अध्यात्मा उपनिषद्
From Wikisource
.. अध्यात्मोपनिषत् .. यत्रान्तर्याम्यादिभेदस्तत्त्वतो न हि युज्यते . निर्भेदं परमाद्वैतं स्वमात्रमवशिष्यते .. ॐ पूर्णमदः पूर्णमिदं पूर्णात्पूर्णमुदच्यते . पूर्णस्य पूर्णमादाय पूर्णमेवावशिष्यते .. ॐ शान्तिः शान्तिः शान्तिः .. हरिः ॐ .. अन्तःशरीरे निहितो गुहायामज एको नित्यमस्य पृथिवी शरीरं यः पृथिवीमन्तरे संचरन्यं पृथिवी न वेद . यस्यापःशरीरं यो अपोऽन्तरे संचरन्यमापो न विदुः . यस्य तेजः शरीरं यस्तेजोऽन्तरे संचरन्यं तेजो न वेद . यस्य वायुः शरीरं यो वायुमन्तरे संचरन्यं वायुर्न वेद . यस्याकाशः शरीरं य आकाशमन्तरे संचरन्यमाकाशो न वेद . यस्य मनः शरीरं यो मनोऽन्तरे संचरन्यं मनो न वेद . यस्य बुद्धिः शरीरं यो बुद्धिमन्तरे संचरन्यं बुद्धिर्न वेद . यस्याहंकारः शरीरं योऽहंकारमन्तरे संचरन्यमहंकारो न वेद . यस्य चित्तं शरीरं यश्चित्तमन्तरे संचरन्यं चित्तं न वेद . यस्याव्यक्तं शरीरं योऽव्यक्तमन्तरे संचरन्यमव्यक्तं न वेद . यस्याक्षरं शरीरं योऽक्षरमन्तरे संचरन्यम्क्षरं न वेद . यस्य मृयुः शरीरं यो मृत्युमन्तरे संचरन्यं मृत्युर्न वेद . स एष सर्वभूतान्तरात्मापहतपाप्मा दिव्यो देव एको नारायणः . अहं ममेति यो भावो देहाक्षादावनात्मनि . अध्यासोऽयं निरस्तव्यो विदुषा ब्रह्मनिष्ठया .. १.. ज्ञात्वा स्वं प्रत्यगात्मानं बुद्धितद्वृत्तिसाक्षिणम् . सोऽहमित्येव तद्वृत्त्या स्वान्यत्रात्म्यमात्मनः .. २.. लोकानुवर्तनं त्यक्त्वा त्यक्त्वा देहानुवर्तनम् . शास्त्रानुवर्तनं त्यक्त्वा स्वाध्यासापनयं कुरु .. ३.. स्वात्मन्येव सदा स्थित्या मनो नश्यति योगिनः . युक्त्या श्रुत्या स्वानुभूत्या ज्ञात्वा सार्वात्म्यमात्मनः .. ४.. निद्राया लोकवार्तायाः शब्दादेरात्मविस्मृतेः . क्वचिन्नवसरं दत्त्वा चिन्तयात्मानमात्मनि .. ५.. मातापित्रोर्मलोद्भूतं मलमांसमयं वपुः . त्यक्त्वा चण्डालवद्दूरं ब्रह्मभूय कृती भव .. ६.. घटाकाशं महाकाश इवात्मानं परात्मनि . विलाप्याखण्डभावेन तूष्णीं भव सदा मुने .. ७.. स्वप्रकाशमधिष्ठानं स्वयंभूय सदात्मना . ब्रह्माण्डमपि पिण्डाण्डं त्यज्यतां मलभाण्डवत् .. ८.. चिदात्मनि सदानन्दे देहरूढामहंधियम् . निवेश्य लिङ्गमुत्सृज्य केवलो भव सर्वदा .. ९.. यत्रैष जगदाभासो दर्पणान्तःपुरं यथा . तद्ब्रह्माहमिति ज्ञात्वा कृतकृत्यो भवानघ .. १०.. अहंकारग्रहान्मुक्तः स्वरूपमुपपद्यते . चन्द्रवद्विमलः पूर्णः सदानन्दः स्वयंप्रभः .. ११.. क्रियानाशाद्भवेच्चिन्तानाशोऽस्माद्वासनाक्षयः . वासनाप्रक्षयो मोक्षः सा जीवन्मुक्तिरिष्यते .. १२.. सर्वत्र सर्वतः सर्वब्रह्ममात्रावलोकनम् . सद्भावभावानादाढ्याद्वासनालयमश्नुते .. १३.. प्रमादो ब्रह्मनिष्ठायां न कर्तव्यज़् कदाचन . प्रमादो मृत्युरित्याहुर्विद्यायां ब्रह्मवादिनः .. १४.. यथापकृष्टं शैवालं क्षणमात्रं न तिष्ठति . आवृणोति तथा माया प्राज्ञं वापि पराङ्मुखम् .. १५.. जीवतो यस्य कैवल्यं विदेहोऽपि स केवलः . समाधिनिष्ठतामेत्य निर्विकल्पो भवानघ .. १६.. अज्ञानहृदयग्रन्थेर्निःशेषविलयस्तदा . समाधिना विकल्पेन यदाद्वैतात्मदर्शनम् .. १७.. अत्रात्मत्वं दृढीकुर्वन्नहमादिषु संत्यजन् . उदासीनतया तेषु तिष्ठेद्घटपटादिवत् .. १८.. ब्रह्मादिस्तम्बपर्यन्तं मृषामात्रा उपाधयः . ततः पूर्णं स्वमात्मानं पश्येदेकात्मना स्थितम् .. १९.. स्वयं ब्रह्मा स्वयं विष्णुः स्वयमिन्द्रः स्वयं शिवः . स्वयं विश्वमिदं सर्वं स्वस्मादन्यन्न किंचन .. २०.. स्वात्मन्यारोपिता शेषाभासवस्तुनिरासतः . स्वयमेव परंब्रह्म पूर्णमद्वयमक्रियम् .. २१.. असत्कल्पो विकल्पोऽयं विश्वमित्येकवस्तुनि . निर्विकारे निराकारे निर्विशेषे भिदा कुतः .. २२.. द्रष्टृदर्शनदृश्यादिभावशून्ये निरामये . कल्पार्णव इवात्यन्तं परिपूर्णे चिदात्मनि .. २३.. तेजसीव तमो यत्र विलीनं भ्रान्तिकारणम् . अद्वितीये परे तत्त्वे निर्विशेषे भिदा कुतः .. २४.. एकात्मके परे तत्त्वे भेदकर्ता कथं वसेत् . सुषुप्तौ सुखमात्रायां भेदः केनावलोकितः .. २५.. चित्तमूलो विकल्पोऽयं चित्ताभावे न कश्चन . अतश्चित्तं समाधेयि प्रत्यग्रूपे परात्मनि .. २६.. अखण्डानन्दमात्मानं विज्ञाय स्वस्वरूपतः . बहिरन्तः सदानन्दरसास्वादनमात्मनि .. २७.. वैराग्यस्य फलं बोधो बोधस्योपरतिः फलम् . स्वानन्दानुभवच्छान्तिरेषैवोपरतेः फलम् .. २८.. यद्युत्तरोत्तराभावे पूर्वरूपं तु निष्फलम् . निवृत्तिः परमा तृप्तिरानन्दोऽनुपमः स्वतः .. २९.. मायोपाधिर्जगद्योनिः सर्वज्ञत्वादिलक्षणः . पारोक्ष्यशबलः सत्याद्यात्मकस्तत्पदाभिधः .. ३०.. आलम्बनतया भाति योऽस्मत्प्रत्ययशब्दयोः . अन्तःकरणसंभिन्नबोधः स त्वंपदाभिधः .. ३१.. मायाविद्ये विहायैव उपाधी परजीवयोः . अखण्डं सच्चिदानन्दं परं ब्रह्म विलक्ष्यते .. ३२.. इत्थं वाक्यैस्तथार्थानुसन्धानं श्रवणं भवेत् . युक्त्या संभावितत्वानुसन्धानं मननं तु तत् .. ३३.. ताभ्यं निर्विचिकित्सेऽर्थे चेतसः स्थापितस्य यत् . एकतानत्वमेतद्धि निदिध्यासनमुच्यते .. ३४.. ध्यातृध्याने परित्यज्य क्रमाद्ध्येयैकगोचरम् . निवातदीपवच्चित्तं समाधिरभिधीयते .. ३५.. वृत्तयस्तु तदानीमप्यज्ञाता आत्मगोचराः . स्मरणादनुमीयन्ते व्युत्थितस्य समुत्थिताः .. ३६.. अनादाविह संसारे संचिताः कर्मकोटयः . अनेन विलयं यान्ति शुद्धो धर्मो विवर्धते .. ३७.. धर्ममेघमिमं प्राहुः समाधिं योगवित्तमाः . वर्षत्येष