अन्नपूर्ण उपनिषद्
From Wikisource
.. अन्नपूर्णोपनिषत् ..
Contents |
[edit] प्रथमोऽध्यायः
सर्वापह्नवसंसिद्धब्रह्ममात्रतयोज्ज्वलम् . त्रैपदं श्रीरामतत्त्वं स्वमात्रमिति भावये .. ॐ भद्रं कर्णेभिः शृणुयाम देवाः .. भद्रं पश्येमाक्षभिर्यजत्राः .. स्थिरैरङ्गैस्तुष्टुवाँसस्तनूभिः .. व्यशेम देवहितं यदायुः .. स्वस्ति न इन्द्रो वृद्धश्रवाः .. स्वस्ति नः पूषा विश्ववेदाः .. स्वस्ति नस्तार्क्ष्यो अरिष्टनेमिः .. स्वस्ति नो बृहस्पतिर्दधातु .. ॐ शान्तिः शान्तिः शान्तिः .. हरिः ॐ निदाघो नाम योगीन्द्र ऋभुं ब्रह्मविदां वरम् . प्रणम्य दण्डवद्भूमावुत्थाय स पुनर्मुनिः .. १.. आत्मतत्त्वमनुब्रूहीत्येवं पप्रच्छ सादरम् . कयोपासनया ब्रह्मन्नीदृशं प्राप्तवानसि .. २.. तां मे ब्रूहि महाविद्यां मोक्षसाम्राज्यदायिनीम् . निदाघ त्वं कृतार्थोऽसि शृणु विद्यां सनातनीम् .. ३.. यस्या विज्ञानमात्रेण जीवन्मुक्तो भविष्यसि . मूलशृङ्गाटमध्यस्था बिन्दुनादकलाश्रया .. ४.. नित्यानन्दा निराधारा विख्याता विलसत्कचा . विष्टपेशी महालक्ष्मीः कामस्तारो नतिस्तथा .. ५.. भगवत्यन्नपूर्णेति ममाभिलषितं ततः . अन्नं देहि ततः स्वाहा मन्त्रसारेति विश्रुता .. ६.. सप्तविंशति वर्णात्मा योगिनीगणसेविता .. ७.. ऐं ह्रीं सौं श्रीं क्लीमोन्नमो भगवत्यन्नपूर्णे ममाभिलषितमन्नं देहि स्वाहा . इति पित्रोपदिष्टोऽस्मि तदादिनियमः स्थितः . कृतवान्स्वाश्रमाचारो मन्त्रानुष्ठानमन्वहम् .. ८.. एवं गते बहुदिने प्रादुरासीन्ममाग्रतः . अन्नपूर्णा विशालाक्षी स्मयमानमुखाम्बुजा .. ९.. तां दृष्ट्वा दण्डवद्भूमौ नत्वा प्राञ्जलिरास्थितः . अहो वत्स कृतार्थोऽसि वरं वरय मा चिरम् .. १०.. एवमुक्तो विशालाक्ष्या मयोक्तं मुनिपुङ्गव . आत्मतत्त्वं मनसि मे प्रादुर्भवतु पार्वति .. ११.. तथैवास्थिति मामुक्त्वा तत्रैवान्तरधीयत . तदा मे मतिरुत्पन्ना जगद्वैचित्र्यदर्शनात् .. १२.. भ्रमः पञ्चविधो भाति तदेवेह समुच्यते . जीवेश्वरौ भिन्नरूपाविति प्राथमिको भ्रमः .. १२.. आत्मनिष्ठं कर्तृगुणं वास्तवं वा द्वितीयकः . शरीरत्रयसंयुक्तजीवः सङ्गी तृतीयकः .. १३.. जगत्कारणरूपस्य विकारित्वं चतुर्थकः . कारणाद्भिन्नजगतः सत्यत्वं पञ्चमो भ्रमः . पञ्चभ्रमनिवृत्तिश्च तदा स्फुरति चेतसि .. १५.. बिम्बप्रतिबिम्बदर्शनेन भेदभ्रमो निवृत्तः . स्फटिकलोहितदर्शनेन पारमार्थिककर्तृत्वभ्रमो निवृत्तः . घटमठाकाशदर्शनेन सङ्गीतिभ्रमो निवृत्तः . रज्जुसर्पदर्शनेन कारणाद्भिन्नजगतः सत्यत्वभ्रमो निवृत्तः . कनकरुचकदर्शनेन विकारित्वभ्रमो निवृत्तः . तदाप्रभृति मच्चित्तं ब्रह्माकारमभूत्स्वयम् . निदाघ त्वमपीत्थं हि तत्त्वज्ञानमवाप्नुहि .. १६.. निदाघः प्रणतो भूत्वा ऋभुं पप्रच्छ सादरम् . ब्रूहि मे श्रद्दधानाय ब्रह्मविद्यामनुत्तमाम् .. १७.. तथेत्याह ऋभुः प्रीतस्तत्त्वज्ञां वदामि ते . महाकर्ता महाभोक्ता महात्यागी भवानघ . स्वस्वरूपानुसन्धानमेवं कृत्वा सुखी भव .. १८.. नित्योदितं विमलमाद्यमनतरूपं
ब्रह्मास्मि नेतरकलाकलनं हि किंचित् .
इत्येव भावय निरञ्जनतामुपेतो
निर्वाणमेहि सकलामलशान्तवृत्तिः .. १९..
यदिदं दृश्यते किंचित्तत्तन्नास्तीति भावय . यथा गन्धर्वनगरं यथा वारि मरुस्थले .. २०.. यत्तु नो दृश्यते किंचिद्यन्नु किंचिदिव स्थितम् . मनःषष्ठेन्द्रियातीतं तन्मयो भव वै मुने .. २१.. अविनाशि चिदाकाशं सर्वात्मकमखण्डितम् . नीरन्ध्रं भूरिवाशेषं तदस्मीति विभावय .. २२.. यदा संक्षीयते चित्तमभावात्यन्तभावनात् . चित्सामान्यस्वरूपस्य सत्तासामान्यता तदा .. २३.. नूनं चैत्यांशरहिता चिद्यदात्मनि लीयते . असद्रूपवदत्यच्छा सत्तासामान्यता तदा .. २४.. दृष्टिरेषा हि परमा सदेहादेहयोः समा . मुक्तयोः संभवत्येव तुर्यातीतपदाभिधा .. २५.. व्युत्थितस्य भवत्येषा समाधिस्थस्य चानघ . ज्ञस्य केवलमज्ञस्य न भवत्येव बोधजा . अनानन्दसमानन्दमुग्धमुग्धमुखद्युतिः .. २६.. चिरकालपरिक्षीणमननादिपरिभ्रमः . पदमासाद्यते पुण्यं प्रज्ञयैवैकया तथा .. २७.. इमं गुणसमाहारमनात्मत्वेन पश्यतः . अन्तःशीतलया यासौ समाधिरिति कथ्यते .. २८.. अवासनं स्थिरं प्रोक्तं मनोध्यानं तदेव च . तदेव केवलीभानं शान्ततैव च तत्सदा .. २९.. तनुवासनमत्युच्चैः पदायोद्यतमुच्यते . अवासगं मनोऽकर्तृपदं तस्मादवाप्यते .. ३०.. घनवासनमेतत्तु चेतःकर्तृत्वभावनम् . सर्वदुःखप्रदं तस्माद्वासनां तनुतां नयेत् .. ३१.. चेतसा संपरित्यज्य सर्वभावात्मभावनाम् . सर्वमाकाशतामेति नित्यमन्तर्मुखस्थितेः .. ३२.. यथा विपणगा लोका