अमृत-नाद उपनिषद्

From Wikisource

Jump to: navigation, search

.. अमृतनादोपनिषत् २१ .. अमृतनादोपनिषत्प्रतिपाद्यं पराक्षरम् . त्रैपदानन्दसाम्राज्यं हृदि मे भातु सन्ततम् .. ॐ सह नाववतु . सह नौ भुनक्तु . सह वीर्यं करवावहै . तेजस्विनावधीतमस्तु मा विद्विषावहै .. ॐ शान्तिः शान्तिः शान्तिः .. शास्त्राण्यधीत्य मेधावी अभ्यस्य च पुनः पुनः . परमं ब्रह्म विज्ञाय उल्कावत्तान्यथोत्सृजेत् .. १.. ओङ्कारं रथमारुह्य विष्णुं कृत्वाथ सारथिम् . ब्रह्मलोकपदान्वेषी रुद्राराधनतत्परः .. २.. तावद्रथेन गन्तव्यं यावद्रथपथि स्थितः . स्थित्वा रथपथस्थानं रथमुत्सृज्य गच्छति .. ३.. मात्रालिङ्गपदं त्यक्त्वा शब्दव्यञ्जनवर्जितम् . अस्वरेण मकारेण पदं सूक्ष्मं च गच्छति .. ४.. शब्दादिविषयाः पञ्च मनश्चैवातिचञ्चलम् . चिन्तयेदात्मनो रश्मीन्प्रत्याहारः स उच्यते .. ५.. प्रत्याहारस्तथा ध्यानं प्राणायामोऽथ धारणा . तर्कश्चैव समाधिश्च षडङ्गो योग उच्यते .. ६.. यथा पर्वतधातूनां दह्यन्ते धमनान्मलाः . तथेन्द्रियकृता दोषा दह्यन्ते प्राणनिग्रहात् .. ७.. प्राणायामैर्दहेद्दोषान्धारणाभिश्च किल्बिषम् . प्रत्याहारेण संसर्गाद्ध्यानेनानीश्वरान्गुणान् .. ८.. किल्बिषं हि क्षयं नीत्वा रुचिरं चैव चिन्तयेत् .. ९.. रुचिरं रेचकं चैव वायोराकर्षणं तथा . प्राणायामस्त्रयः प्रोक्ता रेचपूरककुम्भकाः .. १०.. सव्याहृतिं सप्रणवां गायत्रीं शिरसा सह . त्रिः पठेदायतप्राणः प्राणायामः स उच्यते .. ११.. उत्क्षिप्य वायुमाकाशं शून्यं कृत्वा निरात्मकम् . शून्यभावेन युञ्जीयाद्रेचकस्येति लक्षणम् .. १२.. वक्त्रेणोत्पलनालेन तोयमाकर्षयेन्नरः . एवं वायुर्ग्रहीतव्यः पूरकस्येति लक्षणम् .. १३.. नोच्छ्वसेन्न च निश्वासेत् गात्राणि नैव चालयेत् . एवं भावं नियुञ्जीयात् कुम्भकस्येति लक्षणम् .. १४.. अन्धवत्पश्य रूपाणि शब्दं बधिरवत् शृणु . काष्ठवत्पश्य ते देहं प्रशान्तस्येति लक्षणम् .. १५.. मनः सङ्कल्पकं ध्यात्वा संक्षिप्यात्मनि बुद्धिमान् . धारयित्वा तथाऽऽत्मानं धारणा परिकीर्तिता .. १६.. आगमस्याविरोधेन ऊहनं तर्क उच्यते . समं मन्येत यं लब्ध्वा स समाधिः प्रकीर्तितः .. १७.. भूमिभागे समे रम्ये सर्वदोषविवर्जिते . कृत्वा मनोमयीं रक्षां जप्त्वा चैवाथ मण्डले .. १८.. पद्मकं स्वस्तिकं वापि भद्रासनमथापि वा . बद्ध्वा योगासनं सम्यगुत्तराभिमुखः