ऋग्वेद: सूक्तं १.७५

From Wikisource

Jump to: navigation, search

ऋग्वेद: सूक्तं १.७५


जुषस्व सप्रथस्तमं वचो देवप्सरस्तमम् ।
हव्या जुह्वान आसनि ॥१॥
अथा ते अङ्गिरस्तमाग्ने वेधस्तम प्रियम् ।
वोचेम ब्रह्म सानसि ॥२॥
कस्ते जामिर्जनानामग्ने को दाश्वध्वरः ।
को ह कस्मिन्नसि श्रितः ॥३॥
त्वं जामिर्जनानामग्ने मित्रो असि प्रियः ।
सखा सखिभ्य ईड्यः ॥४॥
यजा नो मित्रावरुणा यजा देवाँ ऋतं बृहत् ।
अग्ने यक्षि स्वं दमम् ॥५॥