अष्टाध्यायी ३

From Wikisource

Jump to: navigation, search
अष्टाध्यायी


Contents

[edit] ३. १.

३. १. १ प्रत्ययः ।
३. १. २ परश्च ।
३. १. ३ आद्य् उदात्तः च ।
३. १. ४ अनुदत्तौ सुप्पितौ ।
३. १. ५ गुप्तिज्कित् भ्यः सन् ।
३. १. ६ मान्बधदान्शान्भ्यो दीर्घश्च अभ्यासस्य ।
३. १. ७ धातोः कर्मणः समानकर्तृकात् इच्छायां वा ।
३. १. ८ सुपः आत्मनः क्यच् ।
३. १. ९ काम्यच् च ।
३. १. १० उपमानात् आचारे ।
३. १. ११ कर्तुः क्यङ् सालोपश्च ।
३. १. १२ भृश आदिभ्यः भुवि अच्वेः लोपश्च हलः ।
३. १. १३ लोहित आदि- डाच् भ्यः क्यष्. ३. १. १४ कष्टाय क्रमणे ।
३. १. १५ कर्मणः रोमन्थतपोभ्यां वर्तिचरोः ।
३. १. १६ बाष्प ऊष्माभ्यां उद्वमने ।
३. १. १७ शब्दवैरकलह अभ्रकण्वमेघेह्यः करणे ।
३. १. १८ सुख आदिभ्यः कर्तृवेदनायां ।
३. १. १९ नमः वरिवः चित्रङः क्यच् ।
३. १. २० पुच्छभाण्डचीवरात् णिङ् ।
३. १. २१ मुण्डमिश्रस्लक्ष्णलवणव्रतवस्त्रहलकलकृततूस्तेभ्यः णिच् ।
३. १. २२ धातोरेक अचः हलादेः क्रियासम्भिहारे यङ् ।
३. १. २३ नित्यं कौटिल्ये गतौ ।
३. १. २४ लुपसदचरजपजभदहदशगॄभ्यो भावगर्हायां ।
३. १. २५ सत्यापपाशरूपवीणातूलश्लोकसेनालोम(न्)त्वच वर्म(न्)वर्णचूर्णचुरादिभ्यो णिच् ।
३. १. २६ हेतुमति च ।
३. १. २७ कण्डू आदिभ्यो यक् ।
३. १. २८ गुपूधूपविच्छिपणिपनिभ्य आयः ।
३. १. २९ ऋतेरीयङ् ।
३. १. ३० कमेर्णिङ् ।
३. १. ३१ आय आदयः आर्धद् हातुके वा ।
३. १. ३२ सन् आदि अन्ताः धतवः ।
३. १. ३३ स्यतासी लृलुटोः ।
३. १. ३४ सिप् बहुलं लेटि ।
३. १. ३५ कास्प्रत्ययात् आम् अमन्त्रे लिटि ।
३. १. ३६ इच् आदेश्च गुरुमतः अनृच्छः ।
३. १. ३७ दय अय आसश्च ।
३. १. ३८ उषविदजागृभ्यः न्यतरस्यां ।
३. १. ३९ भीह्रीभृहुवां श्लुवत् च ।
३. १. ४० कृञ् च अनुप्रयुज्यते लिटि ।
३. १. ४१ विदां कुर्वन्तु इति अन्यतरस्यां ।
३. १. ४२ अभ्युत्सादयाम् प्रजनयांचिकयाम्रमयाम्+अकःपावयां+क्रियात्विदाम्+अक्रन्न् इति छन्द्स्सि ।
३. १. ४३ च्लि लुङि ।
३. १. ४४ च्लेः सिच् ।
३. १. ४५ शलः इक् उपधात् अनिटः क्सः ।
३. १. ४६ श्लिषः आलिङ्गने ।
३. १. ४७ न दृशः ।
३. १. ४८ णिश्रिद्रुस्रुभ्यः कर्तरि चङ् ।
३. १. ४९ विभाषा धेट्श्व्योः ।
३. १. ५० गुपेश् छन्दसि ।
३. १. ५१ न ऊनयतिध्वनयति एलयति अर्दयतिभ्यः ।
३. १. ५२ अस्यतिवक्तिख्यातिभ्यः अङ् ।
३. १. ५३ लिपिसिचिह्वश्च ।
३. १. ५४ आत्मनेपदेषु अन्यतरस्यां ।
३. १. ५५ पुषादिद्युतादि ल्त् इ तः परस्मैपदेषु ।
३. १. ५६ सर्तिशास्तिअर्तिभ्यश्च ।
३. १. ५७ इरि तो वा ।
३. १. ५८ जृलपॄस्तन्भुम्रुचुम्लुचुग्रुचुग्लुचुग्लुञ्चुश्विभ्यश्च ।
३. १. ५९ कृमृदृरुहिभ्यश् छन्दसि ।
३. १. ६० चिण् ते पदः ।
३. १. ६१ दीपजनबुधपूरितायिप्यायिह्यः न्यतरस्यां ।
३. १. ६२ अचः कर्मकर्तरि ।
३. १. ६३ दुहश्च ।
३. १. ६४ न रुधः ।
३. १. ६५ तपः अनुतापे च ।
३. १. ६६ चिण् भावकर्मणोः ।
३. १. ६७ सार्वधातुके यक् ।
३. १. ६८ कर्तरि शप् ।
३. १. ६९ दिवादिभ्यः श्यन् ।
३. १. ७० वा भ्राशभ्लाशभ्रमुक्रमुक्लमुत्रसित्रुटिलषः ।
३. १. ७१ यसः अनुपसर्गात् ।
३. १. ७२ संयसश्च ।
३. १. ७३ सु आदिभ्यह् श्नुः ।
