अयोध्याकाण्डे एकोनचत्वारिंशः सर्गः ॥२-३९॥
From Wikisource
श्रीमद्वाल्मीकियरामायणे अयोध्याकाण्डे एकोनचत्वारिंशः सर्गः ॥२-३९॥
रामस्य तु वचः श्रुत्वा मुनि वेष धरम् च तम् ।
समीक्ष्य सह भार्याभी राजा विगत चेतनः ॥२-३९-१॥
न एनम् दुह्खेन सम्तप्तः प्रत्यवैक्षत राघवम् ।
न च एनम् अभिसम्प्रेक्ष्य प्रत्यभाषत दुर्मनाः ॥२-३९-२॥
स मुहूर्तम् इव असम्ज्ञो दुह्खितः च मही पतिः ।
विललाप महा बाहू रामम् एव अनुचिन्तयन् ॥२-३९-३॥
मन्ये खलु मया पूर्वम् विवत्सा बहवः कृताः ।
प्राणिनो हिम्सिता वा अपि तस्मात् इदम् उपस्थितम् ॥२-३९-४॥
न तु एव अनागते काले देहाच् च्यवति जीवितम् ।
कैकेय्या क्लिश्यमानस्य मृत्युर् मम न विद्यते ॥२-३९-५॥
मो अहम् पावक सम्काशम् पश्यामि पुरतः स्थितम् ।
विहाय वसने सूक्ष्मे तापस आच्चादम् आत्मजम् ॥२-३९-६॥
एकस्याः खलु कैकेय्याः कृते अयम् क्लिश्यते जनः ।
स्व अर्थे प्रयतमानायाः सम्श्रित्य निकृतिम् त्विमाम् ॥२-३९-७॥
एवम् उक्त्वा तु वचनम् बाष्पेण पिहित ईक्ष्णह ।
राम इति सकृद् एव उक्त्वा व्याहर्तुम् न शशाक ह ॥२-३९-८॥
सम्ज्ञाम् तु प्रतिलभ्य एव मुहूर्तात् स मही पतिः ।
नेत्राभ्याम् अश्रु पूर्णाभ्याम् सुमन्त्रम् इदम् अब्रवीत् ॥२-३९-९॥
औपवाह्यम् रथम् युक्त्वा त्वम् आयाहि हय उत्तमैः ।
प्रापय एनम् महा भागम् इतः जन पदात् परम् ॥२-३९-१०॥
एवम् मन्ये गुणवताम् गुणानाम् फलम् उच्यते ।
पित्रा मात्रा च यत् साधुर् वीरः निर्वास्यते वनम् ॥२-३९-११॥
राज्ञो वचनम् आज्ञाय सुमन्त्रः शीघ्र विक्रमः ।
योजयित्वा आययौ तत्र रथम् अश्वैः अलम्कृतम् ॥२-३९-१२॥
तम् रथम् राज पुत्राय सूतः कनक भूषितम् ।
आचचक्षे अन्जलिम् कृत्वा युक्तम् परम वाजिभिः ॥२-३९-१३॥
राजा सत्वरम् आहूय व्यापृतम् वित्त सम्चये ।
उवाच देश कालज्ञो निश्चितम् सर्वतः शुचि ॥२-३९-१४॥
वासाम्सि च महा अर्हाणि भूषणानि वराणि च ।
वर्षाणि एतानि सम्ख्याय वैदेह्याः क्षिप्रम् आनय ॥२-३९-१५॥
नर इन्द्रेण एवम् उक्तः तु गत्वा कोश गृहम् ततः ।
प्रायच्चत् सर्वम् आहृत्य सीतायै क्षिप्रम् एव तत् ॥२-३९-१६॥
सा सुजाता सुजातानि वैदेही प्रस्थिता वनम् ।
भूषयाम् आस गात्राणि तैः विचित्रैः विभूषणैः ॥२-३९-१७॥
व्यराजयत वैदेही वेश्म तत् सुविभूषिता ।
उद्यतः अम्शुमतः काले खम् प्रभा इव विवस्वतः ॥२-३९-१८॥
ताम् भुजाभ्याम् परिष्वज्य श्वश्रूर् वचनम् अब्रवीत् ।
अनाचरन्तीम् कृपणम् मूध्नि उपाघ्राय मैथिलीम् ॥२-३९-१९॥
असत्यः सर्व लोके अस्मिन् सततम् सत्कृताः प्रियैः ।
भर्तारम् न अनुमन्यन्ते विनिपात गतम् स्त्रियः ॥२-३९-२०॥
एष स्वभावो नारीणामनुभूय पुरा सुखम् ।
