ऋग्वेद: सूक्तं १.७६
From Wikisource
ऋग्वेद: सूक्तं १.७६
का त उपेतिर्मनसो वराय भुवदग्ने शंतमा का मनीषा । को वा यज्ञैः परि दक्षं त आप केन वा ते मनसा दाशेम ॥१॥ एह्यग्न इह होता नि षीदादब्धः सु पुरएता भवा नः । अवतां त्वा रोदसी विश्वमिन्वे यजा महे सौमनसाय देवान् ॥२॥ प्र सु विश्वान्रक्षसो धक्ष्यग्ने भवा यज्ञानामभिशस्तिपावा । अथा वह सोमपतिं हरिभ्यामातिथ्यमस्मै चकृमा सुदाव्ने ॥३॥ प्रजावता वचसा वह्निरासा च हुवे नि च सत्सीह देवैः । वेषि होत्रमुत पोत्रं यजत्र बोधि प्रयन्तर्जनितर्वसूनाम् ॥४॥ यथा विप्रस्य मनुषो हविर्भिर्देवाँ अयजः कविभिः कविः सन् । एवा होतः सत्यतर त्वमद्याग्ने मन्द्रया जुह्वा यजस्व ॥५॥