विहरन्तोऽप्यसत्समाः . असंबन्धात्तथा ज्ञस्य ग्रामोऽपि विपिनोपमः .. ३३.. अन्तर्मुखतया नित्यं सुप्तो बुद्धो व्रजन्पठन् . पुरं जनपदं ग्राममरण्यमिव पश्यति .. ३४.. अन्तःशीतलतायां तु लब्धायां शीतलं जगत् . अन्तस्तृष्णोपतप्तानां दावदाहमयं जगत् .. ३५.. भवत्यखिलजन्तूनां यदन्तस्तद्बहिः स्थितम् .. ३६.. यस्त्वात्मरतिरेवान्तः कुर्वन्कर्मेन्द्रियैः क्रियाः . न वशो हर्षशोकाभ्यां स समाहित उच्यते .. ३७.. आत्मवत्सर्वभूतानि परद्रव्याणि लोष्ठवत् . स्वभावादेव न भयाद्यः पश्यति स पश्यति .. ३८.. अद्यैव मृतिरायातु कल्पान्तनिचयेन वा . नासौ कलङ्कमाप्नोति हेम पङ्कगतं यथा .. ३९.. कोऽहं कथमिदं किं वा कथं मरणजन्मनी . विचारयान्तरे वेत्थं महत्तत्फलमेष्यसि .. ४०.. विचारेण परिज्ञातस्वभावस्य सतस्तव . मनः स्वरूपमुत्सृज्य शममेष्यति विज्वरम् .. ४१.. विज्वरत्वं गतं चेतस्तव संसारवृत्तिषु . न निमज्जति तद्ब्रह्मन्गोष्पदेष्विव वारणः .. ४२.. कृपणं तु मनो ब्रह्मन्गोष्पदेऽपि निमज्जति . कार्ये गोष्पदतोयेऽपि विशीर्णो मशको यथा .. ४३.. यावद्यावन्मुनिश्रेष्ठ स्वयं संतज्यतेऽखिलम् . तावत्तावत्परालोकः परमात्मैव शिष्यते .. ४४.. यावत्सर्वं न संत्यक्तं तावदात्मा न लभ्यते . सर्ववस्तुपरित्यागे शेष आत्मेति कथ्यते .. ४५.. आत्मावलोकनार्थं तु तस्मात्सर्वं परित्यजेत् . सर्वं संत्यज्य दूरेण यच्छिष्टं तन्मयो भव .. ४६.. सर्वं किंचिदिदं दृश्यं दृश्यते यज्जगद्गतम् . चिन्निष्पन्दांशमात्रं तन्नान्यत्किंचन शाश्वतम् .. ४७.. समाहिता नित्यतृप्ता यथाभूतार्थदर्शिनी . ब्रह्मन्समाधिशब्देन परा प्रज्ञोच्यते बुधैः .. ४८.. अक्षुब्धा निरहंकारा द्वन्द्वेष्वननुपातिनी . प्रोक्ता समाधिशब्देन मेरोः स्थिरतरा स्थितिः .. ४९.. निश्चिता विगताभीष्टा हेयोपदेयवर्जिता . ब्रह्मन्समाधिशब्देन परिपूर्णा मनोगतिः .. ५०.. केवलं चित्प्रकाशांशकल्पिता स्थिरतां गता . तुर्या सा प्राप्यते दृष्टिर्महद्भिर्वेदवित्तमैः .. ५१.. अदूरगतसादृश्या सुषुप्तस्योपलक्ष्यते . मनोहंकारविलये सर्वभावान्तरस्थिता .. ५२.. समुदेति परानन्दा या तनुः पारमेश्वरी . मनसैव मनश्छित्त्वा सा स्वयं लभ्यते गतिः .. ५३.. तदनु विषयवासनाविनाश-
स्तदनु शुभः परमः स्फुटप्रकाशः .
तदनु च समतावशात्स्वरूपे
परिणमनं महतामचिन्त्यरूपम् .. ५४..
अखिलमिदमनन्तमनन्तमात्मतत्त्वं
दृढपरिणामिनि चेतसि स्थितोऽन्तः .
बहिरुपशमिते चराचरात्मा
स्वयमनुभूयत एव देवदेवः .. ५५..
असक्तं निर्मलं चित्तं युक्तं संसार्यविस्फुटम् . सक्तं तु दीर्घतपसा मुक्तमप्यतिबद्धवत् .. ५६.. अन्तःसंसक्तिनिर्मुक्तो जीवो मधुरवृत्तिमान् . बहिः कुर्वन्नकुर्वन्वा कर्ता भोक्ता न हि क्वचित् .. ५७..
- इति प्रथमोऽध्यायः .. १..
[edit] द्वितीयोऽध्यायः
निदाघ उवाच .. सङ्गः कीदृश इत्युक्तः कश्च बन्धाय देहिनाम् . कश्च मोक्षाय कथितः कथं त्वेष चिकित्स्यते .. १.. देहदेहिविभागैकपरित्यागेन भावना . देहमात्रे हि विश्वासः सङ्गो बन्धाय कथ्यते .. २.. सर्वमात्मेदमत्राहं किं वाञ्छामि त्यजामि किम् . इत्यसङ्गस्थितिं विद्धि जीवन्मुक्ततनुस्थिताम् .. ३.. नाहमस्मि न चान्योस्ति न चायं न च नेतरः . सोऽसङ्ग इति संप्रोक्तो ब्रह्मास्मीत्येव सर्वदा .. ४.. नाभिनन्दति नैष्कर्म्यं न कर्मस्वनुषज्जते . सुसमो यः परित्यागी सोऽसंसक्त इति स्मृतः .. ५.. सर्वकर्मफलादीनां मनसैव न कर्मणा . निपुणो यः परित्यागी सोऽसंसक्त इति स्मृतः .. ६.. असंकल्पेन सकलाश्चेष्टा नाना विजृंभिताः . चिकित्सिता भवन्तीह श्रेयः संपादयन्ति हि .. ७.. न सक्तमिह चेष्टासु न चिन्तासु न वस्तुषु . न गमागमचेष्टासु न कालकलनासु च .. ८.. केवलं चिति विश्रम्य किंचिच्चैत्यावलंब्यपि . सर्वत्र नीरसमिह तिष्ठत्यात्मरसं मनः .. ९.. व्यवहारमिदं सर्वं मा करोतु करोतु वा . अकुर्वन्वापि कुर्वन्वा जीवः स्वात्मरतिक्रियः .. १०.. अथवा तमपि त्यक्त्वा चैत्यांशं शान्तचिद्घनः . जीवस्तिष्ठति संशान्तो ज्वलन्मणिरिवात्मनि .. ११.. चित्ते चैत्यदशाहीने या स्थितिः क्षीणचेतसाम् . सोच्यते शान्तकलना जाग्रत्येव सुषुप्तता .. १२.. एषा निदाघ सौषुप्तस्थितिरभ्यासयोगतः . प्रौढा सती तुरीयेति कथिता तत्त्वकोविदैः .. १३.. अस्यां तुरीयावस्थायां स्थितिं प्राप्याविनाशिनीम् . आनन्दैकान्तशीलत्वादनानन्दपदं गतः .. १४.. अनानन्दमहानन्दकालातीतस्ततोऽपि हि . मुक्त इत्युच्यते योगी तुर्यातीतपदं गतः .. १५.. परिगलितसमस्तजन्मपाशः
सकलविलीनतमोमयाभिमानः .
परमरसमयीं परात्मसत्तां
जलगतसैन्धवखण्डवन्महात्मा .. १६..
