आत्मा उपनिषद्
From Wikisource
.. आत्मोपनिषत् .. यत्र नात्मप्रपञ्चोऽयमपह्नवपदं गतः . प्रतियोगिविनिर्मुक्तः परमात्मावशिष्यते .. ॐ भद्रं कर्णेभिः श्रुणुयाम देवाः . भद्रं पश्येमाक्षभिर्यजत्राः . स्थिरैरङ्गैस्तुष्टुवाँसस्तनूभिः . व्यशेम देवहितं यदायुः .. ॐ शान्तिः शान्तिः शान्तिः .. ॐ अथाङ्गिरास्त्रिविधः पुरुषोऽजायतात्मान्तरात्मा परमात्मा चेति . त्वक्चर्ममांसरोमाङ्गुष्ठाङ्गुल्यः पृष्ठवंशनखगुल्फोदर- नाभिमेढ्रकटूरुकपोलश्रोत्रभ्रूललाटबाहुपार्श्वशिरोऽक्षीणि भवन्ति जायते म्रियत इत्येष आत्मा . अथान्तरात्मानाम पृथिव्यापस्तेजोवायुराकाशमिच्छाद्वेषसुखदुःख- काममोहविकल्पानादिस्मृतिलिङ्गोदात्तानुदात्तह्र्स्वदीर्घप्लुतः खलितगर्जितस्फुटितमुदितनृत्तगीतवादित्रप्रलयविजृम्भितादिभिः श्रोता घ्राता रसयिता नेता कर्ता विज्ञानात्मा पुरुषः पुराणन्यायमीमांसाधर्मशास्त्राणीति श्रवणघ्राणाकर्षणकर्मविशेषणं करोत्येषोऽन्तरात्मा . अथ परमात्मा नाम यथाक्षर उपासनीयः . स च प्राणायामप्रत्याहारधार्णाध्यानसमाधियोगानुमानात्मचिन्तकवटकणिका वा श्यामाकतण्डुलो वा वालाग्रशतसहस्रविकल्पनाभिः स लभ्यते नोपलभ्यते न जायते न म्रियते न शुष्यति न क्लिद्यते न दह्यते न कम्पते न भिद्यते न च्छिद्यते निर्गुणः साक्षिभूतः शुद्धो निरवयवात्मा केवलः सूक्ष्मो निर्ममो निरञ्जनो निर्विकारः शब्दस्पर्शरूपरसगन्धवर्जितो निर्विकल्पो निराकाङ्क्षः सर्वव्यापी सोऽचिन्त्यो निर्वर्ण्यश्च पुनात्यशुद्धान्यपूतानि . निष्क्रियस्तस्य संसारो नास्ति . आत्मसंज्ञः शिवः शुद्ध एक एवाद्वयः सदा . ब्रह्मरूपतया ब्रह्म केवलं प्रतिभासते .. १.. जगद्रूपतयाप्येतद्ब्रह्मैव प्रतिभासते . विद्याविद्यादिभेदेन भावाभावादिभेदतः .. २.. गुरुशिष्यादिभेदेन ब्रह्मैव प्रतिभासते . ब्रह्मैव केवलं शुद्धं विद्यते तत्त्वदर्शने .. ३.. न च विद्या न चाविद्या न जगच्च न चापरम् . सत्यत्वेन जगद्भानं संसारस्य प्रवर्तकम् .. ४.. असत्यत्वेन भानं तु संसारस्य निवर्तकम् . घटोऽयमिति विज्ञातुं नियमः कोन्वपेक्षते .. ५.. विना प्रमाणसुष्ठुत्वं यस्मिन्सति पदार्थधीः . अयमात्मा नित्यसिद्धः प्रमाणे सति भासते .. ६.. न देशं नापि कालं वा न शुद्धिं वाप्यपेक्षते . देवदत्तोऽहमित्येतद्विज्ञानं निरपेक्षकम् .. ७.. तद्वद्ब्रह्मविदोऽप्यस्यब्रह्माहमिति वेदनम् . भानुनेव जगत्सर्वं भास्यते यस्य तेजसा .. ८.. अनात्मकमसत्तुच्छं किं नु तस्यावभासकम् . वेदशास्त्रपुराणानि भूतानि सकलान्यपि .. ९.. येनार्थवन्ति तं किं नु विज्ञातारं प्रकाशयेत् . क्षुधां देहव्यथां त्यक्त्वा बालः क्रीडति वस्तुनि .. १०.. तथैव विद्वान्रमते निर्ममो निरहं सुखी . कामान्निष्कामरूपी संचरत्येकचरो मुनिः .. ११.. स्वात्मनैव सदा तुष्टः स्वयं सर्वात्मना स्थितः . निर्धनोऽपि सदा तुष्टोऽप्यसहायो महाबलः .. १२.. नित्यतृप्तोऽप्यभुञ्जानोऽप्यसमः समदर्शनः . कुर्वन्नपि न कुर्वाणश्चाभोक्ता फलभोग्यपि .. १३.. शरीर्यप्यशरीर्येष परिच्छिन्नोऽपि सर्वगः . अशरीरं सदा सन्तमिदं ब्रह्मविदं क्वचित् .. १४.. प्रियाप्रिये न स्पृशतस्तथैव च शुभा शुभे . तमसा ग्रस्तवद्भानादग्रस्तोऽपि रविर्जनैः .. १५.. ग्रस्त इत्युच्यते भ्रान्त्या ह्यज्ञात्वा वस्तुलक्षणम् . तद्वद्देहादिबन्धेभ्यो विमुक्तं ब्रह्मवित्तमम् .. १६.. पश्यन्ति देहिवन्मूढाः शरीराभासदर्शनात् . अहिनिर्ल्वयनीवायं मुक्तदेहस्तु तिष्ठति .. १७.. इतस्ततश्चाल्यमानो यत्किञ्चित्प्राणवायुना . स्रोतसा नीयते दारु यथा निम्नोन्नतस्थलम् .. १८.. दैवेन नीयते देहो यथा कालोपभुक्तिषु . लक्ष्यालक्ष्यगतिं त्यक्त्वा यस्तिष्ठेत्केवलात्मना .. १९.. शिव एव स्वयं साक्षादयं ब्रह्मविदुत्तमः . जीवन्नेव सदा मुक्तः कृतार्थो ब्रह्मवित्तमः .. २०.. उपाधिनाशाद्ब्रह्मैव सद्ब्रह्माप्येति निर्द्वयम् . शैलूषो वेषसद्भावाभावयोश्च यथा पुमान् .. २१.. तथैव ब्रह्मविच्छ्रेष्ठः सदा ब्रह्मैव नापरः . घटे नष्टे यथा व्योम व्योमैव भवति स्वयम् .. २२.. तथैवोपाधिविलये ब्रह्मैव ब्रह्मवित्स्वयम् . क्षीरं क्षीरे यथा क्षिप्तं तैलं तैले जलं जले .. २३.. संयुक्तमेकतां याति तथात्मन्यात्मविन्मुनिः . एवं विदेहकैवल्यं सन्मात्रत्वमखण्डितम् .. २४.. ब्रह्मभावं प्रपद्यैष यतिर्नावर्तते पुनः . सदात्मकत्वविज्ञानदग्धा विद्यादिवर्ष्मणः .. २५.. अमुष्य ब्रह्मभूतत्त्वाद्ब्रह्मणः कुत उद्भवः . मायाक्लृप्तौ बन्धमोक्षौ न स्तः स्वात्मनि वस्तुतः .. २६.. यथा रज्जौ निष्क्रियायां सर्पाभासविनिर्गमौ . अवृतेः सदसत्त्वाभ्यां वक्तव्ये बन्धमोक्षणे .. २७.. नावृत्तिर्ब्रह्मणः क्वाचिदन्याभावादनावृतम् . अस्तीति प्रत्ययो यश्च यश्च नास्तीति वस्तुनि .. २८.. बुद्धेरेव गुणावेतौ न तु नित्यस्य वस्तुनः . अतस्तौ मायया क्लृप्तौ बन्धमोक्षौ न चात्मनि .. २९.. निष्कले निष्क्रिये शान्ते निरवद्ये निरंजने . अद्वितीये परे तत्त्वे व्योमवत्कल्पना कुतः .. ३०.. न निरोधो न चोत्पत्तिर्न बद्धो न च साधकः . न मुमुक्षुर्न वै मुक्त इत्येषा परमार्थता .. ३१.. इत्युपनिषत् .. ॐ भद्रं कर्णेभिः श्रुणुयाम देवाः . भद्रं पश्येमाक्षभिर्यजत्राः . स्थिरैरङ्गैस्तुष्टुवाँसस्तनूभिः . व्यशेम देवहितं यदायुः .. ॐ शान्तिः शान्तिः शान्तिः .. .. हरिः ॐ तत्सत् ..