एकाक्षर उपनिषद्
From Wikisource
.. एकाक्षरोपनिषत् .. एकाक्षरपदारूढं सर्वात्मकमखण्डितम् . सर्ववर्जितचिन्मात्रं त्रिपान्नारायणं भजे .. ॐ सह नाववतु सह नौ भुनक्तु . सह वीर्यं करवावहै . तेजस्विनावधीतमस्तु मा विद्विषावहै .. ॐ शान्तिः शान्तिः शान्तिः .. हरिः ॐ एकाक्षरं त्वक्षरेऽत्रास्ति सोमे
सुषुम्नायां चेह दृढी स एकः .
त्वं विश्वभूर्भूतपतिः पुराणः
पर्जन्य एको भुवनस्य गोप्ता .. १..
विश्वे निमग्नपदवीः कवीनां
त्वं जातवेदो भुवनस्य नाथः .
अजातमग्रे स हिरण्यरेता
यज्ञैस्त्वमेवैकविभुः पुराणः .. २..
प्राणः प्रसूतिर्भुवनस्य योनि-
र्व्याप्तं त्वया एकपदेन विश्वम् .
त्वं विश्वभूर्योनिपारः स्वगर्भे
कुमार एको विशिखः सुधन्वा .. ३..
वितत्य बाणं तरुणार्कवर्णं
व्योमान्तरे भासि हिरण्यगर्भः .
भासा त्वया व्योम्नि कृतः सुतार्क्ष्य-
स्तवं वै कुमारस्त्वमरिष्टनेमिः .. ४..
त्वं वज्रभृद्भूतपतिस्त्वमेव .
कामः प्रजानां निहितोऽसि सोमे .
स्वाहा स्वधा यच्च वषट् करोति
रुद्रः पशूनां गुहया निमग्नः .. ५..
धाता विधाता पवनः सुपर्णो
विष्णुर्वराहो रजनी रहश्च .
भूतं भविष्यत्प्रभवः क्रियाश्च .
कालः क्रमस्त्वं परमाक्षरं च .. ६..
ऋचो यजूंशि प्रसवन्ति वक्त्रा-
त्सामानि सम्राड्वसुवन्तरिक्षम् .
त्वं यज्ञनेता हुतभुग्विभुश्च
रुद्रास्तथ दैत्यगणा वसुश्च .. ७..
स एष देवोऽम्बरगश्च चक्रे
अन्येऽभ्यधिष्ठेत तमो निरुन्ध्यः .
हिरण्मयं यस्य विभाति सर्वं
व्योमान्तरे रश्मिमिवांशुनाभिः .. ८..
स सर्ववेत्ता भुवनस्य गोप्ता
ताभिः प्रजानां निहिता जनानाम् .
प्रोता त्वमोता विचितिः क्रमाणां
प्रजापतिश्छन्दमयो विगर्भः .. ९..
सामैश्चिदन्तो विरजश्च बाहूं
हिरण्मयं वेदविदां वरिष्ठम् .
यमध्वरे ब्रह्मविदः स्तुवन्ति
सामैर्यजुर्भिः क्रतुभिस्त्वमेव .. १०..
त्वं स्त्री पुमांस्त्वं च कुमार एक-
स्त्वं वै कुमारी ह्यथ भूस्त्वमेव .
त्वमेव धाता वरुणश्च राजा
त्वं वत्सरोऽग्न्यर्यम एव सर्वम् .. ११..
मित्रः सुपर्णश्चन्द्र इन्द्रो रुद्र-
स्त्वष्टा विष्णुः सविता गोपतिस्त्वम् .
त्वं विष्णुर्भूतानि तु त्रासि दैत्यां-
स्त्वयावृतं जगदुद्भवगर्भः .. १२..
त्वं भूर्भुवः स्वस्त्वं हि
स्वयंभूरथ विश्वतोमुखः .
य एवं नित्यं वेदयते गुहाशयं
प्रभुं पुराणं सर्वभूतं हिरण्मयम् .. १३..
हिरण्मयं बुद्धिमतां परां गतिं
स बुद्धिमान्बुद्धिमतीत्य तिष्ठतीत्युपनिषत् ..
ॐ सह नाववतु सह नौ भुनक्तु . सह वीर्यं करवावहै . तेजस्विनावधीतमस्तु मा विद्विषावहै .. ॐ शान्तिः शान्तिः शान्तिः .. इत्येकाक्षरोपनिषत्समाप्ता ..