ऋग्वेद: सूक्तं १.६८

From Wikisource

Jump to: navigation, search

ऋग्वेद: सूक्तं १.६८


श्रीणन्नुप स्थाद्दिवं भुरण्यु स्थातुश्चरथमक्तून्व्यूर्णोत् ॥१॥
परि यदेषामेको विश्वेषां भुवद्देवो देवानां महित्वा ॥२॥
आदित्ते विश्वे क्रतुं जुषन्त शुष्काद्यद्देव जीवो जनिष्ठाः ॥३॥
भजन्त विश्वे देवत्वं नाम ऋतं सपन्तो अमृतमेवैः ॥४॥
ऋतस्य प्रेषा ऋतस्य धीतिर्विश्वायुर्विश्वे अपांसि चक्रुः ॥५॥
यस्तुभ्यं दाशाद्यो वा ते शिक्षात्तस्मै चिकित्वान्रयिं दयस्व ॥६॥
होता निषत्तो मनोरपत्ये स चिन्न्वासां पती रयीणाम् ॥७॥
इच्छन्त रेतो मिथस्तनूषु सं जानत स्वैर्दक्षैरमूराः ॥८॥
पितुर्न पुत्राः क्रतुं जुषन्त श्रोषन्ये अस्य शासं तुरासः ॥९॥
वि राय और्णोद्दुरः पुरुक्षुः पिपेश नाकं स्तृभिर्दमूनाः ॥१०॥




*[[ऋग्वेद:]]