अमृत-बिन्दु उपनिषद्
From Wikisource
.. अमृतबिन्दु ..
ॐ भद्रं कर्णेभिः शृणुयाम देवाः भद्रं पश्येमाक्षभिर्यजत्राः . स्थिरैरङ्गैस्तुष्टुवांसस्तनूभिर्व्यशेम देवहितं यदायुः . स्वस्ति न इन्द्रो वृद्धश्रवाः स्वस्ति नः पूषा विश्ववेदाः . स्वस्ति नस्तार्क्ष्योऽरिष्टनेमिः स्वस्ति नो बृहस्पतिर्दधातु .
ॐ शान्तिः शान्तिः शान्तिः .
हरिः ॐ ..
मनो हि द्विविधं प्रोक्तं शुद्धं चाशुद्धमेव च . अशुद्धं कामसंकल्पं शुद्धं कामविवर्जितम् .. १..
मन एव मनुष्याणां कारणं बन्धमोक्षयोः . बन्धाय पिष्यासक्तं मुक्तंये निर्विषयं स्मृतम् .. २..
यतो निर्विष्यस्यास्य मनसो मुक्तिरिष्यते . अतो निर्विषयं नित्यं मनः कार्यं मुमुक्षुणा .. ३..
निरस्तनिषयासङ्गं संनिरुद्धं मनो हृदि . यदाऽऽयात्यात्मनो भावं तदा तत्परमं पदम् .. ४..
तावदेव निरोद्धव्यं यावद्धृति गतं क्षयम् . एतज्ज्ञानं च ध्यानं च शेषो न्यायश्च विस्तरः .. ५..
नैव चिन्त्यं न चाचिन्त्यं न चिन्त्यं चिन्त्यमेव च . पक्षपातविनिर्मुक्तं ब्रह्म संपद्यते तदा .. ६..
स्वरेण संधयेद्योगमस्वरं भावयेत्परम् . अस्वरेणानुभावेन नाभावो भाव इष्यते .. ७..
तदेव निष्कलं ब्रह्म निर्विकल्पं निरञ्जनम् . तदब्रह्मामिति ज्ञात्वा ब्रह्म संपद्यते ध्रुवम् .. ८..
निर्विकल्पमनन्तं च हेतुद्याष्टान्तवर्जितम् . अप्रमेयमनादिं च यज्ञात्वा मुच्यते बुधः .. ९..
न निरोधो न चोत्पत्तिर्न बद्धो न च साधकः . न मुमुक्षुर्न वै मुक्त इत्येषा परमार्थता .. १०..
एक एवाऽऽत्मा मन्थव्यो जाग्रत्स्वप्नसुषुप्तिषु . स्थानत्रयव्यतीतस्य पुनर्जन्म न विद्यते .. ११..
एक एव हि भूतात्मा भूते भूते व्यवस्थितः . एकधा बहुधा चैव दृष्यते जलचन्द्रवत् .. १२..
घटसंवृतमाकाशं नीयमानो घटे यथा . घटो नीयेत नाऽकाशः तद्धाज्जीवो नभोपमः .. १३..
घटवद्विविधाकारं भिद्यमानं पुनः पुनः . तद्भेदे न च जानाति स जानाति च नित्यशः .. १४..
शब्दमायावृतो नैव तमसा याति पुष्करे . भिन्नो तमसि चैकत्वमेक एवानुपश्यति .. १५..
शब्दाक्षरं परं ब्रह्म तस्मिन्क्षीणे यदक्षरम् . तद्विद्वानक्षरं ध्यायेच्द्यदीच्छेछान्तिमात्मनः .. १६..
द्वे विद्ये वेदितव्ये तु शब्दब्रह्म परं च यत् . शब्दब्रह्माणि निष्णातः परं ब्रह्माधिगच्छति .. १७..
ग्रन्थमभ्यस्य मेधावी ज्ञानवीज्ञानतत्परः . पलालमिव धान्यार्यी त्यजेद्ग्रन्थमशेषतः .. १८..
गवामनेकवर्णानां क्षीरस्याप्येकवर्णता . क्षीरवत्पष्यते ज्ञानं लिङ्गिनस्तु गवां यथा .. १९..
धृतमिव पयसि निगूढं भूते भूते च वसति विज्ञानम् . सततं मनसि मन्थयितव्यं मनु मन्थानभूतेन .. २०..
ज्ञाननेत्रं समाधाय चोद्धरेद्वह्गिवत्परम् . निष्कलं निश्चलं शान्तं तद्ब्रह्माहमिति स्मृतम् .. २१..
सर्वभूताधिवासं यद्भूतेषु च वसत्यपि . सर्वानुग्राहकत्वेन तद्स्म्यहं वासुदेवः .. २२..
ॐ भद्रं कर्णेभिः शृणुयाम देवाः भद्रं पश्येमाक्षभिर्यजत्राः . स्थिरैरङ्गैस्तुष्टुवांसस्तनूभिर्व्यशेम देवहितं यदायुः . स्वस्ति न इन्द्रो वृद्धश्रवाः स्वस्ति नः पूषा विश्ववेदाः . स्वस्ति नस्तार्क्ष्योऽरिष्टनेमिः स्वस्ति नो बृहस्पतिर्दधातु .
ॐ शान्तिः शान्तिः शान्तिः .
हरिः ॐ ..
.. इत्यथर्ववेदेऽमृत्बिन्दूपनिषत्समाप्ता ..