३. १. ७४ श्रुवः शृ च ।
३. १. ७५ अक्षः अन्यतरस्यां ।
३. १. ७६ तनूकरणे तक्षः ।
३. १. ७७ तुदादिभ्यः शः ।
३. १. ७८ रुधादिभ्यः श्नं ।
३. १. ७९ तणादिकृञ्भ्यः उः ।
३. १. ८० धिन्वि कृण्व्योर च ।
३. १. ८१ क्रीआदिभ्यः श्ना ।
३. १. ८२ स्तन्भुस्तुन्भुस्कन्भुस्कुन्भुस्कुञ्भ्यः श्नुश्च ।
३. १. ८३ हलः श्नः शानच् हौ ।
३. १. ८४ छन्दसि शायच् अपि ।
३. १. ८५ व्यत्ययो बहुलं ।
३. १. ८६ लिङि आशिषि अङ् ।
३. १. ८७ कर्मवत् कर्मणा तुल्यक्रियः ।
३. १. ८८ तपः तपःकर्मकस्य एव ।
३. १. ८९ न दुहस्नुनमां यक्चिणौ ।
३. १. ९० कुषिरजोः प्राचां श्यन् परस्मैपदं च ।
३. १. ९१ धातोः ।
३. १. ९२ तत्र उपपदं सप्तमीस्थम् ।
३. १. ९३ कृत् अतिङ् ।
३. १. ९४ वा असरूपः अस्त्रियां ।
३. १. ९५ कृत्याः प्राङ् ण्वुलः ।
३. १. ९६ तव्यत्तव्य अनीयरः ।
३. १. ९७ अचः यत् ।
३. १. ९८ पोरत् उपधात् ।
३. १. ९९ शकिशहोश्च ।
३. १. १०० गदमदचरयमश्च अनुपसर्गे ।
३. १. १०१ अवद्यपण्यवर्याः गर्ह्यपणितव्य अनिरोधेषु ।
३. १. १०२ वह्यं करणम् ।
३. १. १०३ अर्यः स्वामि(न्)वैश्ययोः ।
३. १. १०४ उपसर्या काल्या प्रजने ।
३. १. १०५ अजर्यं संगतम् ।
३. १. १०६ वदः सुपि क्यप् च ।
३. १. १०७ भुवो भावे ।
३. १. १०८ हनः त च ।
३. १. १०९ एतिस्तुसाः वृदृजुषः क्यप् ।
३. १. ११० ऋत् उपधात् च अक्ल्पिचृतेः ।
३. १. १११ ई च खनः ।
३. १. ११२ भृञः असंज्ञायां ।
३. १. ११३ मृजेर्विभाषा ।
३. १. ११४ राजसूयसूर्यमृषोद्यरुच्यकुप्यकृष्टपच्य अव्यथ्याः ।
३. १. ११५ भिद्य उद्ध्यौ नदे ।
३. १. ११६ पुष्यसिध्यौ नक्षत्रे ।
३. १. ११७ विपूयविनीयजित्याः मुञ्जकल्कहलिषु ।
३. १. ११८ प्रति अपिभ्यां ग्रहेश् छन्दसि ।
३. १. ११९ पद अस्वैरि(न्)बाह्यापक्स्येषु च ।
३. १. १२० विभाषा कृवृषोः ।
३. १. १२१ युग्यं च पत्त्रे ।
३. १. १२२ अमावस्यत् अन्यतरस्यां ।
३. १. १२३ छन्दसि निष्टर्क्यदेवहूयप्रणीय उन्नीय उच्छिष्यमर्यस्तर्याध्वर्यखन्यखान्यदेवयज्याआपृच्छ्य- प्रतिषीव्यब्रह्मवाद्यभाव्यस्ताव्य उपचाय्यपृडानि ।
३. १. १२४ ऋहलोर्ण्यत् ।
३. १. १२५ ओरावश्यके ।
३. १. १२६ आसुयुवपिरपिलपित्रपिचमश्च ।
३. १. १२७ आनाय्यः अनित्ये ।
३. १. १२८ प्रणाय्यः असंमतौ ।
३. १. १२९ पाय्यसांनाय्यनिकाय्यधाय्याः मानहविः निवाससामिधेनीषु ।
३. १. १३० क्रतौ कुण्डपाय्यसंचाय्यौ ।
३. १. १३१ अग्नौ परिचाय्य उपचाय्यसमूह्याः ।
३. १. १३२ चित्य अग्निचित्ये च ।
३. १. १३३ ण्वुल्तृचौ ।
३. १. १३४ नन्दिग्रहिपच आदिभ्यः ल्यु- णिनिअचः ।
३. १. १३५ इक् उपध ज्ञाप्रीकिरः कः ।
३. १. १३६ आतश्च उपसर्गे ।
३. १. १३७ पाघ्राध्माधेट्दृशः शः ।
३. १. १३८ अनुपसर्गात् लिम्पविन्दधारिपारिवेदिउदेजिचेतिसातिसाहिह्यश्च ।
३. १. १३९ ददाति दधात्योर्विभाषा ।
३. १. १४० ज्वलिति कसन्तेभ्यः णः ।
३. १. १४१ श्याआत् व्यध आस्रुसंस्रुअतीण् अवसा अवहृलिहश्लिषश्वसश्च ।
३. १. १४२ दुन्योरनुपसर्गे ।
३. १. १४३ विभाषा ग्रहेः ।
३. १. १४४ गेहे कः ।
३. १. १४५ शिल्पिनि ष्वुन् ।
३. १. १४६ गः थकन् ।
३. १. १४७ ण्युट् च ।
३. १. १४८ हश्च व्रीहिकालयोः ।
३. १. १४९ प्रुसृल्वः समभिहारे वुन् ।
३. १. १५० आशिषि च ।

[edit] ३. २.

