ऋग्वेद: सूक्तं १.६७
From Wikisource
ऋग्वेद: सूक्तं १.६७
वनेषु जायुर्मर्तेषु मित्रो वृणीते श्रुष्टिं राजेवाजुर्यम् ॥१॥ क्षेमो न साधुः क्रतुर्न भद्रो भुवत्स्वाधीर्होता हव्यवाट् ॥२॥ हस्ते दधानो नृम्णा विश्वान्यमे देवान्धाद्गुहा निषीदन् ॥३॥ विदन्तीमत्र नरो धियंधा हृदा यत्तष्टान्मन्त्राँ अशंसन् ॥४॥ अजो न क्षां दाधार पृथिवीं तस्तम्भ द्यां मन्त्रेभिः सत्यैः ॥५॥ प्रिया पदानि पश्वो नि पाहि विश्वायुरग्ने गुहा गुहं गाः ॥६॥ य ईं चिकेत गुहा भवन्तमा यः ससाद धारामृतस्य ॥७॥ वि ये चृतन्त्यृता सपन्त आदिद्वसूनि प्र ववाचास्मै ॥८॥ वि यो वीरुत्सु रोधन्महित्वोत प्रजा उत प्रसूष्वन्तः ॥९॥ चित्तिरपां दमे विश्वायुः सद्मेव धीराः सम्माय चक्रुः ॥१०॥ *[[ऋग्वेद:]]