ऋग्वेद: सूक्तं १.७१
From Wikisource
ऋग्वेद: सूक्तं १.७१
उप प्र जिन्वन्नुशतीरुशन्तं पतिं न नित्यं जनयः सनीळाः । स्वसारः श्यावीमरुषीमजुष्रञ्चित्रमुच्छन्तीमुषसं न गावः ॥१॥ वीळु चिद्दृळ्हा पितरो न उक्थैरद्रिं रुजन्नङ्गिरसो रवेण । चक्रुर्दिवो बृहतो गातुमस्मे अहः स्वर्विविदुः केतुमुस्राः ॥२॥ दधन्नृतं धनयन्नस्य धीतिमादिदर्यो दिधिष्वो विभृत्राः । अतृष्यन्तीरपसो यन्त्यच्छा देवाञ्जन्म प्रयसा वर्धयन्तीः ॥३॥ मथीद्यदीं विभृतो मातरिश्वा गृहेगृहे श्येतो जेन्यो भूत् । आदीं राज्ञे न सहीयसे सचा सन्ना दूत्यं भृगवाणो विवाय ॥४॥ महे यत्पित्र ईं रसं दिवे करव त्सरत्पृशन्यश्चिकित्वान् । सृजदस्ता धृषता दिद्युमस्मै स्वायां देवो दुहितरि त्विषिं धात् ॥५॥ स्व आ यस्तुभ्यं दम आ विभाति नमो वा दाशादुशतो अनु द्यून् । वर्धो अग्ने वयो अस्य द्विबर्हा यासद्राया सरथं यं जुनासि ॥६॥ अग्निं विश्वा अभि पृक्षः सचन्ते समुद्रं न स्रवतः सप्त यह्वीः । न जामिभिर्वि चिकिते वयो नो विदा देवेषु प्रमतिं चिकित्वान् ॥७॥ आ यदिषे नृपतिं तेज आनट् छुचि रेतो निषिक्तं द्यौरभीके । अग्निः शर्धमनवद्यं युवानं स्वाध्यं जनयत्सूदयच्च ॥८॥ मनो न योऽध्वनः सद्य एत्येकः सत्रा सूरो वस्व ईशे । राजाना मित्रावरुणा सुपाणी गोषु प्रियममृतं रक्षमाणा ॥९॥ मा नो अग्ने सख्या पित्र्याणि प्र मर्षिष्ठा अभि विदुष्कविः सन् । नभो न रूपं जरिमा मिनाति पुरा तस्या अभिशस्तेरधीहि ॥१०॥