अव्यक्त उपनिषद्
From Wikisource
.. अव्यक्तोपनिषत् .. स्वाज्ञानासुरराड्ग्रासस्वज्ञाननरकेसरी . प्रतियोगिविनिर्मुक्तं ब्रह्ममात्रं करोतु माम् .. ॐ आप्यायन्तु ममाङ्गानि वाक्प्राणश्चक्षुः श्रोत्रमथो बलमिन्द्रियाणि च .. सर्वाणि सर्वं ब्रह्मोपनिषदं माहं ब्रह्म निराकुर्यां मा मा ब्रह्म निराकरोदनिराकरण- मस्त्वनिराकरणं मेस्तु तदात्मनि निरते य उपनिषत्सु धर्मास्ते मयि सन्तु ते मयि सन्तु .. ॐ शान्तिः शान्तिः शान्तिः .. हरिः ॐ . पुरा किलेदं न किंचन्नासीन्न द्यौर्नान्तरिक्षं न पृथिवी केवलं ज्योतीरूपमनाद्यनन्तमनण्वस्थूलरूपमरूपं रूपवदविज्ञेयं ज्ञानरूपमानन्दमयमासीत् . तदनन्यत्तद्द्वेधाभूद्धरितमेकं रक्तमपरम् . तत्र यद्रक्तं तत्पुंसो रूपमभूत् . यद्धरितं तन्मायायाः . तौ समगच्छतः . तयोर्वीर्यमेवमनन्दत् . तदवर्धत . तदण्डमभूधैमम् . तत्परिणममानमभूत् . ततः परमेष्ठी व्यजायत . सोऽभिजिज्ञासत किं मे कुलं किं मे कृत्यमिति . तं ह वागदृश्यमानाभ्युवाच भोभो प्रजापते त्वमव्यक्तादुत्पन्नोऽसि व्यक्तं ते कृत्यमिति . किमव्यक्तं यस्मादहमासिषम् . किं तद्व्यक्तं यन्मे कृत्यमिति . साब्रवीदविज्ञेयं हि तत्सौम्य तेजः . यदविज्ञेयं तदव्यक्तम् . तच्चेज्जिज्ञाससि मावगच्छेति . स होवाच कैषा त्वं ब्रह्मवाग्यदसि शंसात्मानमिति . सा त्वब्रवीत्तपसा मां विजिज्ञासस्वेति . स ह सहस्रं समा ब्रह्मचर्यमध्युवासाध्युवास .. १.. अथापश्यदृचमानुष्टुभीं परमां विद्यां यस्याङ्गान्यन्ये मन्त्राः . यत्र ब्रह्म प्रतिष्ठितम् . विश्वेदेवाः प्रतिष्ठिताः . यस्तां न वेद किमन्यैर्वेदैः करिष्यति . तां विदित्वा स च रक्तं जिज्ञासयामास . तामेवमनूचानां गायन्नासिष्ट . सहस्रं समा आद्यन्तनिहितोङ्कारेण पदान्यगायत् . सहस्रं समास्तथैवाक्षरशः . ततोऽपश्यज्ज्योतिर्मयं श्रियालिङ्गितं सुपर्णरथं शेषफणाच्छदितमौलिं मृगमुखं नरवपुषं शशिसूर्यहव्यवाहनात्मकनयनत्रयम् . ततः प्रजापतिः प्रणिपपात नमोनम इति . तथैवर्चाथ तमस्तौत् . उग्रमित्याह उग्रः खलु वा एष मृगरूपत्वात् . वीरमित्याह वीरो वा एष वीर्यवत्त्वात् . महाविष्णुमित्याह महतां वा अयं महान्रोदसी व्याप्य स्थितः . ज्वलन्तमित्याह ज्वलन्निव खल्वसाववस्थितः . सर्वतोमुखमित्याह सर्वतः खल्वयं मुखवान्विश्वरूपत्वात् . नृसिंहमित्याह यथा यजुरेवैतत् . भीषणमित्याह भीषा वा अस्मादादित्य उदेति भीतश्चन्द्रमा भीतो वायुर्वाति भीतोऽग्निर्दहति भीतः पर्जन्यो वर्षति . भद्रमित्याह भद्रः खल्वयं श्रिया जुष्टः . मृत्योर्मृत्युमित्याह मृत्योर्वा अयं मृत्युरमृतत्वं प्रजानामन्नादानाम् . नमामीत्याह यथा यजुरेवैतत् . अहमित्याह यथा यजुरेवैतत् .. २.. अथ भगवांस्तमब्रवीत्प्रजापते प्रीतोऽहं किं तवेप्सितं तदाशंसेति . स होवाच