अवधूत उपनिषद्
From Wikisource
.. अवधूतोपनिषत् .. गौणमुख्यावधूतालिहृदयाम्बुजवर्ति यत् . तत्त्रैपदं ब्रह्मतत्त्वं स्वमात्रमवशिष्यते .. ॐ सह नाववतु .. सह नौ भुनक्तु .. सह वीर्यं करवावहै .. तेजस्विनावधीतमस्तु मा विद्विषावहै .. ॐ शान्तिः शान्तिः शान्तिः .. हरिः ॐ अथ ह सांकृतिर्भगवन्तमवधूतं दत्तात्रेयं परिसमेत्य पप्रच्छ भगवन्कोऽवधूतस्य का स्थितिः किं लक्ष्म किं संसरणमिति . तं होवाच भगवो दत्तात्रेयः परमकारुणिकः .. अक्षरत्वाद्वरेण्यत्वाद्धृतसंसारबन्धनात् . तत्त्वमस्यादिलक्ष्यत्वादवधूत इतीर्यते .. १.. यो विलङ्घ्याश्रमान्वर्णानात्मन्येव स्थितः सदा . अतिवर्णाश्रमी योगी अवधूतः स कथ्यते .. २.. तस्य प्रियं शिरः कृत्वा मोदो दक्षिणपक्षकः . प्रमोद उत्तरः पक्ष आनन्दो गोष्पदायते .. ३.. गोपालसदृशां शीर्षे नापि मध्ये न चाप्यधः . ब्रह्मपुच्छं प्रतिष्ठेति पुच्छाकारेण कारयेत् .. ४.. एवं चतुष्पथं कृत्वा ते यान्ति परमां गतिम् . न कर्मणा न प्रजया धनेन त्यागेनैके अमृतत्वमानशुः .. ५.. स्वैरं स्वैरविहरणं तत्संसरणम् . सांबरा वा दिगंबरा वा . न तेषां धर्माधर्मौ न मेध्यामेधौ . सदा सांग्रहण्येष्ट्याश्वमेधमन्तयागं यजते . स महामखो महायोगः . कृत्स्नमेतच्चित्रं कर्म. स्वैरं न विगायेत्तन्महाव्रतम् . न स मूढवल्लिप्यते . यथा रविः सर्वरसान्प्रभुङ्क्ते
हुताशनश्चापि हि सर्वभक्षः .
तथैव योगी विषयान्प्रभुङ्क्ते
न लिप्यते पुण्यपापैश्च शुद्धः .. ६..
आपूर्यमाणमचलप्रतिष्ठं
समुद्रमापः प्रविशन्ति यद्वत् .
तद्वत्कामा यं प्रविशन्ति सर्वे
स शान्तिमाप्नोति न कामकामी .. ७..
न निरोधो न चोत्पत्तिर्न बद्धो न च साधकः . न मुमुक्षुर्न वै मुक्त इत्येषा परमार्थता .. ८.. ऐहिकामुष्मिकव्रातसिद्धै मुक्तेश्च सिद्धये . बहुकृत्यं पुरा स्यान्मे तत्सर्वमधुना कृतम् .. ९.. तदेव कृतकृत्यत्वं प्रतियोगिपुरःसरम् . अनुसन्दधदेवायमेवं तृप्यति नित्यशः .. १०.. दुःखिनोऽज्ञाः संसरन्तु कामं पुत्राद्यपेक्षया . परमानन्दपूर्णोऽहं संसरामि किमिच्छया .. ११.. अनुतिष्ठन्तु कर्माणि परलोकयियासवः . सर्वलोकात्मकः कस्मादनुतिष्ठामि किं कथम् .. १२.. व्याचक्षतां ते शास्त्राणि वेदानध्यापयन्तु वा . येऽत्राधिकारिणो मे तु नाधिकारोऽक्रियत्वतः .. १३.. निद्राभिक्षे स्नानशौचे नेच्छामि न करोमि च . द्रष्टारश्चेत्कल्पयन्तु किं मे स्यादन्यकल्पनात् .. १४.. गुञ्जापुञ्जादि दह्येत नान्यारोपितवह्निना . नान्यारोपितसंसारधर्मा