३. २. १ कर्मणि अण् ।
३. २. २ ह्वावाअमश्च ।
३. २. ३ आतः अनुपसर्गे कः ।
३. २. ४ सुपि स्थः ।
३. २. ५ तुन्दशोकयोः परिमृज अपनुदोः ।
३. २. ६ प्रे दा- ज्ञः ।
३. २. ७ समि ख्यः ।
३. २. ८ गापोः टक् ।
३. २. ९ हरतेरनुद्यमने अच् ।
३. २. १० वयसि च ।
३. २. ११ आङि ताच्छील्ये ।
३. २. १२ अर्हः ।
३. २. १३ स्तम्बकर्णयोः रमिजपोः ।
३. २. १४ शमि धातोः संज्ञायां ।
३. २. १५ अधिकरणे शेतेः ।
३. २. १६ चरेश् टः ।
३. २. १७ भिक्षाशेना आदायेषु च ।
३. २. १८ पुरसग्रतसग्रेषु सर्तेः ।
३. २. १९ पूर्वे कर्तरि ।
३. २. २० कृञः हेतुताच्छील्यआनुलोम्येषु ।
३. २. २१ दिवाविब्भानिशाप्रभाभास्कार अन्त अनन्त आदिबहुनान्दीकिम्लिपिलिबिबलिभक्तिकर्तृचित्रक्षेत्र- संख्याजङ्घाबाहुअहन् यद् तद् धनुसरुष्षु ।
३. २. २२ कर्मणि भृतौ ।
३. २. २३ न शब्दस्लोककलहगाथावैरचाटुसूत्रमन्त्रपदेषु ।
३. २. २४ स्तम्बशकृतोरिन् ।
३. २. २५ हरतेः दृतिनाथयोः पशौ ।
३. २. २६ फलेग्रहिरात्मम्भरिश्च ।
३. २. २७ छन्दसि वनसनरक्षिमथां ।
३. २. २८ एजेः खश् ।
३. २. २९ नासिकास्तनयोः ध्माधेटोः ।
३. २. ३० नाडीमुष्ट्योश्च ।
३. २. ३१ उदि कूले रुजिवहोः ।
३. २. ३२ वह अभ्रे लिहः ।
३. २. ३३ परिमाणे पचः ।
३. २. ३४ मितनखे च ।
३. २. ३५ विधु अरुषोः तुदः ।
३. २. ३६ असूर्यललाटयोःदृशितपोः ।
३. २. ३७ उग्रम्पश्य इरम्मदपाणि- ंधमाः ।
३. २. ३८ प्रियवशे वदः खच् ।
३. २. ३९ द्विषत्त्परयोः तापेः ।
३. २. ४० वाचि यमः व्रते ।
३. २. ४१ पुर्सर्वयोः दारिसहोः ।
३. २. ४२ सर्वकूल अभ्रकरीषेषु कषः ।
३. २. ४३ मेघ ऋतिभयेषु कृञः ।
३. २. ४४ क्षेमप्रियमद्रेए अण् च ।
३. २. ४५ आशिते भुवः करणभावयोः ।
३. २. ४६ संज्ञा यां भृतॄ वृजिधारिशहितपिदमः ।
३. २. ४७ गमश्च ।
३. २. ४८ अन्त अत्यन्त अध्व(न्)दूरपारसर्वानन्तेषु डः ।
३. २. ४९ आशिषि हनः ।
३. २. ५० अपे क्लेशतमसोः ।
३. २. ५१ कुमारशीर्षयोह् णिनिः ।
३. २. ५२ लक्षणे जायापत्योः टक् ।
३. २. ५३ अमनुष्यकर्तृके च ।
३. २. ५४ शक्तौ हस्ति(न्)कपाटयोः ।
३. २. ५५ पाणिघताडघौ शिल्पिनि ।
३. २. ५६ आढ्यसुभगस्थूलपलितनग्न अन्धप्रियेषु च्वि र्थेषु अच्वौ कृञः करणे ख्युन् ।
३. २. ५७ कर्तरि भुवः खिष्णुच्खुकञौ ।
३. २. ५८ स्पृशः अनुदके क्विन् ।
३. २. ५९ ऋत्विज् दधृष्स्रज् दिश् उष्णिह् अञ्चु युजिक्रुञ्चां च ।
३. २. ६० त्यदादिषु दृशः अणालोचने कञ् च ।
३. २. ६१ सद् सूद्विषद्रुहदुहयुजविदभिदछिदजिनीराजां उपसर्गे अपि क्विप् ।
३. २. ६२ भजः ण्विः ।
३. २. ६३ छन्दसि सहः ।
३. २. ६४ वहश्च ।
३. २. ६५ कव्यपुरीषपुरीष्येषु ञ्युट् ।
३. २. ६६ हव्ये अनन्तःपादं ।
३. २. ६७ जनसनखनक्रमगमो विट् ।
३. २. ६८ अदः अन् अन्ने ।
३. २. ६९ क्रव्ये च ।
३. २. ७० दुहः कप् घश्च ।
३. २. ७१ मन्त्रे श्वेतवहौक्थशः पुरो- डाशो ण्विन् ।
३. २. ७२ अवे यजः ।
३. २. ७३ विच् उपे छन्दसि ।
३. २. ७४ आतः मनिन् क्वनिप्वनिपश्च ।
३. २. ७५ अन्येभ्यः अपि दृश्यन्ते ।
३. २. ७६ क्विप् च ।
३. २. ७७ स्थः क च ।
३. २. ७८ सुप्य् अजातौ णिनिः ताच्छिल्ये ।
