ऋग्वेद: सूक्तं १.८२
From Wikisource
ऋग्वेद: सूक्तं १.८२
उपो षु शृणुही गिरो मघवन्मातथा इव । यदा नः सूनृतावतः कर आदर्थयास इद्योजा न्वैन्द्र ते हरी ॥१॥ अक्षन्नमीमदन्त ह्यव प्रिया अधूषत । अस्तोषत स्वभानवो विप्रा नविष्ठया मती योजा न्वैन्द्र ते हरी ॥२॥ सुसंदृशं त्वा वयं मघवन्वन्दिषीमहि । प्र नूनं पूर्णवन्धुर स्तुतो याहि वशाँ अनु योजा न्वैन्द्र ते हरी ॥३॥ स घा तं वृषणं रथमधि तिष्ठाति गोविदम् । यः पात्रं हारियोजनं पूर्णमिन्द्र चिकेतति योजा न्वैन्द्र ते हरी ॥४॥ युक्तस्ते अस्तु दक्षिण उत सव्यः शतक्रतो । तेन जायामुप प्रियां मन्दानो याह्यन्धसो योजा न्वैन्द्र ते हरी ॥५॥ युनज्मि ते ब्रह्मणा केशिना हरी उप प्र याहि दधिषे गभस्त्योः । उत्त्वा सुतासो रभसा अमन्दिषुः पूषण्वान्वज्रिन्समु पत्न्यामदः ॥६॥