आत्मबोध उपनिषद्
From Wikisource
.. आत्मबोधोपनिषत् ..
श्रीमन्नारायणाकारमष्टाक्षरमहाशयम् .
स्वमात्रानुभवात्सिद्धमात्मबोधं हरिं भजे ..
ॐ वाङ्मे मनसीति शान्तिः ..
ॐ प्रत्यगानन्दं ब्रह्मपुरुषं प्रणवस्वरूपं अकार उकार
मकार इति त्र्यक्षरं प्रणवं तदेतदोमिति . यमुक्त्वा मुच्यते
योगी जन्मसंसारबन्धनात् . ॐ नमो नारायणाय
शङ्खचक्रगदाधराय तस्मात् ॐ नमो नारायणायेति
मन्त्रोपासको वैकुण्ठभवनं गमिष्यति . अथ यदिदं
ब्रह्मपुरं पुण्डरीकं तस्मात्तडिताभमात्रं
दीपवत्प्रकाशम् ..
ब्रह्मण्यो देवकीपुत्रो ब्रह्मण्यो मधुसूदनः .
ब्रह्मण्यः पुण्डरीकाक्षो ब्रह्मण्यो विष्णुरच्युतः ..
सर्वभूतस्थमेकं नारायणं कारणपुरुषमकारणं परं
ब्रह्मोम् . शोकमोहविनिर्मुक्तो विष्णुं ध्यायन्न सीदति .
द्वैताद्वैतमभयं भवति . मृत्योः स मृत्युमाप्नोति य इह
नानेव पश्यति . हृत्पद्ममध्ये सर्वं यत्तत्प्रज्ञाने
प्रतिष्ठितम् . प्रज्ञानेत्रो लोकः प्रज्ञा प्रतिष्ठा
प्रज्ञानं ब्रह्म . स एतेन
प्रज्ञेनात्मनास्माल्लोकादुत्क्रम्यामुष्मिन्स्वर्गे लोके
सर्वान्कामानाप्त्वाऽमृतः समभवदमृतः समभवत् .
यत्र ज्योतिरजस्रं यस्मिंल्लोकेऽभ्यर्हितम् . तस्मिन्मां देहि
स्वमानमृते लोके अक्षते अच्युते लोके अक्षते अमृतत्वं च
गच्छत्यों नमः .. १..
प्रगलितनिजमायोऽहं निस्तुलदृशिरूपवस्तुमात्रोऽहम् .
अस्तमिताहन्तोऽहं प्रगलितजगदीशजीवभेदोऽहम् .. १..
प्रत्यगभिन्नपरोऽहं विध्वस्ताशेषविधिनिषेधोऽहम् .
समुदस्ताश्रमितोऽहं प्रविततसुखपूर्णसंविदेवाहम् .. २..
साक्ष्यहमनपेक्षोऽहं निजमहिम्नि संस्थितोऽहमचलोऽहम् .
अजरोऽहमव्ययोऽहं पक्षविपक्षादिभेदविधुरोऽहम् .. ३..
अवबोधैकरसोऽहं मोक्षानन्दैकसिन्धुरेवाहम् .
सूक्ष्मोऽहमक्षरोऽहं विगलितगुणजालकेवलात्माऽहम् .. ४..
निस्त्रैगुण्यपदोऽहं कुक्षिस्थानेकलोककलनोऽहम् .
कूटस्थचेतनोऽहं निष्क्रियधामाहमप्रतर्क्योऽहम् .. ५..
एकोऽहमविकलोऽहं निर्मलनिर्वाणमूर्तिरेवाहम् .
निरवयोऽहमजोऽहं केवलसन्मात्रसारभूतोऽहम् .. ६..
निरवधिनिजबोधोऽहं शुभतरभावोऽहमप्रभेद्योऽहम् .
विभुरहमनवद्योऽहं निरवधिनिःसीमतत्त्वमात्रोऽहम् .. ७..
वेद्योऽहमगमास्तैराराध्योऽहं सकलभुवनहृद्योऽहम् .
परमानन्दघनोऽहम् परमानन्दैकभूमरूपोऽहम् .. ८..
शुद्धोऽहमद्वयोऽहं सन्ततभावोऽहमादिशून्योऽहम् .
शमितान्तत्रितयोऽहं बद्धो मुक्तोऽहमद्भुतात्माहम् .. ९..