३. २. ७९ कर्तरि उपमाने ।
३. २. ८० व्रते ।
३. २. ८१ बहुलं आभीक्ष्ण्ये ।
३. २. ८२ मनः ।
३. २. ८३ आत्ममाने खश्च ।
३. २. ८४ भूते ।
३. २. ८५ करणे यजः ।
३. २. ८६ कर्मणि हनः ।
३. २. ८७ ब्रह्म्(न्)भ्रूणवृत्रेषु क्विप् ।
३. २. ८८ बहुलं छन्दसि ।
३. २. ८९ सुकर्म(न्)पापमन्त्रपुण्येसु कृञः ।
३. २. ९० सोमे सुञः ।
३. २. ९१ अग्नौ चेः ।
३. २. ९२ कर्मणि अग्नि आख्यायां ।
३. २. ९३ कर्मणि इनिः विक्रियः ।
३. २. ९४ दृशेः क्वनिप् ।
३. २. ९५ राजनि युधिकृञः ।
३. २. ९६ सहे च ।
३. २. ९७ सप्तम्यां जनेर्डः ।
३. २. ९८ पञ्चम्यां अजातौ ।
३. २. ९९ उपसर्गे च संज्ञायां ।
३. २. १०० अनौ कर्मणि ।
३. २. १०१ अन्येषु अपि दृश्यते ।
३. २. १०२ निष्ठा ।
३. २. १०३ सुयजोर्ङ्वनिप् ।
३. २. १०४ जीर्यतेरतृन् ।
३. २. १०५ छन्दसि लिट् ।
३. २. १०६ लिटः कानच् वा ।
३. २. १०७ क्वसुः च ।
३. २. १०८ भाषायां सदवसश्रुवः ।
३. २. १०९ उपेयिवान् अनाश्वान् अनूचानसः च ।
३. २. ११० लुङ् ।
३. २. १११ अनद्यतने लङ् ।
३. २. ११२ अभिज्ञावचने लृट् ।
३. २. ११३ न यदि ।
३. २. ११४ विभाषा साकाङ्क्षे ।
३. २. ११५ परोक्षे लिट् ।
३. २. ११६ हशश्वतोर्लङ् च ।
३. २. ११७ प्रश्ने च आसन्नकाले ।
३. २. ११८ लट् स्मे ।
३. २. ११९ अपरोक्षे च ।
३. २. १२० ननौ पृष्टप्रतिवचने ।
३. २. १२१ नन्वोर्विभाषा ।
३. २. १२२ पुरि लुङ् च अस्मे ।
३. २. १२३ वर्तमाने लट् ।
३. २. १२४ लटः शतृशनचौ अरथमाअमान धिअरणे ।
३. २. १२५ सम्बोधने च ।
३. २. १२६ लक्षणहेत्वोः क्रियायाः ।
३. २. १२७ तौ सत् ।
३. २. १२८ पूङ्यजोः शानन् ।
३. २. १२९ ताच्छील्यवयोवचनशक्तिषु चानश् ।
३. २. १३० इङ् धार्योः शतृ ऋच्छ्रिणि ।
३. २. १३१ द्विषः अमित्रे ।
३. २. १३२ सुञः यज्ञसंयोगे ।
३. २. १३३ अर्हः पूजायां ।
३. २. १३४ आक्वेः तच्छीलतद्धर्मतत्साधुकारिषु ।
३. २. १३५ तृन् ।
३. २. १३६ अलंकृञ्निराकृञ्प्रजन उत्पच उत्पत उन्मदरुचिअपत्रपवृतुवृधुसहचर इष्णुच् ।
३. २. १३७ णेश् छन्दसि ।
३. २. १३८ भुवश्च ।
३. २. १३९ ग्लाजिस्थश्च क्स्नुः ।
३. २. १४० त्रसिगृधिधृषिक्षिपेः क्नुः ।
३. २. १४१ शमिति अष्टाभ्यः घिनुण् ।
३. २. १४२ संपृच अनुरुध आङ्यम आङ्यसपरिसृसंसृजपरिदेविसंज्वर परिक्षिपपरिवदपरिदहपरिमुहदुषद्विषद्रुहदुहयुजआक्रीड- विविचत्यजरजभज अतिचर अपचर आमुष अभ्याहनश्च ।
३. २. १४३ वौ कषलसकत्थस्रम्भः ।
३. २. १४४ अपे च लषः ।
३. २. १४५ प्रे लपसृद्रुमथवदवसः ।
३. २. १४६ निन्दहिंसक्लिशखादविनाशपरिक्लिशपरिरटपरिवादिव्याभाष असूयः वुञ् ।
३. २. १४७ देविक्रुशोः च उपसर्गे ।
३. २. १४८ चलनशब्द र्थात् अकर्मकात् उच् ।
३. २. १४९ अनुदात्त इतः च हलादेः ।
३. २. १५० जुचङ्क्रम्यदन्द्रम्यसृगृधिज्वलशुचलषपतपदः ।
३. २. १५१ क्रुधमण्ड अर्थेभ्यः च ।
३. २. १५२ न यः ।
३. २. १५३ सूददीपदीक्षः च ।
३. २. १५४ लषपतपदस्थाभूवृषहनकमगमशॄभ्यः उकञ् ।
३. २. १५५ जल्पभिक्षकुट्टलुण्टवृङ्ह्यः षाकन् ।
३. २. १५६ प्रजोरिनिः ।
३. २. १५७ जिदृक्षिविश्रि इण्वम अव्यथ अभ्यमपरिभूप्रसूभ्यः च ।