जडाजडदृशोर्मध्ये यत्तत्त्वं पारमार्थिकम् . अनुभूतिमयं तस्मात्सारं ब्रह्मेति कथ्यते .. १७.. दृश्यसंवलितो बन्धस्तन्मुक्तौ मुक्तिरुच्यते . द्रव्यदर्शनसंबन्धे यानुभूतिरनामया .. १८.. तामवष्टभ्य तिष्ठ त्वं सौषुप्तीं भजते स्थितिम् . सैव तुर्यत्वमाप्नोति तस्यां दृष्टिं स्थिरां कुरु .. १९.. आत्मा स्थूलो न चैवाणुर्न प्रत्यक्षो न चेतरः . न चेतनो न च जडो न चैवासन्न सन्मयः .. २०.. नाहं नान्यो न चैवैको न चानेकोऽद्वयोऽव्ययः . यदीदं दृश्यतां प्राप्तं मनः सर्वेन्द्रियास्पदम् .. २१.. दृश्यदर्शनसंबन्धे यत्सुखं पारमार्थिकम् . तदतीतं पदं यस्मात्तन्न किंचिदिवैव तत् .. २२.. न मोक्षो नभसः पृष्ठे न पाताले न भूतले . सर्वाशासंक्षये चेतःक्षयो मोक्ष इतीष्यते .. २३.. मोक्षो मेऽस्त्विति चिन्तान्तर्जाता चेदुत्थितं मनः . मननोत्थे मनस्यैष बन्धः सांसारिको दृढः .. २४.. आत्मन्यतीते सर्वस्मात्सर्वरूपेऽथ वा तते . को बन्धः कश्च वा मोक्षो निर्मूलं मननं कुरु .. २५.. अध्यात्मरतिराशान्तः पूर्णपावनमानसः . प्राप्तानुत्तमविश्रान्तिर्न किंचिदिह वाञ्छति .. २६.. सर्वाधिष्ठानसन्मात्रे निर्विकल्पे चिदात्मनि . यो जीवति गतस्नेहः स जीवन्मुक्त उच्यते .. २७.. नापेक्षते भविष्यच्च वर्तमाने न तिष्ठति . न संस्मरत्यतीतं च सर्वमेव करोति च .. २८.. अनुबन्धपरे जन्तावसंसर्गमनाः सदा . भक्ते भक्तसमाचरः शठे शठ इव स्थितः .. २९.. बालो बालेषु वृद्धेषु वृद्धो धीरेषु धैर्यवान् . युवा यौवनवृत्तेषु दुःखितेषु सुदुःखधीः .. ३०.. धीरधीरुदितानन्दः पेशलः पुण्यकीर्तनः . प्राज्ञः प्रसन्नमधुरो दैन्यादपगताशयः .. ३१.. अभ्यासेन परिस्पन्दे प्राणानां क्षयमागते . मनः प्रशममायाति निर्वाणमवशिष्यते .. ३२.. यतो वाचो निवर्तन्ते विकल्पकलनान्विताः . विकल्पसंक्षयाज्जन्तोः पदं तदवशिष्यते .. ३३.. अनाद्यन्तावभासात्मा परमात्मैव विद्यते . इत्येतन्निश्चयं स्फारं सम्यग्ज्ञानं विदुर्बुधाः .. ३४.. यथाभूतार्थदर्शित्वमेतावद्भुवनत्रये . यदात्मैव जगत्सर्वमिति निश्चित्य पूर्णता .. ३५.. सर्वमात्मैव कौ दृष्टौ भावाभावौ क्व वा स्थितौ . क्व बन्धमोक्षकलने ब्रह्मैवेदं विजृम्भते .. ३६.. सर्वमेकं परं व्योम को मोक्षः कस्य बन्धता . ब्रह्मेदं बृंहिताकारं बृहद्बृहदवस्थितम् .. ३७.. दूरादस्तमितद्वित्वं भवात्मैव त्वमात्मना . सम्यगालोकिते रूपे काष्ठपाषाणवाससाम् .. ३८.. मनागपि न भेदोऽस्ति क्वासि संकल्पनोन्मुखः . आदावन्ते च संशान्तस्वरूपमविनाशि यत् .. ३९.. वस्तूनामात्मनश्चैतत्तन्मयो भव सर्वदा . द्वैताद्वैतसमुद्भेदैर्जरामरणविभ्रमैः .. ४०.. स्फुरत्यात्मभिरात्मैव चित्तैरब्धीव वीचिभिः . आपत्करञ्जपरशुं पराया निर्वृतेः पदम् .. ४१.. शुद्धमात्मानमालिङ्ग्य नित्यमन्तस्थया धिया . यः स्थितस्तं क आत्मेह भोगो बाधयितुं क्षमः .. ४२.. कृतस्फारविचारस्य मनोभोगादयोऽरयः . मनागपि न भिन्दन्ति शैलं मन्दानिला इव .. ४३.. नानात्वमस्ति कलनासु न वस्तुतोऽन्त-
र्नानाविधासु सरसीव जलादिवान्यत् .
इत्येकनिश्चयमयः पुरुषो विमुक्त
इत्युच्यते समवलोकितसम्यगर्थः .. ४४..
- इति द्वितीयोऽध्यायः .. २..
[edit] तृतीयोऽध्यायः
विदेहमुक्तेः किं रूपं तद्वान्को वा महामुनिः . कं योगं समुपस्थाय प्राप्तवान्परमं पदम् .. १.. सुमेरोर्वसुधापीठे माण्डव्यो नाम वै मुनिः . कौण्डिन्यात्तत्त्वमास्थाय जीवन्मुक्तो भवत्यसौ .. २.. जीवन्मुक्तिदशां प्राप्य कदाचिद्ब्रह्मवित्तमः . सर्वेन्द्रियाणि संहर्तुं मनश्चक्रे महामुनिः .. ३.. बद्धपद्मासनस्तिष्ठन्नर्धोन्मीलितलोचनः . बाह्यानाभ्यान्तरांश्चैव स्पर्शान्परिहरञ्छनैः .. ४.. ततः स्वमनसः स्थैर्यं मनसा विगतैनसा . अहो नु चञ्चलमिदं प्रत्याहृतमपि स्फुटम् .. ५.. पटाद्घटमुपायाति घटाच्छकटमुत्कटम् . चित्तमर्थेषु चरति पादपेष्विव मर्कटः .. ६.. पञ्च द्वाराणि मनसा चक्षुरादीन्यमून्यलम् . बुद्धीन्द्रियाभिधानानि तान्येवालोकयाम्यहम् .. ७.. हन्तेन्द्रियगणा यूयं त्यजताकुलतां शनैः . चिदात्मा भगवान्सर्वसाक्षित्वेन स्थितोऽस्म्यहम् .. ८.. तेनात्मना बहुज्ञेन निर्ज्ञाताश्चक्षुरादयः . परिनिर्वामि शान्तोऽस्मि दिष्ट्यास्मि विगतज्वरः .. ९.. स्वात्मन्येवावतिष्ठेऽहं तुर्यरूपपदेऽनिशम् . अन्तरेव शशामास्य क्रमेण प्राणसन्ततिः .. १०.. ज्वालाजालपरिस्पन्दो दग्धेन्धन इवानलः . तदितोऽस्तं गत इव ह्यस्तं गत इवोदितः .. ११.. समः समरसाभासस्तिष्ठामि स्वच्छतां गतः . प्रबुद्धोऽपि सुषुप्तिस्थः सुषुप्तिस्थः प्रबुद्धवान् .. १२.. तुर्यमालम्ब्य कायान्तस्तिष्ठामि स्तम्भितस्थितिः . सबाह्याभ्यन्तरान्भावान्स्थूलान्सूक्ष्मतरानपि .. १३.. त्रैलोक्यसंभवांस्त्यक्त्वा संकल्पैकविनिर्मितान् . सह प्रणवपर्यन्तदीर्घनिःस्वनतन्तुना .. १४.. जहाविन्द्रियतन्मात्रजालं खग इवानलः . ततोऽङ्गसंविदं स्वच्छां प्रतिभासमुपागताम् .. १५.. सद्योजातशिशुज्ञानं प्राप्तवान्मुनिपुङ्गवः . जहौ चित्तं चैत्यदशां स्पन्दशक्तिमिवानिलः .. १६.. चित्सामान्यमथासाद्य सत्तामात्रात्मकं ततः . सुषुप्तपदमालम्ब्य तस्थौ गिरिरिवाचलः .. १७.. सुषुप्तस्थैर्यमासाद्य तुर्यरूपमुपाययौ . निरानन्दोऽपि सानन्दः सच्चासच्च बभूव सः .. १८.. ततस्तु संबभूवासौ यद्गिरामप्यगोचरः . यच्छून्यवादिनां शून्यं ब्रह्म ब्रह्मविदां च यत् .. १९.. विज्ञानमात्रं विज्ञानविदां यदमलात्मकम् . पुरुषः सांख्यदृष्टीनामीश्वरो योगवादिनाम् .. २०.. शिवः शैवागमस्थानां कालः कालैकवादिनाम् . यत्सर्वशास्त्रसिद्धान्तं यत्सर्वहृदयानुगम् .. २१.. यत्सर्वं सर्वगं वस्तु यत्तत्त्वं तदसौ स्थितः . यदनुक्तमनिष्पन्दं दीपकं तेजसामपि .. २२.. स्वानुभूत्यैकमानं च यत्तत्त्वं तदसौ स्थितः . यदेकं चाप्यनेकं च साञ्जनं च निरञ्जनम् . यत्सर्वं चाप्यसर्वं च यत्तत्त्वं तदसु स्थितः .. २३.. अजममरमनाद्यमाद्यमेकं
पदममलं सकलं च निष्कलं च .
