ऋग्वेद: सूक्तं १.६९
From Wikisource
ऋग्वेद: सूक्तं १.६९
शुक्रः शुशुक्वाँ उषो न जारः पप्रा समीची दिवो न ज्योतिः ॥१॥ परि प्रजातः क्रत्वा बभूथ भुवो देवानां पिता पुत्रः सन् ॥२॥ वेधा अदृप्तो अग्निर्विजानन्नूधर्न गोनां स्वाद्मा पितूनाम् ॥३॥ जने न शेव आहूर्यः सन्मध्ये निषत्तो रण्वो दुरोणे ॥४॥ पुत्रो न जातो रण्वो दुरोणे वाजी न प्रीतो विशो वि तारीत् ॥५॥ विशो यदह्वे नृभिः सनीळा अग्निर्देवत्वा विश्वान्यश्याः ॥६॥ नकिष्ट एता व्रता मिनन्ति नृभ्यो यदेभ्यः श्रुष्टिं चकर्थ ॥७॥ तत्तु ते दंसो यदहन्समानैर्नृभिर्यद्युक्तो विवे रपांसि ॥८॥ उषो न जारो विभावोस्रः संज्ञातरूपश्चिकेतदस्मै ॥९॥ त्मना वहन्तो दुरो व्यृण्वन्नवन्त विश्वे स्वर्दृशीके ॥१०॥ *[[ऋग्वेद:]]