३. २. १५८ स्पृहिगृहिपतिदयिनिद्रातन्द्राश्रद्धाभ्यः आलुच् ।
३. २. १५९ दाधेट्सिशदसदः उः ।
३. २. १६० सृघसि अदः क्मरच् ।
३. २. १६१ भञ्जभासमिदः घुरच् ।
३. २. १६२ विदिभिदिच्छिदेः कुरच् ।
३. २. १६३ इण्नश्जिसर्तिभ्यः क्वरप् ।
३. २. १६४ गत्वरः च ।
३. २. १६५ जागुरूकः ।
३. २. १६६ यजजपदशां यङः ।
३. २. १६७ नमिकम्पिस्मि अजसकमहिंसदीपः रः ।
३. २. १६८ सन् आशंसभिक्षः उः ।
३. २. १६९ विन्दुरिच्छुः ।
३. २. १७० क्यात् छन्दसि ।
३. २. १७१ आतृगमहनजनः किकिनौ लिट् च ।
३. २. १७२ स्वपितृषोः नजिङ् ।
३. २. १७३ शॄवन्द्योरारुः ।
३. २. १७४ भियः क्रुक्लुकनौ ।
३. २. १७५ स्था- ईशभासपिसकसः वरच् ।
३. २. १७६ यः च यङः ।
३. २. १७७ भ्राजभासधुर्विद्युत ऊर्जिपॄजुग्रावस्तुवः क्विप् ।
३. २. १७८ अन्येभ्यः अपि दृश्यते ।
३. २. १७९ भुवः संज्ञा अन्तरयोः ।
३. २. १८० विप्रसम्भ्यः डु असंज्ञायां ।
३. २. १८१ धः कर्मणि ष्ट्रन् ।
३. २. १८२ दाप्नीशसयुयुजस्तुतुदसिसिचमिहपतदशनहः करणे ।
३. २. १८३ हलसूकरयोः पुवः ।
३. २. १८४ अर्तिलूधूसूखनशहचरः इत्रः ।
३. २. १८५ पुवः संज्ञायां ।
३. २. १८६ कर्तरि च ऋषिदेवतयोः ।
३. २. १८७ ञि इतः क्तः ।
३. २. १८८ मतिबुद्धिपूजा अर्थेभ्यः च ।

[edit] ३. ३.

३. ३. १ उण् आदयः बहुलं ।
३. ३. २ भूते अपि दृश्यन्ते ।
३. ३. ३ भविष्यति गमि(न्)आदयः ।
३. ३. ४ यावत्पुरानिपातयोः लट् ।
३. ३. ५ विभाषा कदाकर्ह्योः ।
३. ३. ६ किंवृत्ते लिप्सायां ।
३. ३. ७ लिप्स्यंआनसिद्धौ च ।
३. ३. ८ लोट् अर्थलक्षणे च ।
३. ३. ९ लिङ् च ऊर्ध्वमौहूर्तिके ।
३. ३. १० तुमुन् ण्वुलौ क्रियायां क्रियाअर्थायाम् ।
३. ३. ११ भाववचनाश्च ।
३. ३. १२ अण् कर्मणि च ।
३. ३. १३ लृट् शेषे च ।
३. ३. १४ लृटः सत् वा ।
३. ३. १५ अनद्यतने लुट् ।
३. ३. १६ पदरुजविशस्पृशः घञ् ।
३. ३. १७ सृ स्थिरे ।
३. ३. १८ भावे ।
३. ३. १९ अकर्तरि च कारके संज्ञायां ।
३. ३. २० परिमण आख्यायां सर्वेभ्यः ।
३. ३. २१ इङः च ।
३. ३. २२ उपसर्गे रुवः ।
३. ३. २३ समि युद्रुदुवः ।
३. ३. २४ श्रि- णीभुवः अन्यतरस्यां ।
३. ३. २५ वौ क्षुस्रुवः ।
३. ३. २६ अव उदोर्नियः ।
३. ३. २७ प्रे द्रुस्तुस्रुवः ।
३. ३. २८ निसभ्योः पूल्वोः ।
३. ३. २९ उद् न्योर्ग्रः ।
३. ३. ३० कॄ धान्ये ।
३. ३. ३१ यज्ञे समि स्तुवः ।
३. ३. ३२ प्रे स्त्रः अयज्ञे ।
३. ३. ३३ प्रथने वौ अशब्दे ।
३. ३. ३४ छन्दोनाम्नि च ।
३. ३. ३५ उदि ग्रहः ।
३. ३. ३६ समि मुष्टौ ।
३. ३. ३७ परिन्योर्नीइणोर्द्यूताभ्रेषयोः ।
३. ३. ३८ परौ अनुप अत्यये इणः ।
३. ३. ३९ वि उपयोः शेतेः पर्याये ।
३. ३. ४० हस्त आदाने चेरस्तेये ।
३. ३. ४१ निवासचितिशरीरौपसंआधानेषु आदेः च कः ।
३. ३. ४२ संघे च अनौत्तराधर्ये ।
३. ३. ४३ कर्मव्यतिहारे णच् स्त्रियां ।
३. ३. ४४ अभिविधौ भावे इनुण् ।
३. ३. ४५ आक्रोशे अवन्योर्ग्रहः ।
३. ३. ४६ प्रे लिप्सायां ।
३. ३. ४७ परौ यज्ञे ।
३. ३. ४८ नौ वृ धान्ये ।
३. ३. ४९ उदि श्रयतियौतिपूद्रुवः ।
३. ३. ५० विभाषा आङि रुप्लुवोः ।
३. ३. ५१ अवे ग्रहः वर्षप्रतिबन्धे ।
३. ३. ५२ प्रे वणिजां ।
