिति . गार्हपत्यदक्षिणाग्न्याहवनीयेष्वरणिदेशाद्भस्ममुष्टिं पिबेदित्येके . सशिखान्केशान्निष्कृत्य विसृज्य यज्ञोपवीतं भूःस्वाहेत्यप्सु जुहुयात् . अत ऊर्ध्वमनशनमपां प्रवेश- मग्निप्रवेशं वीराध्वानं महाप्रस्थानं वृद्धाश्रमं वा गच्छेत् . पयसा यं प्राश्नीयात्सोऽस्य सायंहोमः . यत्प्रातः सोऽयं प्रातः . यद्दर्शे तद्दर्शनम् . यत्पौर्णमास्ये तत्पौर्णमास्यम् . यद्वसन्ते केशश्मश्रुलोमनखानि वापयेत्सोऽस्याग्निष्टोमः . संन्यस्याग्निं न पुनरावर्तयेन्मृत्युर्जयमावहमित्यध्यात्म- मन्त्रान्पठेत् . स्वस्ति सर्वजीवेभ्य इत्युक्त्वात्मानमनन्यं ध्यायन् तदूर्ध्वबाहुर्विमुक्तमार्गो भवेत् . अनिकेतश्चरेत् . भिक्षाशी यत्किंचिन्नाद्यात् . लवैकं न धावयेज्जन्तुसंरक्षणार्थं वर्षवर्जमिति . तदपि श्लोका भवन्ति . कुण्डिकां चमसं शिक्यं त्रिविष्टमुपानहौ . शीतोपघातिनीं कन्थां कौपीनाच्छादनं तथा .. १.. पवित्रं ज्ञानशाटीं च उत्तरासङ्गमेव च . यज्ञोपवीतं वेदांश्च सर्वं तद्वर्जयेद्यतिः .. २.. स्नानं पानं तथा शौचमद्भिः पूताभिराचरेत् . नदीपुलिनशायी स्याद्देवागारेषु वा स्वपेत् .. ३.. नात्यर्थं सुखदुःखाभ्यां शरीरमुपतायेत् . स्तूयमानो न तुषेत निन्दितो न शपेत्परान् .. ४.. ब्रह्मचर्येण संतिष्ठेदप्रमादेन मस्करी . दर्शनं स्पर्शनं केलिः कीर्तनं गुह्यभाषणम् .. ५.. संकल्पोऽध्यवसायश्च क्रियान्निर्वृत्तिरेव च . एतन्मैथुनमष्टाङ्गं प्रवदन्ति मनीषिणः .. ६.. विपरीतं ब्रह्मचर्यमनुष्ठेयं मुमुक्षुभिः . यज्जगद्भासकं भानं नित्यं भाति स्वतः स्फुरत् .. ७.. स एव जगतः साक्षी सर्वात्मा विमलाकृतिः . प्रतिष्ठा सर्वभूतानां प्रज्ञानघनलक्षणः .. ८.. न कर्मणा न प्रजया न चान्येनापि केचित् . ब्रह्मवेदनमात्रेण ब्रह्माप्नोत्येव मानवः .. ९.. तद्विद्या विषयं ब्रह्म सत्यज्ञानसुखाद्वयम् . संसारे च गुहावाच्ये मायाज्ञानादिसंज्ञके .. १०.. निहितं ब्रह्म यो वेद परमे व्योम्नि संज्ञिते . सोऽश्नुते सकलान्कामान्क्रमेणैव द्विजोत्तमः .. ११.. प्रत्यगात्मानमज्ञानमायाशक्तेश्च साक्षिणम् . एकं ब्रह्माहमस्मीति ब्रह्मैव भवति स्वयम् .. १२.. ब्रह्मभूतात्मनस्तस्मादेतस्माच्छ्क्तिमिश्रितात् . अपञ्चीकृत आकाशसंभूतो रज्जुसर्पवत् .. १३.. आकाशाद्वायुसंज्ञस्तु स्पर्शोऽपञ्चीकृतः पुनः . वायोरग्निस्तथा चाग्नेराप अद्भ्यो वसुन्धरा .. १४.. तानि भूतानि सूक्ष्माणि पञ्चीकृत्येश्वरस्तदा . तेभ्य एव विसृष्टं तद्ब्रह्माण्डादि शिवेन ह .. १५.. ब्रह्माण्डस्योदरे देवा दानवा यक्षकिन्नराः . मनुष्याः पशुपक्ष्याद्यास्तत्तत्कर्मानुसारतः .. १६.. अस्थिस्नाय्वादिरूपोऽयं शरीरं भाति देहिनाम् . योऽयमन्नमयो ह्यात्मा भाति सर्वशरीरिणः .. १७.. ततः प्राणमयो ह्यात्मा विभिन्नश्चान्तरः स्थितः . ततो विज्ञान आत्मा तु ततोऽन्यश्चान्तरः स्वतः .. १८.. आनन्दमय आत्मा तु