ऋग्वेद: सूक्तं १.७०

From Wikisource

Jump to: navigation, search

ऋग्वेद: सूक्तं १.७०


वनेम पूर्वीरर्यो मनीषा अग्निः सुशोको विश्वान्यश्याः ॥१॥
आ दैव्यानि व्रता चिकित्वाना मानुषस्य जनस्य जन्म ॥२॥
गर्भो यो अपां गर्भो वनानां गर्भश्च स्थातां गर्भश्चरथाम् ॥३॥
अद्रौ चिदस्मा अन्तर्दुरोणे विशां न विश्वो अमृतः स्वाधीः ॥४॥
स हि क्षपावाँ अग्नी रयीणां दाशद्यो अस्मा अरं सूक्तैः ॥५॥
एता चिकित्वो भूमा नि पाहि देवानां जन्म मर्ताँश्च विद्वान् ॥६॥
वर्धान्यं पूर्वीः क्षपो विरूपा स्थातुश्च रथमृतप्रवीतम् ॥७॥
अराधि होता स्वर्निषत्तः कृण्वन्विश्वान्यपांसि सत्या ॥८॥
गोषु प्रशस्तिं वनेषु धिषे भरन्त विश्वे बलिं स्वर्णः ॥९॥
वि त्वा नरः पुरुत्रा सपर्यन्पितुर्न जिव्रेर्वि वेदो भरन्त ॥१०॥
साधुर्न गृध्नुरस्तेव शूरो यातेव भीमस्त्वेषः समत्सु ॥११॥