३. ३. ५३ रश्मौ च ।
३. ३. ५४ वृ- णोतेराच्छादने ।
३. ३. ५५ परौ भुवः अवज्ञाने ।
३. ३. ५६ एरच् ।
३. ३. ५७ ॠदोरप् ।
३. ३. ५८ ग्रहवृदृनिः चिगमः च ।
३. ३. ५९ उपसर्गे अदः ।
३. ३. ६० नौ ण च ।
३. ३. ६१ व्यधजपोरनुपसर्गे ।
३. ३. ६२ स्वनहसोर्वा ।
३. ३. ६३ यमः समुपनिविषु ।
३. ३. ६४ नौ गदनदपठस्वनः ।
३. ३. ६५ क्वणः वीणायां च ।
३. ३. ६६ नित्यं पणः परिमाणे ।
३. ३. ६७ मदः अन् उपसर्गे ।
३. ३. ६८ प्रमदसम्मदौ हर्षे ।
३. ३. ६९ समुदोरजः पशुषु ।
३. ३. ७० अक्षेषु ग्लहः ।
३. ३. ७१ प्रजने सर्तेः ।
३. ३. ७२ ह्वः सम्प्रसारणं च नि अभि उपविषु ।
३. ३. ७३ आङि युद्धे ।
३. ३. ७४ निपानं आहावः ।
३. ३. ७५ भावे अनुपसर्गस्य ।
३. ३. ७६ हनः च वधः ।
३. ३. ७७ मूर्तौ घनः ।
३. ३. ७८ अन्तर्घनः देशे ।
३. ३. ७९ अगार एकदेशे प्रघण प्रघाणौ च ।
३. ३. ८० उद्घनः अत्याधानं ।
३. ३. ८१ अपघनः अङ्गं ।
३. ३. ८२ करणे अयः विद्रुषु ।
३. ३. ८३ स्तम्बे क च ।
३. ३. ८४ परौ घः ।
३. ३. ८५ उपघ्नः आश्रये ।
३. ३. ८६ संघ उद्घौ गणप्रशंसयोः ।
३. ३. ८७ निघः नीमितं ।
३. ३. ८८ डु इत् अः क्त्रिः ।
३. ३. ८९ टु- इतः अथुच् ।
३. ३. ९० यजयाचयतविछप्रछरक्षः नङ् ।
३. ३. ९१ स्वपः नन् ।
३. ३. ९२ उपसर्गे घोः किः ।
३. ३. ९३ कर्मणि अधिकरणे च ।
३. ३. ९४ स्त्रियां क्तिन् ।
३. ३. ९५ स्थागापापचां भावे ।
३. ३. ९६ मन्त्रे वृष इषपचमनविदभूवीराः उदात्तः ।
३. ३. ९७ ऊतियूतिजूतिसातिहेतिकीर्तयः च ।
३. ३. ९८ व्रजयजोर्भावे क्यप् ।
३. ३. ९९ संज्ञायां समजनिषदनिपतमनविदषुञ्शीङ्भृञ् इणः ।
३. ३. १०० कृञः श च ।
३. ३. १०१ इच्छा ।
३. ३. १०२ अ प्रत्ययात् ।
३. ३. १०३ गुरोः च हलः ।
३. ३. १०४ ष्- इत् भिदा आदिभ्यः अङ् ।
३. ३. १०५ चिन्तिपूजिकथिकुम्बिचर्चः च ।
३. ३. १०६ आत् अः च उपसर्गे ।
३. ३. १०७ णि आसस्रन्थः युच् ।
३. ३. १०८ रोग आख्यायां ण्वुल् बहुलं ।
३. ३. १०९ संज्ञायां ।
३. ३. ११० विभाषा आख्यानपरिप्रश्नयोरिञ् च ।
३. ३. १११ पर्याय अर्ह ऋण उत्पत्तिषु ण्वुच् ।
३. ३. ११२ आक्रोशे नञि अनिः ।
३. ३. ११३ कृत्यल्युटः बहुलं ।
३. ३. ११४ नपुंसके भावे क्तः ।
३. ३. ११५ ल्युट् च ।
३. ३. ११६ कर्मणि च येन संस्प्रशात् कर्तुः शरीरसुखं ।
३. ३. ११७ करणाधिकरणयोः च ।
३. ३. ११८ पुंसि संज्ञायां घः प्रायेण ।
३. ३. ११९ गोचरसंचरवहव्रज व्यज आपणनिगमाः च ।
३. ३. १२० अवे तॄस्त्रोर्घञ् ।
३. ३. १२१ हलः च ।
३. ३. १२२ अध्यायन्यायौद्यावसंहार आधार आवयाः च ।
३. ३. १२३ उदङ्कः अनुदके ।
३. ३. १२४ जालं आनायः ।
३. ३. १२५ खनः घ च ।
३. ३. १२६ ईषद्दुस्सुषु कृच्छ्र अकृच्छ्र अर्थेषु खल् ।
३. ३. १२७ कर्तृकर्मणोः च भूकृञोः ।
३. ३. १२८ आतः युच् ।
३. ३. १२९ छन्दसि गत्यर्थेभ्यः ।
३. ३. १३० अन्येभ्यः अपि दृश्यते ।
३. ३. १३१ वर्तमानसामीप्ये वर्तमानात् वा ।
३. ३. १३२ आशंसायां भूतवत् च ।
३. ३. १३३ क्षिप्रवचने लृट् ।
३. ३. १३४ आशंसावचने लिङ् ।
३. ३. १३५ न अनद्यतनवत् क्रियाप्रबन्धसामीप्ययोः ।
३. ३. १३६ भविष्यति मर्यादाअचने अवरस्मिन् ।
