ऋग्वेद: सूक्तं १.८६

From Wikisource

Jump to: navigation, search

ऋग्वेद: सूक्तं १.८६


मरुतो यस्य हि क्षये पाथा दिवो विमहसः ।
स सुगोपातमो जनः ॥१॥
यज्ञैर्वा यज्ञवाहसो विप्रस्य वा मतीनाम् ।
मरुतः शृणुता हवम् ॥२॥
उत वा यस्य वाजिनोऽनु विप्रमतक्षत ।
स गन्ता गोमति व्रजे ॥३॥
अस्य वीरस्य बर्हिषि सुतः सोमो दिविष्टिषु ।
उक्थं मदश्च शस्यते ॥४॥
अस्य श्रोषन्त्वा भुवो विश्वा यश्चर्षणीरभि ।
सूरं चित्सस्रुषीरिषः ॥५॥
पूर्वीभिर्हि ददाशिम शरद्भिर्मरुतो वयम् ।
अवोभिश्चर्षणीनाम् ॥६॥
सुभगः स प्रयज्यवो मरुतो अस्तु मर्त्यः ।
यस्य प्रयांसि पर्षथ ॥७॥
शशमानस्य वा नरः स्वेदस्य सत्यशवसः ।
विदा कामस्य वेनतः ॥८॥
यूयं तत्सत्यशवस आविष्कर्त महित्वना ।
विध्यता विद्युता रक्षः ॥९॥
गूहता गुह्यं तमो वि यात विश्वमत्रिणम् ।
ज्योतिष्कर्ता यदुश्मसि ॥१०॥