स्थित इति स तदा नभःस्वरूपा-
दपिविमलस्थितिरीश्वरः क्षणेन .. २४..
- इति तृतीयोऽध्यायः .. ३..
[edit] चतुर्थोऽध्यायः
जीवन्मुक्तस्य किं लक्ष्म ह्याकाशगमनादिकम् . तथा चेन्मुनिशार्दूल तत्र नैव प्रलक्ष्यते .. १.. अनात्मविदमुक्तोऽपि नभोविहरणादिकम् . द्रव्यमन्त्रक्रियाकालशक्त्याप्नोत्येव स द्विजः ..२.. नात्मज्ञस्यैष विषय आत्मज्ञो ह्यात्ममात्रदृक् . आत्मनात्मनि संतृप्तो नाविद्यामनुधावति .. ३.. ये ये भावाः स्थिता लोके तानविद्यामयान्विदुः . त्यक्ताविद्यो महायोगी कथं तेषु निमज्जति .. ४.. यस्तु मूढोऽल्पबुद्धिर्वा सिद्धिजालानि वाञ्छति . सिद्धिसाधनैर्योगैस्तानि साधयति क्रमात् .. ५.. द्रव्यमन्त्रक्रियाकालयुक्तयः साधुसिद्धिदाः . परमात्मपदप्राप्तौ नोपकुर्वन्ति काश्चन .. ६.. यस्येच्छा विद्यते काचित्सा सिद्धिं साधयत्यहो . निरिच्छोः परिपूर्णस्य नेच्छा संभवति क्वचित् .. ७.. सर्वेच्छाजालसंज्ञान्तावात्मलाभो भवेन्मुने . स कथं सिद्धिजालानि नूनं वाञ्छन्त्यचित्तकः .. ८.. अपि शीतरुचावर्के सुतीक्ष्णेऽपीन्दुमण्डले . अप्यधः प्रसरत्यग्नौ जीवन्मुक्तो न विस्मयी .. ९.. अधिष्ठाने परे तत्त्वे कल्पिता रज्जुसर्पवत् . कल्पिताश्चर्यजालेषु नाभ्युदेति कुतूहलम् .. १०.. ये हि विज्ञातविज्ञेया वीतरागा महाधियः . विच्छिन्नग्रन्थयः सर्वे ते स्वतन्त्रास्तनौ स्थितः .. ११ सुखदुःखदशाधीरं साम्यान्न प्रोद्धरन्ति यम् . निश्वासा इव शैलेन्द्रं चित्तं तस्य मृतं विदुः .. १२.. आपत्कार्पण्यमुत्साहो मदो मान्द्यं महोत्सवः . यं नयन्ति न वैरूप्यं तस्य नष्टं मनो विदुः .. १३.. द्विविधचित्तनाशोऽस्ति सरूपोऽरूप एव च . जीवन्मुक्तौ सरूपः स्यादरूपो देहमुक्तिगः .. १४.. चित्तसत्तेह दुःखाय चित्तनाशः सुखाय च . चित्तसत्तं क्षयं नीत्वा चित्तं नाशमुपानयेत् .. १५.. मनस्तां मूढतां विद्धि यदा नश्यति सानघ . चित्तनाशाभिधानं हि तत्स्वरूपमितीरितम् .. १६.. मैत्र्यादिभिर्गुणैर्युक्तं भवत्युत्तमवासनम् . भूयो जन्मविनिर्मुक्तं जीवन्मुक्तस्य तन्मनः .. १७.. सरूपोऽसौ मनोनाशो जीवन्मुक्तस्य विद्यते . निदाघाऽरूपनाशस्तु वर्तते देहमुक्तिके .. १८.. विदेहमुक्त एवासौ विद्यते निष्कलात्मकः . समग्राग्र्यगुणाधारमपि सत्त्वं प्रलीयते .. १९.. विदेहमुक्तौ विमले पदे परमपावने . विदेहमुक्तिविषये तस्मिन्सत्त्वक्षयात्मके .. २०.. चित्तनाशे विरूपाख्ये न किंचिदिह विद्यते . न गुणा नागुणास्तत्र न श्रीर्नाश्रीर्न लोकता .. २१.. न चोदयो नास्तमयो न हर्षामर्षसंविदः . न तेजो न तमः किंचिन्न सन्ध्यादिनरात्रयः . न सत्तापि न चासत्ता न च मध्यं हि तत्पदम् .. २२.. ये हि पारं गता बुद्धेः संसाराडम्बरस्य च . तेषां तदास्पदं स्फारं पवनानामिवाम्बरम् .. २३.. संशान्तदुःखमजडात्मकमेकसुप्त-
मानन्दमन्थरमपेतरजस्तमो यत् .
आकाशकोशतनवोऽतनवो महान्त-
स्तस्मिन्पदे गलितचित्तलवा भवन्ति .. २४..
हे निदाघ महाप्राज्ञ निर्वासनमना भव . बलाच्चेतः समाधाय निर्विकल्पमना भव .. २५.. यज्जगद्भासकं भानं नित्यं भाति स्वतः स्फुरत् . स एव जगतः साक्षी सर्वात्मा विमलाकृतिः .. २६.. प्रतिष्ठा सर्वभूतानां प्रज्ञानघनलक्षणः . तद्विद्याविषयं ब्रह्म सत्यज्ञानसुखाद्वनम् .. २७.. एकं ब्रह्माहमस्मीति कृतकृत्यो भवेन्मुनिः .. २८.. सर्वाधिष्ठानमद्वन्द्वं परं ब्रह्म सनातनम् . सच्चिदानन्दरूपं तदवाङ्मनसगोचरम् .. २९.. न तत्र चन्द्रार्कवपुः प्रकाशते
न वान्ति वातः सकलाश्च देवताः .
स एव देवः कृतभावभूतः
स्वयं विशुद्धो विरजः प्रकाशते .. ३०..