ततोऽन्यश्चान्तरस्थितः . योऽयमन्नमयः सोऽयं पूर्णः प्राणमयेन तु .. १९.. मनोमयेन प्राणोऽपि तथा पूर्णः स्वभावतः . तथा मनोमयो ह्यात्मा पूर्णो ज्ञानमयेन तु .. २०.. आनन्देन सदा पूर्णः सदा ज्ञानमयः सुखम् . तथानन्दमयश्चापि ब्रह्मणोऽन्येन साक्षिणा .. २१.. सर्वान्तरेण पूर्णश्च ब्रह्म नान्येन केनचित् . यदिदं ब्रह्मपुच्छाख्यं सत्यज्ञानद्वयात्मकम् .. २२.. सारमेव रसं लब्ध्वा साक्षाद्देही सनातनम् . सुखी भवति सर्वत्र अन्यथा सुखता कुतः .. २३.. असत्यस्मिन्परानन्दे स्वात्मभूतेऽखिलात्मनाम् . को जीवति नरो जन्तुः को वा नित्यं विचेष्टते .. २४.. तस्मात्सर्वात्मना चित्ते भासमानो ह्यसौ नरः . आनन्दयति दुःखाढ्यं जीवात्मानं सदा जनः .. २५.. यदा ह्येवैष एतस्मिन्नदृश्यत्वादिलक्षणे . निर्भेदं परमाद्वैतं विन्दते च महायतिः .. २६.. तदेवाभयमत्यन्तकल्याणं परमामृतम् . सद्रूपं परमं ब्रह्म त्रिपरिच्छेदवर्जितम् .. २७.. यदा ह्येवैष एतस्मिन्नल्पमप्यन्तरं नरः . विजानाति तदा तस्य भयं स्यान्नात्र संशयः .. २८.. अस्यैवानन्दकोशेन स्तम्बान्ता विष्णुपूर्वकाः . भवन्ति सुखिनो नित्यं तारतम्यक्रमेण तु .. २९.. तत्तत्पदविरक्तस्य श्रोत्रियस्य प्रसादिनः . स्वरूपभूत आनन्दः स्वयं भाति परे यथा .. ३०.. निमित्तं किंचिदाश्रित्य खलु शब्दः प्रवर्तते . यतो वाचो निवर्तन्ते निमित्तानामभवतः .. ३१.. निर्विशेषे परानन्दे कथं शब्दः प्रवर्तते . तस्मादेतन्मनः सूक्ष्मं व्यावृतं सर्वगोचरम् .. ३२.. यस्माच्छ्रोत्रत्वगक्ष्यादिखादिकर्मेन्द्रियाणि च . व्यावृत्तानि परं प्राप्तुं न समर्थानि तानि तु .. ३३.. तद्ब्रह्मानन्दमद्वन्द्वं निर्गुणं सत्यचिद्घनम् . विदित्वा स्वात्मरूपेण न बिभेति कुतश्चन .. ३४.. एवं यस्तु विजानाति स्वगुरोरुपदेशतः . स साध्वासाधुकर्मभ्यां सदा न तपति प्रभुः .. ३५.. ताप्यतापकरूपेण विभातमखिलं जगत् . प्रत्यगात्मतया भाति ज्ञानाद्वेदान्तवाक्यजात् .. ३६.. शुद्धमीश्वरचैतन्यं जीवचैतन्यमेव च . प्रमाता च प्रमाणं च प्रमेयं च फलं तथा .. ३७.. इति सप्तविधं प्रोक्तं भिद्यते व्यवहारतः . मायोपाधिविनिर्मुक्तं शुद्धमित्यभिधीयते .. ३८.. मायासंबन्धतश्चेशो जीवोऽविद्यावशस्तथा . अन्तःकरणसंबन्धात्प्रमातेत्यभिधीयते .. ३९.. तथा तद्वृत्तिसंबन्धात्प्रमाणमिति कथ्यते . अज्ञातमपि चैतन्यं प्रमेयमिति कथ्यते .. ४०.. तथा ज्ञातं च चैतन्यं फलमित्यभिधीयते . सर्वोपाधिविनिर्मुक्तं स्वात्मानं भावयेत्सुधीः .. ४१.. एवं यो वेद तत्त्वेन ब्रह्मभूयाय कल्पते . सर्ववेदान्तसिद्धान्तसारं वच्मि यथार्थतः .. ४२.. स्वयं मृत्वा स्वयं भूत्वा स्वयमेवावशिष्यते .. इत्युपनिषत् .. ॐ सहनाववतु सह नौ भुनक्तु सह वीर्यं करवावहै .. तेजस्विनावधीतमस्तु मा विद्विषावहै .. ॐ शान्तिः शान्तिः शान्तिः .. हरिः ॐ तत्सत् .. इति कठरुद्रोपनिषत्समाप्ता ..