नैवमहं भजे .. १५.. शृण्वन्त्वज्ञाततत्त्वास्ते जानन्कस्माञ्छृणोम्यहम् . मन्यन्तां संशयापन्ना न मन्येऽहमसंशयः .. १६.. विपर्यस्तो निदिध्यासे किं ध्यानमविपर्यये . देहात्मत्वविपर्यासं न कदाचिद्भजाम्यहम् .. १७.. अहं मनुष्य इत्यादिव्यवहारो विनाप्यमुम् . विपर्यासं चिराभ्यस्तवासनातोऽवकल्पते .. १८.. आरब्धकर्मणि क्षीणे व्यवहारो निवर्तते . कर्मक्षये त्वसौ नैव शामेद्ध्यानसहस्रतः .. १९.. विरलत्वं व्यवहृतेरिष्टं चेद्ध्यानमस्तु ते . बाधिकर्मव्यवहृतिं पश्यन्ध्यायाम्यहं कुतः .. २०.. विक्षेपो नास्ति यस्मान्मे न समाधिस्ततो मम . विक्षेपो वा समाधिर्वा मनसः स्याद्विकारिणः . नित्यानुभवरूपस्य को मेऽत्रानुभवः पृथक् .. २१.. कृतं कृत्यं प्रापणीयं प्राप्तमित्येव नित्यशः . व्यवहारो लौकिको वा शास्त्रीयो वान्यथापि वा . ममाकर्तुरलेपस्य यथारब्धं प्रवर्तताम् .. २२.. अथवा कृतकृत्येऽपि लोकानुग्रहकाम्यया . शास्त्रीयेणैव मार्गेन वर्तेऽहं मम का क्षतिः .. २३.. देवार्चनस्नानशौचभिक्षादौ वर्ततां वपुः . तारं जपतु वाक्तद्वत्पठत्वाम्नायमस्तकम् .. २४.. विष्णुं ध्यायतु धीर्यद्वा ब्रह्मानन्दे विलीयताम् . साक्ष्यहं किंचिदप्यत्र न कुर्वे नापि कारये .. २५.. कृतकृत्यतया तृप्तः प्राप्तप्राप्यतया पुनः . तृप्यन्नेवं स्वमनसा मन्यतेसौ निरन्तरम् .. २६.. धन्योऽहं धन्योऽहं नित्यं स्वात्मानमञ्जसा वेद्मि . धन्योऽहं धन्योऽहं ब्रह्मानन्दो विभाति मे स्पष्टम् .. २७.. धन्योऽहं धन्योऽहं दुःखं सांसारिकं न वीक्षेऽद्य . धन्योऽहं धन्योऽहं स्वस्याज्ञानं पलायितं क्वापि .. २८.. धन्योऽहं धन्योऽहं कर्तव्यं मे न विद्यते किंचित् . धन्योऽहं धन्योऽहं प्राप्तव्यं सर्वमत्र संपन्नम् .. २९.. धन्योऽहं धन्योऽहं तृप्तेर्मे कोपमा भवेल्लोके . धन्योऽहं धन्योऽहं धन्यो धन्यः पुनः पुनर्धन्यः .. ३०.. अहो पुण्यमहो पुण्यं फलितं फलितं दृढम् . अस्य पुण्यस्य संपत्तेरहो वयमहो वयम् .. ३१.. अहो ज्ञानमहो ज्ञानमहो सुखमहो सुखम् . अहो शास्त्रमहो शास्त्रमहो गुरुरहो गुरुः .. ३२.. इति य इदमधीते सोऽपि कृतकृत्यो भवति . सुरापानात्पूतो भवति . स्वर्णस्तेयात्पूतो भवति . ब्रह्महत्यात्पूतो भवति . कृत्याकृत्यात्पूतो भवति . एवं विदित्वा स्वेच्छाचारपरो भूयादोंसत्यमित्युपनिषत् .. ॐ सह नाववतु .. सह नौ भुनक्तु .. सह वीर्यं करवावहै .. तेजस्विनावधीतमस्तु मा विद्विषावहै .. ॐ शान्तिः शान्तिः शान्तिः .. इत्यवधूतोपनिषत्समाप्ता ..