भिद्यते हृदयग्रन्थिश्छिद्यन्ते सर्वसंशयाः . क्षीयन्ते चास्य कर्माणि तस्मिन्दृष्टे परावरे .. ३१.. द्वौ सुपर्णौ शरीरेऽस्मिञ्जीवेशाख्यौ सह स्थितौ . तयोर्जीवः फलं भुङ्क्ते कर्मणो न महेश्वरः .. ३२.. केवलं साक्षिरूपेण विना भोगो महेश्वरः . प्रकाशते स्वयं भेदः कल्पितो मायया तयोः . चिच्चिदाकारतो भिन्ना न भिन्ना चित्त्वहानितः .. ३३.. तर्कतश्च प्रमाणाच्च चिदेकत्वव्यवस्थितेः . चिदेकत्वपरिज्ञाने न शोचति न मुह्यति .. ३४.. अधिष्ठानं समस्तस्य जगतः सत्यचिद्घनम् . अहमस्मीति निश्चित्य वीतशोको भवेन्मुनिः .. ३५.. स्वशरीरे स्वयंज्योतिस्वरूपं सर्वसाक्षिणम् . क्षीणदोषाः प्रपश्यन्ति नेतरे माययावृताः .. ३६.. तमेव धीरो विज्ञाय प्रज्ञां कुर्वीत ब्राह्मणः . नानुध्यायाद्बहूञ्छब्दान्वाचो विग्लापनं हि तत् .. ३७.. बालेनैव हि तिष्ठासेन्निर्विद्य ब्रह्मवेदनम् . ब्रह्मविद्यां च बाल्यं च निर्विद्य मुनिरात्मवान् .. ३८.. अन्तर्लीनसमारम्भः शुभाशुभमहाङ्कुरम् . संसृतिव्रततेर्बीजं शरीरं विद्धि भौतिकम् .. ३९.. भावाभावदशाकोशं दुःखरत्नसमुद्गकम् . बीजमस्य शरीरस्य चित्तमाशावशानुगम् .. ४०.. द्वे बीजे चित्तवृक्षस्य वृत्तिव्रततिधारिणः . एकं प्राणपरिस्पन्दो द्वितीयो दृढभावना .. ४१.. यदा प्रस्पन्दन्ते प्राणो नाडीसंस्पर्शनोद्यतः . तदा संवेदनमयं चित्तमाशु प्रजायते .. ४२.. सा हि सर्वगता संवित्प्राणस्पन्देन बोध्यते . संवित्संरोधनं श्रेयः प्राणादिस्पन्दनं वरम् .. ४३.. योगिनश्चित्तशान्त्यर्थं कुर्वन्ति प्राणरोधनम् . प्राणायामैस्तथा ध्यानैः प्रयोगैर्युक्तिकल्पितैः .. ४४.. चित्तोपशान्तिफलदं परमं विद्धि कारणम् . सुखदं संविदः स्वास्थ्यं प्राणसंरोधनं विदुः .. ४५.. दृढभावनया त्यक्तपूर्वापरविचारणम् . यदादानं पदार्थस्य वासना सा प्रकीर्तिता .. ४६.. यदा न भाव्यते किंचिद्धेयोपादेयरूपि यत् . स्थीयते सकलं त्यक्त्वा तदा चित्तं न जायते .. ४७.. अवासनत्वात्सततं यदा न मनुते मनः . अमनस्ता तदोदेति परमोपशमप्रदा .. ४८.. यदा न भाव्यते भावः क्वचिज्जगति वस्तुनि . तदा हृदम्बरे शून्ये कथं चित्तं प्रजायते .. ४९.. यदभावनमास्थाय यदभावस्य भावनम् . यद्यथा वस्तुदर्शित्वं तदचित्तत्वमुच्यते .. ५०.. सर्वमन्तः परित्यज्य शीतलाशयवर्ति यत् . वृत्तिस्थमपि तच्चित्तमसद्रूपमुदाहृतम् .. ५१.. भ्रष्टबीजोपमा येषां पुनर्जननवर्जिता . वासनारसनाहीना जीवन्मुक्ता हि ते स्मृताः .. ५२.. सत्त्वरूपपरिप्राप्तचित्तास्ते ज्ञानपारगाः . अचित्ता इति कथ्यन्ते देहान्ते व्योमरूपिणः .. ५३.. संवेद्यसंपरित्यागात्प्राणस्पन्दनवासने . समूलं नश्यतः क्षिप्रं मूलच्छेदादिव द्रुमः .. ५४.. पूर्वदृष्टमदृष्टं वा यदस्याः प्रतिभासते . संविदस्तत्प्रयत्नेन मार्जनीयं विजानता .. ५५.. तदमार्जनमात्रं हि महासंसारतां गतम् . तत्प्रमार्जनमात्रं तु मोक्ष इत्यभिधीयते .. ५६.. अजडो गलितानन्दस्त्यक्तसंवेदनो भव .. ५७.. संविद्वस्तुदशालम्बः सा यस्येह न विद्यते . सोऽसंविदजडः प्रोक्तः कुर्वन्कार्यशतान्यपि .. ५८.. संवेद्येन हृदाकाशे मनागपि न लिप्यते . यस्यासावजडा संविज्जीवन्मुक्तः स कथ्यते .. ५९.. यदा न भाव्यते किंचिन्निर्वासनतयात्मनि . बालमूकादिविज्ञानमिव च स्थीयते स्थिरम् .. ६०.. तदा जाड्यविनिर्मुक्तमसंवेदनमाततम् . आश्रितं भवति प्राज्ञो यस्माद्भूयो न लिप्यते .. ६१.. समस्ता वासनास्त्यक्त्वा निर्विकल्पसमाधितः . तन्मयत्वादनाद्यन्ते तदप्यन्तर्विलीयते .. ६२.. तिष्ठन्गच्छन्स्पृशञ्जिघ्रन्नपि तल्लेपवर्जितः . अजडो गलितानन्दस्त्यक्तसंवेदनः सुखी .. ६३.. एतां दृष्टिमवष्टभ्य कष्टचेष्टायुतोऽपि सन् . तरेद्दुःखाम्बुधेः पारमपारगुणसागरः .. ६४.. विशेषं संपरित्यज्य सन्मात्रं यदलेपकम् . एकरूपं महारूपं सत्तायास्तत्पदं विदुः .. ६५.. कालसत्ता कलासत्ता वस्तुसत्तेयमित्यपि . विभागकलनां त्यक्त्वा सन्मात्रैकपरो भव .. ६६.. सत्तासामान्यमेवैकं भावयन्केवलं विभुः . परिपूर्णः परानन्दि तिष्ठापूरितदिग्भरः .. ६७.. सत्तासामान्यपर्यन्ते यत्तत्कलनयोज्झितम् . पदमाद्यमनाद्यन्तं तस्य बीजं न विद्यते .. ६८.. तत्र संलीयते संविन्निर्विकल्पं च तिष्ठति . भूयो न वर्तते दुःखे तत्र लब्धपदः पुमान् .. ६९.. तद्धेतुः सर्वभूतानां तस्य हेतुर्न विद्यते . स सारः सर्वसाराणां तस्मात्सारो न विद्यते .. ७०.. तस्मिंश्चिद्दर्पणे स्फारे समस्ता वस्तुदृष्टयः . इमास्ताः प्रतिबिम्बन्ति सरसीव तटद्रुमाः .. ७१.. तदमलमरजं तदात्मतत्त्वं
तदवगतावुपशान्तिमेति चेतः .
अवगतविगतैकतत्स्वरूपो
भवभयमुक्तपदोऽसि सम्यगेव .. ७२..
एतेषां दुःखबीजानां प्रोक्तं यद्यन्मयोत्तरम् . तस्य तस्य प्रयोगेण शीघ्रं तत्प्राप्यते पदम् .. ७३.. सत्तासामान्यकोटिस्थे द्रागित्येव पदे यदि . पौरुषेण प्रयत्नेन बलात्संत्यज्य वासनाम् .. ७४.. स्थितिं बध्नासि तत्त्वज्ञ क्षणमप्यक्षयात्मिकाम् . क्षणेऽस्मिन्नेव तत्साधु पदमासादयस्यलम् ..७५.. सत्तासामान्यरूपे वा करोषि स्थितिमादरात् . तत्किंचिदधिकेनेह यत्नेनाप्नोषि तत्पदम् .. ७६.. संवित्तत्त्वे कृतध्यानो निदाघ यदि तिष्ठसि . तद्यत्नेनाधिकेनोच्चैरासादयसि तत्पदम् .. ७७.. वासनासंपरित्यागे यदि यत्नं करोषि भोः . यावद्विलीनं न मनो न तावद्वासनाक्षयः .. ७८.. न क्षीणा वासना यावच्चित्तं तावन्न शाम्यति . यावन्न तत्त्वविज्ञानं तावच्चित्तशमः कुतः .. ७९.. यावन्न चित्तोपशमो न तावत्तत्त्ववेदनम् . यावन्न वासनानाशस्तावत्तत्त्वागमः कुतः . यावन्न तत्त्वसंप्राप्तिर्न तावद्वासनक्षयः .. ८०.. तत्त्वज्ञानं मनोनाशो वासनाक्षय एव च . मिथः कारणतां गत्वा दुःसाधानि स्थितान्यतः .. ८१.. भोगेच्छां दूरतस्त्यक्त्वा त्रयमेतत्समाचर .. ८२.. वासनाक्षयविज्ञानमनोनाशा महामते . समकालं चिराभ्यस्ता भवन्ति फलदा मताः .. ८३.. त्रिभिरेभिः समभ्यस्तैर्हृदयग्रन्थयो दृढाः . निःशेषमेव त्रुट्यन्ति बिसच्छेदाद्गुणा इव .. ८४.. वासनासंपरित्यागसमं प्राणनिरोधनम् . विदुस्तत्त्वविदस्तस्मात्तदप्येवं समाहरेत् .. ८५.. वासनासंपरित्यागाच्चित्तं गच्छत्यचित्तताम् . प्राणस्पन्दनिरोधाच्च यथेच्छसि तथा कुरु .. ८६.. प्राणायामदृढाध्यासैर्युक्त्या च गुरुदत्तया . आसनाशनयोगेन प्राणस्पन्दो निरुध्यते .. ८७.. निःसङ्गव्यवहारत्वाद्भवभावनवर्जनात् . शरीरनाशदर्शित्वाद्वासना न प्रवर्तते .. ८८.. यः प्राणपवनस्पन्दश्चित्तस्पन्दः स एव हि . प्राणस्पन्दजये यत्नः कर्तव्यो धीमतोच्चकैः .. ८९.. न शक्यते मनो जेतुं विना युक्तिमनिन्दिताम् . शुद्धां संविदमाश्रित्यवीतरागः स्थिरो भव .. ९०.. संवेद्यवर्जितमनुत्तममाद्यमेकं
संविदत्पदं विकलनं कलयन्महात्मन् .