३. ३. १३७ कालविभागे च अनहोरात्रा- णां ।
३. ३. १३८ परस्मिन् विभाषा ।
३. ३. १३९ लिङ्निमित्ते लृङ् क्रिया अतिपत्तौ ।
३. ३. १४० भूते च ।
३. ३. १४१ वा आ उत अप्योः ।
३. ३. १४२ गर्हायां लट् अपिजात्वोः ।
३. ३. १४३ विभाषा कथमि लिङ् च ।
३. ३. १४४ किंवृत्ते लिङ्लृटौ ।
३. ३. १४५ अनवक्ल्प्ति अमर्षयोरकिंवृत्ते अपि ।
३. ३. १४६ किं किल अस्ति अर्थेषु लृट् ।
३. ३. १४७ जातुयदोर्लिङ् ।
३. ३. १४८ यत् चयत्रयोः ।
३. ३. १४९ गर्हायां च ।
३. ३. १५० चित्रीकरणे च ।
३. ३. १५१ शेषे लृट् अयदौ ।
३. ३. १५२ उताप्योः समर्थयोः लिङ् ।
३. ३. १५३ कामप्रवेदने अकच्चिति ।
३. ३. १५४ सम्भवाने अलं इति चेत् सिद्ध अप्रयोगे ।
३. ३. १५५ विभाषा धातौ सम्भावनाचने अयदि ।
३. ३. १५६ हेतुहेतुमतोर्लिङ् ।
३. ३. १५७ इच्छा अर्थेषु लिङ्लोटौ ।
३. ३. १५८ समानकर्तृकेषु तुमुन् ।
३. ३. १५९ लिङ् च ।
३. ३. १६० इच्छाअर्थेभ्यः विभाषा वर्तंआने ।
३. ३. १६१ विधिनिमन्त्रणआमन्त्रण अधि इष्टसम्प्रश्नप्र अर्थनेषु लिङ् ।
३. ३. १६२ लोट् च ।
३. ३. १६३ प्रैष अतिसर्गप्राप्तकालेषु कृत्याः च ।
३. ३. १६४ लिङ् च ऊर्ध्वमौहुर्तिके ।
३. ३. १६५ स्मे लोट् ।
३. ३. १६६ अधीष्टे च ।
३. ३. १६७ कालसमयवेलासु तुमुन् ।
३. ३. १६८ लिङ् यदि ।
३. ३. १६९ अर्हे कृत्यतृचः च ।
३. ३. १७० आवश्यक आधमर्ण्ययोः णिनिः ।
३. ३. १७१ कृत्याः च ।
३. ३. १७२ शकि लिङ् च ।
३. ३. १७३ आशिषि लिङ्लोटौ ।
३. ३. १७४ क्तिच् क्तौ च संज्ञायां ।
३. ३. १७५ माङि लुङ् ।
३. ३. १७६ स्म उत्तरे लङ् च ।

[edit] ३. ४.

३. ४. १ धातुसम्बन्धे प्रत्ययाः ।
३. ४. २ क्रियासमभिहारे लोट्, लोटः हिस्वौ वा च तध्वमोः ।
३. ४. ३ समुच्चये अन्यतरस्यां ।
३. ४. ४ यथाविधि अनुप्रयोगः पूर्वस्मिन् ।
३. ४. ५ सम् उत् चये सामान्यवचनस्य ।
३. ४. ६ छन्दसि लुङ्लङ्लिटः ।
३. ४. ७ लिङ् अर्थे लेट् ।
३. ४. ८ उपसंवाद आशङ्कयोः च ।
३. ४. ९ तुम् अर्थे सेसेनसे असेंक्सेकसेन्+अध्यै अध्यैंकध्यैकध्यैन्शध्यैशध्यैन्तवैतवेङ्तवेनः ।
३. ४. १० प्रयै रोहिष्यै अव्यथिष्यै ।
३. ४. ११ दृशे विख्ये च ।
३. ४. १२ शकि णमुल्कमुलौ ।
३. ४. १३ ईश्वरे तोसुंकसुनौ ।
३. ४. १४ कृत्य अर्थे तवैकेंकेन्यत्वनः ।
३. ४. १५ अवचक्षे च ।
३. ४. १६ भावलक्सणे स्था इण्कृवदिचरिहुतमिजनिभ्यः तोसुन् ।
३. ४. १७ सृपितृदोः कसुन् ।
३. ४. १८ अलम् खल्वोः प्रतिषेधयोः प्राचां क्त्वा ।
३. ४. १९ उदीचां माङः व्यतीहारे ।
३. ४. २० पर अवरयोगे च ।
३. ४. २१ समानकर्तृकयोः पूर्वकाले ।
३. ४. २२ आभीक्ष्ण्ये णमुल् च ।
३. ४. २३ न यदि अणाकाङ्क्षे ।
३. ४. २४ विभाषा अग्रे प्रथमपूर्वेषु ।
३. ४. २५ कर्मणि आक्रोशे कृञः खमुञ् ।
३. ४. २६ स्वादुमि णमुल् ।
३. ४. २७ अन्यथा एवम् कथम् इत्थंसु सिद्ध अ रयोगः चेत् ।
३. ४. २८ यथातथयोरसूयाप्रतिवचने ।
३. ४. २९ कर्मनि दृशिविदोः साकल्ये ।
३. ४. ३० यावति विन्दजीवोः ।
३. ४. ३१ चर्म(न्)उदरयोः पूरेः ।
३. ४. ३२ वर्षप्रमाणे ऊल्पः च स्य न्यतरास्यं ।
३. ४. ३३ चेले क्नोपेः ।
३. ४. ३४ निमूलसमूलयोः कषः ।