शुद्धोऽहमान्तरोऽहं शाश्वतविज्ञानसमरसात्माहम् .
शोधितपरतत्त्वोऽहं बोधानन्दैकमूर्तिरेवाहम् .. १०..
विवेकयुक्तिबुद्ध्याहं जानाम्यात्मानमद्वयम् .
तथापि बन्धमोक्षादिव्यवहारः प्रतीयते .. ११..
निवृत्तोऽपि प्रपञ्चो मे सत्यवद्भाति सर्वदा .
सर्पादौ रज्जुसत्तेव ब्रह्मसत्तैव केवलम् .
प्रपञ्चाधाररूपेण वर्ततेऽतो जगन्न हि .. १२..
यथेक्षुरससंव्याप्ता शर्करा वर्तते तथा .
अद्वयब्रह्मरूपेण व्याप्तोऽहं वै जगत्त्रयम् .. १३..
ब्रह्मादिकीटपर्यन्ताः प्राणिनो मयि कल्पिताः .
बुद्बुदादिविकारान्तस्तरङ्गः सागरे यथा .. १४..
तरङ्गस्थं द्रवं सिन्धुर्न वाञ्छति यथा तथा .
विषयानन्दवाञ्छा मे मा भूदानन्दरूपतः .. १५..
दारिद्र्याशा यथा नास्ति संपन्नस्य तथा मम .
ब्रह्मानन्दे निमग्नस्य विषयाशा न तद्भवेत् .. १६..
विषं दृष्ट्वाऽमृतं दृष्ट्वा विषं त्यजति
बुद्धिमान् .
आत्मानमपि दृष्ट्वाहमनात्मानं त्यजाम्यहम् .. १७..
घटावभासको भानुर्घटनाशे न नश्यति .
देहावभासकः साक्षी देहनाशे न नश्यति .. १८..
न मे बन्धो न मे मुक्तिर्न मे शास्त्रं न मे गुरुः .
मायामात्रविकासत्वान्मायातीतोऽहमद्वयः .. १९..
प्राणाश्चलन्तु तद्धर्मैः कामैर्वा हन्यतां मनः .
आनन्दबुद्धिपूर्णस्य मम दुःखं कथं भवेत् .. २०..
आत्मानमञ्जसा वेद्मि क्वाप्यज्ञानं पलायितम् .
कर्तृत्वमद्य मे नष्टं कर्तव्यं वापि न क्वचित् .. २१..
ब्राह्मण्यं कुलगोत्रे च नामसौन्दर्यजातयः .
स्थूलदेहगता एते स्थूलाद्भिन्नस्य मे नहि .. २२..
क्षुत्पिपासान्ध्यबाधिर्यकामक्रोधादयोऽखिलाः .
लिङ्गदेहगता एते ह्यलिङ्गस्य न सन्ति हि .. २३..
जडत्वप्रियमोदत्वधर्माः कारणदेहगाः .
न सन्ति मम नित्यस्य निर्विकारस्वरूपिणः .. २४..
उलूकस्य यथा भानुरन्धकारः प्रतीयते .
स्वप्रकाशे परानन्दे तमो मूढस्य जायते .. २५..
चक्षुर्दृष्टिनिरोधेऽभ्रैः सूर्यो नास्तीति मन्यते .
तथाऽज्ञानावृतो देही ब्रह्म नास्तीति मन्यते .. २६..
यथामृतं विषाद्भिन्नं विषदोषैर्न लिप्यते .
न स्पृशामि जडाद्भिन्नो जडदोषान्प्रकाशतः .. २७..
स्वल्पापि दीपकणिका बहुलं नाशयेत्तमः .
स्वल्पोऽपि बोधो निबिडे बहुलं नाशयेत्तमः .. २८..
कालत्रये यथा सर्पो रज्जौ नास्ति तथा मयि .
अहङ्कारादिदेहान्तं जगन्नास्त्यहमद्वयः .. २९..
चिद्रूपत्वान्न मे जाड्यं सत्यत्वान्नानृतं मम .
आनन्दत्वान्न मे दुःखमज्ञानाद्भाति सत्यवत् .. ३०..
आत्मप्रबोधोपनिषदं मुहूर्तमुपासित्वा न स पुनरावर्तते न
स पुनरावर्तत इत्युपनिषत् ..
ॐ वाङ्मे मनसीति शान्तिः ..
इति आत्मबोधोपनिषत्समाप्ता ..