हृद्येव तिष्ठ कलनारहितः क्रियां तु
कुर्वन्नकर्तृपदमेत्य शमोदितश्रीः .. ९१..
मनागपि विचारेण चेतसः स्वस्य निग्रहः . पुरुषेण कृतो येन तेनाप्तं जन्मनः फलम् .. ९२..
- इति चतुर्थोऽध्यायः .. ४..
[edit] पञ्चमोऽध्यायः
गच्छतस्तिष्ठतो वापि जाग्रतः स्वपतोऽपि वा . न विचारपरं चेतो यस्यासौ मृत उच्यते .. १.. सम्यग्ज्ञानसमालोकः पुमा~ज्ञेयसमः स्वयम् . न बिभेति न चादत्ते वैवश्यं न च दीनताम् .. २.. अपवित्रमपथ्यं च विषसंसर्गदूषितम् . भुक्तं जरयति ज्ञानी क्लिन्नं नष्ठं च मृष्टवत् .. ३.. सञ्ण्गत्यागं विदुर्मोक्षं सङ्गत्यागादजन्मता . सङ्गं त्यज त्वं भावानां जीवन्मुक्तो भवानघ .. ४.. भावाभावे पदार्थानां हर्षामर्षविकारदा . मलिना वासना यैषा साऽसङ्ग इति कथ्यते .. ५.. जीवन्मुक्तशरीराणामपुनर्जन्मकारिणी . मुक्ता हर्षविषादाभ्यां शुद्धा भवति वासना .. ६.. दुःखैर्न ग्लानिमायासि हृदि हृष्यसि नो सुखैः . आशावैवश्यमुत्सृज्य निदाघाऽसङ्गतां व्रज .. ७.. दिक्कालाद्यनवच्छिन्नमदृष्टोभयकोटिकम् . चिन्मात्रमक्षयं शान्तमेकं ब्रह्मास्मि नेतरत् .. ८.. इति मत्वाहमित्यन्तर्मुक्तामुक्तवपुः पुमान् . एकरूपः प्रशान्तात्मा मौनी स्वात्मसुखो भव .. ९.. नास्ति चित्तं न चाविद्या न मनो न च जीवकः . ब्रह्मैवैकमनाद्यन्तमब्धिवत्प्रविजृम्भते .. १०.. देहे यावदहंभावो दृश्येऽस्मिन्यावदात्मता . यावन्ममेदमित्यास्था तावच्चित्तादिविभ्रमः .. ११.. अन्तर्मुखतया सर्वं चिद्वह्नौ त्रिजगत्तृणम् . जुह्वन्तोऽन्तर्निवर्तन्ते मुने चित्तादिविभ्रमाः .. १२.. चिदात्मास्मि निरंशोऽस्मि परापरविवर्जितः . रूपं स्मरन्निजं स्फारं मा स्मृत्या संमितो भव .. १३.. अध्यात्मशास्त्रमन्त्रेण तृष्णाविषविषूचिका . क्षीयते भावितेनान्तः शरदा मिहिका यथा .. १४.. परिज्ञाय परित्यागो वासानानं य उत्तमः . सत्तासामान्यरूपत्वात्तत्कैवल्यपदं विदुः .. १५.. यन्नास्ति वासना लीना तत्सुषुप्तं न सिद्धये . निर्बीजा वासना यत्र तत्तुर्यं सिद्धिदं स्मृतम् .. १६.. वासनायास्तथा वह्नेरृणव्याधिद्विषामपि . स्नेहवैरविषाण च शेषः स्वल्पोऽपि बाधते .. १७.. निर्दग्धवासनाबीजः सत्तासामान्यरूपवान् . सदेहो वा विदेहो वा न भूयो दुःखभाग्भवेत् .. १८.. एतावदेवाविद्यात्वं नेदं ब्रह्मेति निश्चयः . एष एव क्षयस्तस्या ब्रह्मेदमिति निश्चयः .. १९.. ब्रह्म चिद्ब्रह्म भुवनं ब्रह्म भूतपरम्परा . ब्रह्माहं ब्रह्म चिच्छत्रुर्ब्रह्म चिन्मित्रबान्धवाः .. २०.. ब्रह्मैव सर्वमित्येव भाविते ब्रह्म वै पुमान् . सर्वत्रावस्थितं शान्तं चिद्ब्रह्मेत्यनुभूयते .. २१.. असंस्कृताध्वगालोके मनस्यन्यत्र संस्थिते . या प्रतीतिरनागसका तच्चिद्ब्रह्मास्मि सर्वगम् .. २२.. प्रशान्तसर्वसंकल्पं विगताखिलकौतुकम् . विगताशेषसंरंभं चिदात्मानं समाश्रय .. २३.. एवं पूर्णधियो धीराः समा नीरागचेतसः . न नन्दन्ति न निन्दन्ति जीवितं मरणं तथा .. २४.. प्राणोऽयमनिशं ब्रह्मस्पन्दशक्तिः सदागतिः . सबाह्याभ्यन्तरे देहेप्राणोऽसावूर्ध्वगः स्थितः .. २५.. अपानोऽप्यनिशं ब्रह्मस्पन्दशक्तिः सदागतिः . सबाह्याभ्यन्तरे देहे अपानोऽयमवाक्स्थितः .. २६.. जाग्रतः स्वपतश्चैव प्राणायामोऽयमुत्तमः . प्रवर्तते ह्यभिज्ञस्य तं तावच्छ्रेयसे शृणु .. २७.. द्वादशाङ्गुलपर्यन्तं बाह्यमाक्रमतां ततः . प्राणाङ्गनामा संस्पर्शो यः स पूरक उच्यते .. २८.. अपानश्चन्द्रमा देहमाप्याययति सुव्रत . प्राणः सूर्योऽग्निरथ वा पचत्यनत्रिदं वपुः .. २९.. प्राणक्षयसमीपस्थमपानोदयकोटिगम् . अपानप्राणयोरैक्यं चिदात्मानं समाश्रय .. ३०.. अपानोऽस्तंगतो यत्र प्राणो नाभ्युदितः क्षणम् . कलाकलङ्करहितं तच्चित्तत्त्वं समाश्रय .. ३१.. नापानोऽस्तंगतो यत्र प्राणश्चास्तमुपागतः . नासाग्रगमनावर्तं तच्चित्तत्त्वमुपाश्रय .. ३२.. आभासमात्रमेवेदं न सनासज्जगत्त्रयम् . इत्यन्यकलनात्यागं सम्यग्ज्ञानं विदुर्बुधाः .. ३३.. आभासमात्रकं ब्रह्मंश्चित्तदर्शकलङ्कितम् . ततस्तदपि संत्यज्य निराभासो भवोत्तम ..