अल्पामप्यापदम् प्राप्य दुष्यन्ति प्रजहत्यपि ॥२-३९-२१॥
असत्यशीला विकृता दुर्र्गाह्याहृदयास्तथा ।
युवत्यः पापसम्कल्पाः क्षणमात्राद्विरागिणः ॥२-३९-२२॥
न कुलम् न कृतम् विद्या न दत्तम् नापि सम्ग्रहः ।
स्त्रीणाम् गृह्णाति हृदयमनित्यहृदया हि ताः ॥२-३९-२३॥
साध्वीनाम् हि स्थितानाम् तु शीले सत्ये श्रुते शमे ।
स्त्रीणाम् पवित्रम् परमम् पतिरेको विशिष्यते ॥२-३९-२४॥
स त्वया न अवमन्तव्यः पुत्रः प्रव्राजितः मम ।
तव दैवतम् अस्तु एष निर्धनः सधनो अपि वा ॥२-३९-२५॥
विज्ञाय वचनम् सीता तस्या धर्म अर्थ सम्हितम् ।
कृत अन्जलिर् उवाच इदम् श्वश्रूम् अभिमुखे स्थिता ॥२-३९-२६॥
करिष्ये सर्वम् एव अहम् आर्या यद् अनुशास्ति माम् ।
अभिज्ञा अस्मि यथा भर्तुर् वर्तितव्यम् श्रुतम् च मे ॥२-३९-२७॥
न माम् असज् जनेन आर्या समानयितुम् अर्हति ।
धर्मात् विचलितुम् न अहम् अलम् चन्द्रात् इव प्रभा ॥२-३९-२८॥
न अतन्त्री वाद्यते वीणा न अचक्रः वर्तते रथः ।
न अपतिः सुखम् एधते या स्यात् अपि शत आत्मजा ॥२-३९-२९॥
मितम् ददाति हि पिता मितम् माता मितम् सुतः ।
अमितस्य हि दातारम् भर्तारम् का न पूजयेत् ॥२-३९-३०॥
सा अहम् एवम् गता श्रेष्ठा श्रुत धर्म पर अवरा ।
आर्ये किम् अवमन्येयम् स्त्रीणाम् भर्ता हि दैवतम् ॥२-३९-३१॥
सीताया वचनम् श्रुत्वा कौसल्या हृदयम् गमम् ।
शुद्ध सत्त्वा मुमोच अश्रु सहसा दुह्ख हर्षजम् ॥२-३९-३२॥
ताम् प्रान्जलिर् अभिक्रम्य मातृ मध्ये अतिसत्कृताम् ।
रामः परम धर्मज्ञो मातरम् वाक्यम् अब्रवीत् ॥२-३९-३३॥
अम्ब मा दुह्खिता भूस् त्वम् पश्य त्वम् पितरम् मम ।
क्षयो हि वन वासस्य क्षिप्रम् एव भविष्यति ॥२-३९-३४॥
सुप्तायाः ते गमिष्यन्ति नव वर्षाणि पन्च च ।
सा समग्रम् इह प्राप्तम् माम् द्रक्ष्यसि सुहृद् वृतम् ॥२-३९-३५॥
एतावद् अभिनीत अर्थम् उक्त्वा स जननीम् वचः ।
त्रयः शत शत अर्धा हि ददर्श अवेक्ष्य मातरः ॥२-३९-३६॥
ताः च अपि स तथैव आर्ता मातृऋर् दशरथ आत्मजः ।
धर्म युक्तम् इदम् वाक्यम् निजगाद कृत अन्जलिः ॥२-३९-३७॥
सम्वासात् परुषम् किम्चित् अज्ञानात् वा अपि यत् कृतम् ।
तन् मे समनुजानीत सर्वाः च आमन्त्रयामि वः ॥२-३९-३८॥
वचनम् राघवस्यैतद्धर्मयुक्तम् समाहितम् ।
शुश्रुवु स्ताः स्त्रियम् सर्वाः शोकोपहतचेतसः ॥२-३९-३९॥
जज्ञे अथ तासाम् सम्नादः क्रौन्चीनाम् इव निह्स्वनः ।
मानव इन्द्रस्य भार्याणाम् एवम् वदति राघवे ॥२-३९-४०॥
मुरज पणव मेघ घोषव ।
द्दशरथ वेश्म बभूव यत् पुरा ।
विलपित परिदेवन आकुलम् ।
व्यसन गतम् तत् अभूत् सुदुह्खितम् ॥२-३९-४१॥
इति वाल्मीकि रामायणे आदि काव्ये अयोध्याकाण्डे एकोनचत्वारिंशः सर्गः ॥२-३९॥