भगवन्नव्यक्तादुत्पन्नोऽस्मि व्यक्तं मम कृत्यमिति पुराश्रावि . तत्राव्यक्तं भवानित्यज्ञायि व्यक्तं मे कथयेति . व्यक्तं वै विश्वं चराचरात्मकम् . यद्व्यज्यते तद्व्यक्तस्य व्यक्तत्वमिति . स होवाच न शक्नोमि जगत्स्रष्टुमुपायं मे कथयेति . तमुवाच पुरुषः प्रजापते शृणु सृष्टेरुपायं परमं यं विदित्वा सर्वं ज्ञास्यसि . सर्वत्र शक्ष्यसि सर्वं करिष्यसि . मय्यग्नौ स्वात्मानं हविर्ध्यायेत्तयैवानुष्टुभर्चा . ध्यानयज्ञोऽयमेव . एतद्वै महोपनिषद्देवानां गुह्यम् . न ह वा एतस्य साम्ना नर्चा न यजुषार्थो नु विद्यते . य इमा वेद स सर्वान्कामानवाप्य सर्वांल्लोकाञ्जित्वा मामेवाभ्युपैति न स पुनरावर्तते य एवं वेदेति .. ३.. प्रजापतिस्तं यज्ञायं वसीयांसमात्मानं मन्यमानो मनोयज्ञेनेजे . सप्रणवया तयैवर्चा हविर्ध्यात्वात्मान- मात्मन्यग्नौ जुहुयात् . सर्वमजानात्सर्वत्राशकत्सर्वमकरोत् . य एवंविद्वानिमं ध्यानयज्ञमनुतिष्ठेत्स सर्वज्ञोऽनन्तशक्तिः सर्वकर्ता भवति . स सर्वांॅल्लोकाञ्जित्वा ब्रह्म परं प्राप्नोति .. ४.. अथ प्रजापतिर्लोकान्सिसृक्षमाणस्तस्या एव विद्याया यानि त्रिंशदक्षराणि तेभ्यस्त्रींॅल्लोकान् . अथ द्वे द्वे अक्षरे ताभ्यामुभयतो दधार . तस्या एवर्चो द्वात्रिंशद्भिरक्षरै- स्तान्देवान्निर्ममे . सर्वैरेव स इन्द्रोऽभवत् . तस्मादिन्द्रो देवानामधिकोऽभवत् . य एवं वेद समानानामधिको भवेत् . तस्या एकादशभिः पादैरेकादश रुद्रान्निर्ममे . तस्या एकादशभिरेकादशादित्यान्निर्ममे . सर्वैरेव स विष्णुरभवत् . तस्माद्विष्णुरादित्यानामधिकोऽभवत् . य एवं वेद समानानामधिको भवेत् . स चतुर्भिश्चतुर्भिरक्षरैरष्टौ वसूनजनयत् . स तस्या आद्यैर्द्वादशभिरक्षरैर्ब्राह्मणमजनयत् . दशभिर्दशभिर्विट्क्षत्रे . तस्माद्ब्राह्मणो मुख्यो भवति . एवं तन्मुख्यो भवति य एवं वेद . तूष्णीं शूद्रमजनयत्तस्माच्छूद्रो निर्विद्योऽभवत् . न वेदं इवा न नक्तमासीदव्यावृतम् . स प्रजापतिरानुष्टुभाभ्यामर्धर्चाभ्यामहोरात्रावकल्पयत् . ततो व्यैच्छत् व्येवास्मा उच्छति . अथो तम एवापहते . ऋग्वेदमस्या आद्यात्पादादकल्पयत् . यजुर्द्वितीयात् . साम तृतीयात् . अथर्वाङ्गिरसश्चतुर्थात् यदष्टाक्षरपदा तेन गायत्री . यदेकादशपदा तेन त्रिष्टुप् . यच्चतुष्पदा तेन जगती यद्द्वात्रिंशदक्षरा तेनानुष्टुप् . सा वा एषा सर्वाणि छन्दांसि . य इमां सर्वाणि छन्दांसि वेद . सर्वं जगदानुष्टुभ एवोत्पन्नमनुष्टुप्प्रतिष्ठितं प्रतितिष्ठति यश्चैवं वेद .. ५.. अथ यदा प्रजाः सृष्टा न जायन्ते प्रजापतिः कथं न्विमाः प्रजाः सृजेयमिति चिन्तयन्नुग्रमितीमामृचं गातुमुपाक्रामत् . ततः प्रथमपादादुग्ररूपो देवः प्रादुरभूत् एकः श्यामः पुरतो रक्तः पिनाकी स्त्रीपुंसरूपस्तं विभज्य स्त्रीषु