३४.. भयप्रदमकल्याणं धैर्यसर्वस्वहारिणम् . मनःपिशाचमुत्सार्य योऽसि सोऽसि स्थिरो भव .. ३५.. चिद्व्योमेव किलास्तीह परापरविवर्जितम् . सर्वत्रासंभवच्चैत्यं यत्कल्पान्तेऽवशिष्यते .. ३६.. वाञ्छाक्षणे तु या तुष्टिस्तत्र वाञ्छैव कारणम् . तुष्टिस्त्वतुष्टिपर्यन्ता तस्माद्वाञ्छां परित्यज .. ३७.. आशा यातु निराशात्वमभावं यातु भावना . अमनस्त्वं मनो यातु तवासङ्गेन जीवतः .. ३८.. वासनारहितैरन्तरिन्द्रियैराहरन्क्रिया . न विकारमवाप्नोषि खवत्क्षोभशतैरपि .. ३९.. चित्तोन्मेषनिमेषाभ्यां संसारप्रलयोदयौ . वासनाप्राणसंरोधमनुन्मेषं मनः कुरु .. ४०.. प्राणोन्मेषनिमेषाभ्यां संसृतेः प्रलयोदयौ . तमभ्यासप्रयोगाभ्यामुन्मेषरहितं कुरु .. ४१.. मौर्ख्योन्मेषनिमेषाभ्यां कर्मणां प्रलयोदयौ . तद्विलीनं कुरु बलाद्गुरुशास्त्रार्थसंगमैः .. ४२.. असंवित्स्पन्दमात्रेण याति चित्तमचित्तताम् . प्राणानां वा निरोधेन तदेव परमं पदम् .. ४३.. दृश्यदर्शनसंबन्धे यत्सुखं पारमार्थिकम् . तदन्तैकान्तसंवित्त्या ब्रह्मदृष्ट्यावलोकय .. ४४.. यत्र नाभ्युदितं चित्तं तद्वै सुखमकृत्रिमम् . क्षयातिशयनिर्मुक्तं नोदेति न च शाम्यति .. ४५.. यस्य चित्तं न चित्ताख्यं चित्तं चित्तत्त्वमेव हि . तदेव तुर्यावस्थायं तुर्यातीतं भवत्यतः .. ४६.. संन्यस्तसर्वसंकल्पः समः शान्तमना मुनिः . संन्यासयोगयुक्तात्मा ज्ञानवान्मोक्षवान्भव .. ४७.. सर्वसंकल्पसंशान्तं प्रशान्तघनवासनम् . न किंचिद्भावनाकारं यत्तद्ब्रह्म परं विदुः .. ४८.. सम्यग्ज्ञानावरोधेन नित्यमेकसमाधिना . सांख्य एवावबुद्धा ये ते सांख्या योगिनः परे .. ४९.. प्राणाद्यनिलसंशान्तौ युक्त्या ये पदमागताः . अनामयमनाद्यन्तं ते स्मृता योगयोगिनः .. ५०.. उपादेयं तु सर्वेषां शातं पदमकृत्रिमम् . एकार्थाभ्यसनं प्राणरोधश्चेतः परिक्षयः .. ५१.. एकस्मिन्नेव संसिद्धे संसिद्ध्यन्ति परस्परम् . अविनाभाविनी नित्यं जन्तूनां प्राणचेतसी .. ५२.. आधाराधेयवच्चैते एकभावे विनश्यतः . कुरुतः स्वविनाशेन कार्यं मोक्षाख्यमुत्तमम् .. ५३.. सर्वमेतद्धिया त्यक्त्वा यदि तिष्ठसि निश्चलः . तदाहंकारविलये त्वमेव परमं पदम् .. ५४.. महाचिदेकैवेहास्ति महासत्तेति योच्यते . निष्कलंका समा शुद्धा निरहंकाररूपिणी .. ५५.. सकृद्विभाता विमला नित्योदयवती समा . सा ब्रह्म परमात्मेति नामभिः परिगीयते .. ५६.. सैवाहमिति निश्चित्य निदाघ कृतकृत्यवान् . न भूतं न भविष्यच्च चिन्तयामि कदाचन .. ५७.. दृष्टिमालम्ब्य तिष्ठामि वर्तमानामिहात्मना . इदमद्य मया लब्धमिदं प्राप्स्यामि सुन्दरम् .. ५८.. न स्तौमि न च निन्दामि आत्मनोऽन्यन्नहि क्वचित् . न तुष्यामि शुभप्राप्तौ न खिद्याम्यशुभागमे .. ५९.. प्रशान्तचापलं वीतशोकमस्तसमीहितम् . मनो मम मुने शान्तं तेन जीवाम्यनामयः .. ६०.. अयं बन्धुः परश्चायं ममायमयमन्यकः . इति ब्रह्मन्न जानामि संस्पर्शं न ददाम्यहम् .. ६१.. वासनामात्रसंत्यागाज्जरामरणवर्जितम् . सवासनं मनो ज्ञानं ज्ञेयं निर्वासनं मनः .. ६२.. चित्ते त्यक्ते लयं याति द्वैतमेतच्च सर्वतः . शिष्यते परमं शान्तमेकमगच्छमनामयम् .. ६३.. अनन्तमजमव्यक्तमजरं शान्तमच्युतम् . अद्वितीयमनाद्यन्तं यदाद्यमुपलम्भनम् .. ६४.. एकमाद्यन्तरहितं चिन्मात्रममलं ततम् . खादप्यतितरां सूक्ष्मं तद्ब्रह्मास्मि न संशयः .. ६५.. दिक्कालाद्यनवच्छिन्नं स्वच्छं नित्योदितं ततम् . सर्वार्थमयमेकार्थं चिन्मात्रममलं भव .. ६६.. सर्वमेकमिदं शान्तमादिमध्यान्तवर्जितम् . भावाभावमजं सर्वमिति मत्वा सुखी भव .. ६७.. न बद्धोऽस्मि न मुक्तोऽस्मि ब्रह्मैवास्मि निरामयम् . द्वैतभावविमुक्तोऽस्मि सच्चिदानन्दलक्षणः . एवं भावय यत्नेन जीवन्मुक्तो भविष्यसि .. ६८.. पदार्थवृन्दे देहादिधिया संत्यज्य दूरतः . आशीतलान्तःकरणो नित्यमात्मपरो भव .. ६९.. इदं रम्यमिदं नेति बीजं ते दुःखसंततेः . तस्मिन्साम्याग्निना दग्धे दुःखस्यावसरः कुतः .. ७०.. शास्त्रसज्जनसंपर्कैः प्रज्ञामादौ विवर्धयेत् .. ७१.. ऋतं सत्यं परं ब्रह्म सर्वसंसारभेषजम् . अत्यर्थममलं नित्यमादिमध्यान्तवर्जितम् .. ७२.. तथा स्थूलमनाकाशमसंस्पृश्यमचाक्षुषम् . न रसं न च गन्धाख्यमप्रमेयमनूपमम् .. ७३.. आत्मानं सच्चिदानन्दमनन्तं ब्रह्म सुव्रत . अहमस्मीत्यभिध्यायेद्ध्येयातीतं विमुक्तये .. ७४.. समाधिः संविदुत्पत्तिः परजीवैकतं प्रति . नित्यः सर्वगतो ह्यात्मा कूटस्थो दोषवर्जितः .. ७५.. एकः सन्भिद्यते भ्रान्त्या मायया न स्वरूपतः . तस्मादद्वैत एवास्ति न प्रपञ्चो न संसृतिः .. ७६.. यथाकाशो घटाकाशो महाकाश इतीरितः . तथा भ्रान्तेर्द्विधा प्रोक्तो ह्यात्मा जीवेश्वरात्मना .. ७७.. यदा मनसि चैतन्यं भाति सर्वत्रगं सदा . योगिनोऽऽव्यवधानेन तदा संपद्यते स्वयम् .. ७८.. यदा सर्वाणि भूतानि स्वात्मन्येव हि पश्यति . सर्वभूतेषु चात्मानं ब्रह्म संपद्यते सदा .. ७९.. यदा सर्वाणि भूतानि समाधिस्थो न पश्यति . एकीभूतः परेणासौ तदा भवति केवलः .. ८०.. शास्त्रसज्जनसंपर्कवैराग्याभ्यासरूपिणी . प्रथमा भूमिकैषोक्ता मुमुक्षुत्वप्रदायिनी .. ८१.. विचारणा द्वितीया स्यात्तृतीया साङ्गभावना . विलापिनी चतुर्थी स्याद्वासना विलयात्मिका .. ८२.. शुद्धसंविन्मनानन्दरूपा भवति पञ्चमी . अर्धसुप्तप्रबुद्धाभो जीवन्मुक्तोऽत्र तिष्ठति .. ८३.. असंवेदनरूपा च षष्ठी भवति भूमिका . आनन्दैकघनाकारा सुषुप्तसदृशी स्थितिः .. ८४.. तुर्यावस्थोपशान्ता सा मुक्तिरेव हि केवला . समता स्वच्छता सौम्या सप्तमी भूमिका भवेत् .. ८५.. तुर्यातीता तु यावस्था परा निर्वाणरूपिणी . सप्तमी सा परा प्रौढा विषयो नैव जीवताम् .. ८६.. पूर्वावस्थात्रयं तत्र जाग्रदित्येव संस्थितम् . चतुर्थी स्वप्न इत्युक्ता स्वप्नाभं यत्र वै जगत् .. ८७.. आनन्दैकघनाकारा सुषुप्ताख्या तु पञ्चमी . असंवेदनरूपा तु षष्ठी तुर्यपदाभिधा .. ८८.. तुर्यातीतपदावस्था सप्तमी भूमिकोत्तमा . मनोवचोभिरग्राह्या स्वप्रकाशसदात्मिका .. ८९.. अन्तः प्रत्याहृतिवशाच्चैत्यं चेन्न विभावितम् . मुक्त एव न सन्देहो महासमतया तया .. ९०.. न म्रिये न च जीवामि नाहं सन्नाप्यसन्मयः . अहं न किंचिच्चिदिति मत्वा धीरो न शोचति .. ९१.. अलेपकोऽहमजरो नीरागः शान्तवासनः . निरंशोऽस्मि चिदाकाशमिति मत्वा न शोचति .. ९२.. अहंमत्या विरहितः शुद्धो बुद्धोऽजरोऽमरः . शान्तः शमसमाभास इति मत्वा न शोचति .. ९३.. तृणाग्रेष्वम्बरे भानौ नरनागामरेषु च . यत्तिष्ठति तदेवाहमिति मत्वा न शोचति .. ९४.. भावनां सर्वभावेभ्यः समुत्सृज्य समुत्थितः . अवशिष्टं परं ब्रह्म केवलोऽस्मीति भावय .. ९५.. वाचामतीतविषयो विषयाशादशोज्झितः . परानन्दरसाक्षुब्धो रमते स्वात्मनात्मनि .. ९६.. सर्वकर्मपरित्यागी नित्यतृप्तो निराश्रयः . न पुण्येन न पापेन नेतरेण च लिप्यते .. ९७.. स्फटिकः प्रतिबिम्बेन यथा नायाति रञ्जनम् . तज्ज्ञः कर्मफलेनान्तस्तथा नायाति रञ्जनम् .. ९८.. विहरञ्जनतावृन्दे देवकीर्तन पूजनैः . खेदाह्लादौ न जानाति प्रतिबिम्बगतैरिव .. ९९.. निस्स्तोत्रो निर्विकारश्च पूज्यपूजाविवर्जितः . संयुक्तश्च वियुक्तश्च सर्वाचारनयक्रमैः .. १००.. तनुं त्यजतु वा तीर्थे श्वपचस्य गृहेऽथ वा . ज्ञानसंपत्तिसमये मुक्तोऽसौ विगताशयः .. १०१.. संकल्पत्वं हि बन्धस्य कारणं तत्परित्यज . मोक्षो भवेदसंकल्पात्तदभ्यासं धिया कुरु .. १०२.. सावधानो भव त्वं च ग्राह्यग्राहकसंगमे . अजस्रमेव संकल्पदशाः परिहरञ्शनैः .. १०३.. मा भव ग्राह्यभावात्मा ग्राहकात्मा च मा भव . भावनामखिलां त्यक्त्वा यच्छिष्टं तन्मयो भव .. १०४.. किंचिच्चेद्रोचते तुभ्यं तद्बद्धोऽसि भवस्थितौ . न किंचिद्रोचते चेत्ते तन्मुक्तोऽसि भवस्थितौ .. १०५.. अस्मात्पदार्थनिचयाद्यावत्स्थावरजङ्गमात् . तृणादेर्देहपर्यन्तान्मा किंचित्तत्र रोचताम् .. १०६.. अहंभावानहंभावौ त्यक्त्वा सदसती तथा . यदसक्तं समं स्वच्छं स्थितं तत्तुर्यमुच्यते .. १०७.. या स्वच्छा समता शान्ता जीवन्मुक्तव्यवस्थितिः . साक्ष्यवस्था व्यवहृतौ सा तुर्या कलनोच्यते .. १०८.. नैतज्जाग्रन्न च स्वप्नः संकल्पानामसंभवात् . सुषुप्तभावो नाऽप्येतदभावाज्जडतास्थितेः .. १०९.. शान्तसम्यक्प्रबुद्धानां यथास्थितमिदं जगत् . विलीनं तुर्यमित्याहुरबुद्धानां स्थितं स्थिरम् .. ११०.. अहंकारकलात्यागे समतायाः समुद्गमे . विशरारौ कृते चित्ते तुर्यावस्थोपतिष्ठते .. १११.. सिद्धान्तोऽध्यात्मशास्त्राणां सर्वापह्नव एव हि . नाविद्यास्तीह नो माया शान्तं ब्रह्मेदमक्लमम् .. ११२.. शान्त एव चिदाकाशे स्वच्छे शमसमात्मनि . समग्रशक्तिखचिते ब्रह्मेति कलिताभिधे .. ११३.. सर्वमेव परित्यज्य महामौनी भवानघ . निर्वाणवान्निर्मननः क्षीणचित्तः प्रशान्तधीः .. ११४.. आत्मन्येवास्व शान्तात्मा मूकान्धबधिरोपमः . नित्यमन्तर्मुखः स्वच्छः स्वात्मनान्तः प्रपूर्णधीः .. ११५.. जाग्रत्येव सुषुप्तस्थः कुरु कर्माणि वै द्विज . अन्तः सर्वपरित्यागी बहिः कुरु यथागतम् .. ११६.. चित्तसत्ता परं दुःखं चित्तत्यागः परं सुखम् . अतश्चित्तं चिदाकाशे नय क्षयमवेदनात् .. ११७.. दृष्ट्वा रम्यमरम्यं वा स्थेयं पाषाणवत्सदा . एतावतात्मयत्नेन जिता भवति संसृतिः .. ११८.. वेदान्ते परमं गुह्यं पुराकल्पप्रचोदितम् . नाप्रशान्ताय दातव्यं न चाशिष्याय वै पुनः .. ११९.. अन्नपूर्णोपनिषदं योऽधीते गुर्वनुग्रहात् . स जीवन्मुक्ततां प्राप्य ब्रह्मैव भवति स्वयम् .. १२०..
- इति पञ्चमोऽध्यायः .. ५..
- इत्युपनिषत् ..
ॐ भद्रं कर्णेभिः शृणुयाम देवाः .. भद्रं पश्येमाक्षभिर्यजत्राः .. स्थिरैरङ्गैस्तुष्टुवाँसस्तनूभिः .. व्यशेम देवहितं यदायुः .. स्वस्ति न इन्द्रो वृद्धश्रवाः .. स्वस्ति नः पूषा विश्ववेदाः .. स्वस्ति नस्तार्क्ष्यो अरिष्टनेमिः .. स्वस्ति नो बृहस्पतिर्दधातु .. ॐ शान्तिः शान्तिः शान्तिः ..
- इत्यन्नपूर्णोपनिषत्समाप्ता ..