ऋग्वेद: सूक्तं १.७७
From Wikisource
ऋग्वेद: सूक्तं १.७७
कथा दाशेमाग्नये कास्मै देवजुष्टोच्यते भामिने गीः । यो मर्त्येष्वमृत ऋतावा होता यजिष्ठ इत्कृणोति देवान् ॥१॥ यो अध्वरेषु शंतम ऋतावा होता तमू नमोभिरा कृणुध्वम् । अग्निर्यद्वेर्मर्ताय देवान्स चा बोधाति मनसा यजाति ॥२॥ स हि क्रतुः स मर्यः स साधुर्मित्रो न भूदद्भुतस्य रथीः । तं मेधेषु प्रथमं देवयन्तीर्विश उप ब्रुवते दस्ममारीः ॥३॥ स नो नृणां नृतमो रिशादा अग्निर्गिरोऽवसा वेतु धीतिम् । तना च ये मघवानः शविष्ठा वाजप्रसूता इषयन्त मन्म ॥४॥ एवाग्निर्गोतमेभिरृतावा विप्रेभिरस्तोष्ट जातवेदाः । स एषु द्युम्नं पीपयत्स वाजं स पुष्टिं याति जोषमा चिकित्वान् ॥५॥