तस्य स्त्रीरूपं पुंसि च पुंरूपं व्यधात् . उभाभ्यानंशाभ्यां सर्वमादिष्टः . ततः प्रजाः प्रजायन्ते . य एवं वेद प्रजापतेः सोऽपि त्र्यम्बक इमामृचमुद्गाय- न्नुद्ग्रथितजटाकलापः प्रत्यग्ज्योतिष्यात्मन्येव रन्तारमिति . इन्द्रो वै किल देवानामनुजावर आसीत् . तं प्रजापतिरब्रवीद्गच्छ देवानामधिपतिर्भवेति . सोऽगच्छत् . तं देवा ऊचुरनुजावरोऽसि त्वमस्माकं कुतस्त्वाधिपत्यमिति . स प्रजापतिमभ्येत्योवाचैवं देवा ऊचुरनुजावरस्य कुतस्तवाधिपत्यमिति . तं प्रजापतिरिन्द्रं त्रिकलशैरमृतपूर्णैरानुष्टुभाभिमन्त्रितैरभिषिच्य तं सुदर्शनेन दक्षिणतो ररक्ष पाञ्चजन्येन वामतो द्वयेनैव सुरक्षितोऽभवत् . रौक्मे फलके सूर्यवर्चसि मन्त्रमानुष्टुभं विन्यस्य तदस्य कण्ठे प्रत्यमुञ्चत् . ततः सुदुर्निरीक्षोऽभवत् . तस्मै विद्यामानुष्टुभीं प्रादात् . ततो देवास्तमाधिपत्यायानुमेनिरे . स स्वराडभूत् . य एवं वेद स्वराड् भवेत् . सोऽमन्यत पृथिवीमपि कथमपां जयेयमिति . स प्रजापतिमुपाधावत् . तस्मात्प्रजापतिः कमठाकारमिन्द्रनागभुजगेन्द्राधारं भद्रासनं प्रादात् . स पृथिवीमभ्यजयत् . ततः स उभयोर्लोकयोरधिपतिरभूत् . य एवं वेदोभयोर्लोकयोरधिपतिर्भवति . स पृथिवीं जयति यो वा अप्रतिष्ठितं शिथिलं भ्रातृवेभ्यो वसीयान्भवति यश्चैवं वेद यश्चैवं वेद .. ६.. य इमां विद्यामधीते स सर्वान्वेदानधीते . स सर्वैः क्रतुभिर्यजते . स सर्वतीर्थेषु स्नाति . स महापातकोपपातकैः प्रमुच्यते . स ब्रह्मवर्चसं महदाप्नुयात् . आब्रह्मणः पूर्वानाकल्पाऽश्चोत्तरांश्च वंशान्पुनीते . नैनमपस्मारादयो रोगा आदिधेयुः . सयक्षाः सप्रेतपिशाचा अप्येनं स्पृष्ट्वा दृष्ट्वा श्रुत्वा वा पापिनः पुण्यांॅल्लोकानवाप्नुयुः . चिन्तितमात्रादस्य सर्वेऽर्थाः सिद्ध्येयुः . पितरमिवैनं सर्वे मन्यन्ते . राजानश्चास्यादेशकारिणो भवन्ति . न चाचार्यव्यतिरिक्तं श्रेयांसं दृष्ट्वा नमस्कुर्यात् . न चास्मादुपावरोहेत् . जीवन्मुक्तश्च भवति . देहान्ते तमसः परं धाम प्राप्नुयात् . यत्र विराण् नृसिंहोऽवभासते तत्र खलूपासते . तत्स्वरूपध्यानपरा मुनय आकल्पान्ते तस्मिन्नेवात्मनि लीयन्ते . न च पुनरावर्तन्ते . न चेमां विद्यामश्रद्दधानाय ब्रूयान्नासूयावते नानूचानाय नाविष्णुभक्ताय नानृतिने नातपसे नादान्ताय नाशान्ताय नादीक्षिताय नाधर्मशीलाय न हिंसकाय नाब्रह्मचारिण इत्येषोपनिषत् .. ॐ आप्यायन्तु ममाङ्गानि वाक्प्राणश्चक्षुः श्रोत्रमथो बलमिन्द्रियाणि च .. सर्वाणि सर्वं ब्रह्मोपनिषदं माहं ब्रह्म निराकुर्यां मा मा ब्रह्म निराकरोदनिराकरण- मस्त्वनिराकरणं मेस्तु तदात्मनि निरते य उपनिषत्सु धर्मास्ते मयि सन्तु ते मयि सन्तु .. ॐ शान्तिः शान्तिः शान्तिः .. हरिः ॐ तत्सत् .. इत्यव्यक्तोपनिषत्समाप्ता ..