स्थितः .. १९.. नासिकापुटमङ्गुल्या पिधायैकेन मारुतम् . आकृष्य धारयेदग्निं शब्दमेवाभिचिन्तयेत् .. २०.. ओमित्येकाक्षरं ब्रह्म ओमित्येकेन रेचयेत् . दिव्यमन्त्रेण बहुशः कुर्यादात्ममलच्युतिम् .. २१.. पश्चाद्ध्यायीत पूर्वोक्तक्रमशो मन्त्रविद्बुधः . स्थूलातिस्थूलमात्रायं नाभेरूर्ध्वरुपक्रमः .. २२.. तिर्यगूर्ध्वमधो दृष्टिं विहाय च महामतिः . स्थिरस्थायी विनिष्कम्पः सदा योगं समभ्यसेत् .. २३.. तालमात्राविनिष्कम्पो धारणायोजनं तथा . द्वादशमात्रो योगस्तु कालतो नियमः स्मृतः .. २४.. अघोषमव्यञ्जनमस्वरं च अकण्ठताल्वोष्ठमनासिकं च . अरेफजातमुभयोष्मवर्जितं यदक्षरं न क्षरते कदाचित् .. २५.. येनासौ पश्यते मार्गं प्राणस्तेन हि गच्छति . अतस्तमभ्यसेन्नित्यं सन्मार्गगमनाय वै .. २६.. हृद्द्वारं वायुद्वारं च मूर्धद्वारमतः परम् . मोक्षद्वारं बिलं चैव सुषिरं मण्डलं विदुः .. २७.. भयं क्रोधमथालस्यमतिस्वप्नातिजागरम् . अत्याहरमनाहरं नित्यं योगी विवर्जयेत् .. २८.. अनेन विधिना सम्यङ्नित्यमभ्यसतः क्रमात् . स्वयमुत्पद्यते ज्ञानं त्रिभिर्मासैर्न संशयः .. २९.. चतुर्भिः पश्यते देवान्पञ्चभिस्तुल्यविक्रमः . इच्छयाप्नोति कैवल्यं षष्ठे मासि न संशयः .. ३०.. पार्थिवः पञ्चमात्रस्तु चतुर्मात्राणि वारुणः . आग्नेयस्तु त्रिमात्रोऽसौ वायव्यस्तु द्विमात्रकः .. ३१.. एकमात्रस्तथाकाशो ह्यर्धमात्रं तु चिन्तयेत् . सिद्धिं कृत्वा तु मनसा चिन्तयेदात्मनात्मनि .. ३२.. त्रिंशत्पर्वाङ्गुलः प्राणो यत्र प्राणः प्रतिष्ठितः . एष प्राण इति ख्यातो बाह्यप्राणस्य गोचरः .. ३३.. अशीतिश्च शतं चैव सहस्राणि त्रयोदश . लक्षश्चैकोननिःश्वास अहोरात्रप्रमाणतः .. ३४.. प्राण आद्यो हृदिस्थाने अपानस्तु पुनर्गुदे . समानो नाभिदेशे तु उदानः कण्ठमाश्रितः .. ३५.. व्यानः सर्वेषु चाङ्गेषु सदा व्यावृत्य तिष्ठति . अथ वर्णास्तु पञ्चानां प्राणादीनामनुक्रमात् .. ३६.. रक्तवर्नो मणिप्रख्यः प्राणो वायुः प्रकीर्तितः . अपानस्तस्य मध्ये तु इन्द्रगोपसमप्रभः .. ३७.. समानस्तु द्वयोर्मध्ये गोक्षीरधवलप्रभः . आपाण्डर उदानश्च व्यानो ह्यर्चिस्समप्रभः .. ३८.. यस्येदं मण्डलं भित्वा मारुतो याति मूर्धनि . यत्र तत्र म्रियेद्वापि न स भूयोऽबिजायते . न स भूयोऽभिजायत इत्युपनिषत् .. ३९.. ॐ सह नाववत्विति शान्तिः ..

.. इति कृष्णयजुर्वेदीय अमृतनादोपनिषत्समाप्ता ..