३. ४. ३५ शुष्कचूर्णरूक्षेषु पिषः ।
३. ४. ३६ समूल अकृतजीवेषु हंकृञ्ग्रहः ।
३. ४. ३७ करणे हनः ।
३. ४. ३८ स्नेहने पिषः ।
३. ४. ३९ हस्ते वर्तिग्रहोः ।
३. ४. ४० स्वे पुषः ।
३. ४. ४१ अधिकरणे बन्धः ।
३. ४. ४२ संज्ञायां ।
३. ४. ४३ कर्त्रोर्जीवपुरुषयोर्नशिवहोः ।
३. ४. ४४ ऊर्ध्वे शुषिपूरोः ।
३. ४. ४५ उपमाने कर्मणि च ।
३. ४. ४६ कषादिषु यथाविधि नुप्रयोगः ।
३. ४. ४७ उपदंशः तृतीयायां ।
३. ४. ४८ हिंसा अर्थानां च समानार्तृका- णां ।
३. ४. ४९ सप्तम्यां च उपपीडरुधकर्षः ।
३. ४. ५० संआसत्तौ ।
३. ४. ५१ प्रमाणे च ।
३. ४. ५२ अप आदाने परीप्सायां ।
३. ४. ५३ द्वितीयायां च ।
३. ४. ५४ स्व अङ्गे अध्रुवे ।
३. ४. ५५ परिक्लिश्यंआने च ।
३. ४. ५६ विशिपतिपदिस्कन्दां व्याप्यंआनआसेव्यंआनयोः ।
३. ४. ५७ अस्यतितृषः क्रिया अन्तरे कालेषु ।
३. ४. ५८ नाम्नि आदिशिग्रहोः ।
३. ४. ५९ अव्यये अयथाभिप्रेत आख्याने कृञः क्त्वा- णमुलौ ।
३. ४. ६० तिर्यचि अपवर्गे ।
३. ४. ६१ स्व अङ्गे तस्प्रत्यये कृभ्वोः ।
३. ४. ६२ नाधाअर्थप्रत्यये च्वि अर्थे ।
३. ४. ६३ तूष्णीमि भुवः ।
३. ४. ६४ अन्वचि आनुलोम्ये ।
३. ४. ६५ शकधृषज्ञाग्लाघटरभलभक्रमसहार्हास्ति अर्थेषु तुमुन् ।
३. ४. ६६ पर्याप्तिवचनेषु अलमर्थेषु ।
३. ४. ६७ कर्तरि कृत् ।
३. ४. ६८ भव्यगेयप्रवचनीय उपस्थाणीयजन्य आप्लाव्य आपात्या वा ।
३. ४. ६९ लः कर्मणि च भावे च अकर्मकेभ्यः. ।
३. ४. ७० तयोरेव कृत्यक्तखलर्थाः ।
३. ४. ७१ अदिकर्मणि क्तः कर्तरि च ।
३. ४. ७२ गत्य् अर्थाकर्मक श्लिषशीङ् श्था असवसजनरुहजीर्यतिभ्यः ।
३. ४. ७३ दाशगोघ्नौ सम्प्रदाए ।
३. ४. ७५ ताभ्यां अन्यत्र उण् आदयः ।
३. ४. ७६ क्तः अधिकरणे च ध्रौव्यगतिप्रति अवसान र्थेभ्यः ।
३. ४. ७७ लस्य ।
३. ४. ७८ तिप्तस्झि सिप्थस्थ मिप्वस्मः त आताम् झ थासाथांध्वम् इट्वहिमहिङ् ।
३. ४. ७९ ट्- इतः आत्मनेपदानां टेरे ।
३. ४. ८० थाअः से ।
३. ४. ८१ लिटः तझयोरेशिरेच् ।
३. ४. ८२ पर्स्मैपदानां णलतुसुस्थलथुसणल्वमाः ।
३. ४. ८३ विदः लटः वा ।
३. ४. ८४ ब्रुवः पञ्चानां आदितः आहः ब्रुवः ।
३. ४. ८५ लोटः लङ्वत् ।
३. ४. ८६ एरुः ।
३. ४. ८७ सेर्हि अपित् च ।
३. ४. ८८ वा छन्दसि ।
३. ४. ८९ मेर्निः ।
३. ४. ९० आं एतः ।
३. ४. ९१ सवाभ्यां व अमौ ।
३. ४. ९२ आट् उत्तमस्य पित् च ।
३. ४. ९३ एतः ऐ ।
३. ४. ९४ लेटः अटाटौ ।
३. ४. ९५ आतः ऐ ।
३. ४. ९६ वा एतः अन्यत्र ।
३. ४. ९७ इतः च लोपः परस्मैपदेषु ।
३. ४. ९८ सः उत्तमस्य ।
३. ४. ९९ नित्यं ङ्- इतः ।
३. ४. १०० इतः च ।
३. ४. १०१ तस्थस्थमिपां तांतंत अमः ।
३. ४. १०२ लिङः सीयुट् ।
३. ४. १०३ यासुट् परसिपदेषु दात्तः ङ्- इत् च ।
३. ४. १०४ कित् आशिषि ।
३. ४. १०५ झस्य रन् ।
३. ४. १०६ इटः अत् ।
३. ४. १०७ सुट् तिथोः ।
३. ४. १०८ झेर्जुः ।
३. ४. १०९ सीच् अभ्यस्तविदिभ्यः च ।
३. ४. ११० आतः ।
३. ४. १११ लङः शाकटायनस्य एव ।
३. ४. ११२ द्विषः च ।
३. ४. ११३ तिङ्श्- इत्सार्वधातुकं ।
३. ४. ११४ आर्धधातुकं शेषः ।
३. ४. ११५ १इट् च ।
३. ४. ११६ लिङ् आशिषि .