यथा धर्मामृतधाराः सहस्रशः .. ३८.. अमुना वासनाजाले निःशेषं प्रविलापिते . समूलोन्मूलिते पुण्यपापाख्ये कर्मसंचये .. ३९.. वाक्यमप्रतिबद्धं सत्प्राक्परोक्षावभासिते . करामलकमवद्बोधपरोक्षं प्रसूयते .. ४०.. वासनानुदयो भोग्ये वैराग्यस्य तदावधिः . अहंभावोदयाभावो बोधस्य परमावधिः .. ४१.. लीनवृत्तेरनुत्पत्तिर्मर्यादोपरतेस्तु सा . स्थितप्रज्ञो यतिरयं यः सदानन्दमश्नुते .. ४२.. ब्रह्मण्येव विलीनात्मा निर्विकारो विनिष्क्रियः . ब्रह्मात्मनोः शोधितयोरेकभावावगाहिनि .. ४३.. निर्विकल्पा च चिन्मात्रा वृत्तिः प्रज्ञेति कथ्यते . सा सर्वदा भवेद्यस्य स जीवन्मुक्त इष्यते .. ४४.. देहेन्द्रियेष्वहंभाव इदंभावस्तदन्यके . यस्य नो भवतः क्वापि स जीवन्मुक्त इष्यते .. ४५.. न प्रत्यग्ब्रह्मणोर्भेदं कदापि ब्रह्मसर्गयोः . प्रज्ञया यो विजानाति स जीवन्मुक्त इष्यते .. ४६.. साधुभिः पूज्यमानेऽस्मिन्पीड्यमानेऽपि दुर्जनैः . समभावो भवेद्यस्य स जीवन्मुक्त इष्यते .. ४७.. विज्ञातब्रह्मतत्त्वस्य यथापूर्वं न संसृतिः . अस्ति चेन्न स विज्ञातब्रह्मभावो बहिर्मुखः .. ४८.. सुखाद्यनुभवो यावत्तावत्प्रारब्धमिष्यते . फलोदयः क्रियापूर्वो निष्क्रियो नहि कुत्रचित् .. ४९.. अहं ब्रह्मेति विज्ञानात्कल्पकोटिशतार्जितम् . संचितं विलयं याति प्रबोधात्स्वप्नकर्मवत् .. ५०.. स्वमसङ्गमुदासीनं परिज्ञाय नभो यथा . न श्लिष्यते यतिः किंचित्कदाचिद्भाविकर्मभिः .. ५१.. न नभो घटयोगेन सुरागन्धेन लिप्यते . तथात्मोपाधियोगेन तद्धर्मे नैव लिप्यते .. ५२.. ज्ञानोदयात्पुरारब्धं कर्म ज्ञानान्न नश्यति . अदत्त्वा स्वफलं लक्ष्यमुद्दिश्योत्सृष्टबाणवत् .. ५३.. व्याघ्रबुद्ध्या विनिर्मुक्तो बाणः पश्चात्तु गोमतौ . न तिष्ठति भिनत्त्येव लक्ष्यं वेगेन निर्भरम् .. ५४.. अजरोऽस्म्यमरोऽस्मीति य आत्मानं प्रपद्यते . तदात्मना तिष्ठतोऽस्य कुतः प्रारब्धकल्पना .. ५५.. प्रारब्धं सिद्ध्यति तदा यदा देहात्मना स्थितिः . देहात्मभावो नैवेष्टः प्रारब्धं त्यज्यतामतः .. ५६.. प्रारब्धकल्पनाप्यस्य देहस्य भ्रान्तिरेव हि .. ५७.. अध्यस्तस्य कुतस्तत्त्वमसत्यस्य कुतो जनिः . अजातस्य कुतो नाशः प्रारब्धमसतः कुतः .. ५८.. ज्ञानेनाज्ञानकार्यस्य समूलस्य लयो यदि . तिष्ठत्ययं कथं देह इति शङ्कावतो जडान् . समाधातुं बाह्यदृष्ट्या प्रारब्धं वदति श्रुतिः .. ५९.. न तु देहादिसत्यत्वबोधनाय विपश्चिताम् . परिपूर्णमनाद्यन्तमप्रमेयमविक्रियम् .. ६०.. सद्घनं चिद्घनं नित्यमानन्दघनमव्ययम् . प्रत्यगेकरसं पूर्णमनन्तं सर्वतोमुखम् .. ६१.. अहेयमनुपादेयमनाधेयमनाश्रयम् . निर्गुणं निष्क्रियं सूक्ष्मं निर्विकल्पं निरञ्जनम् .. ६२.. अनिरूप्यस्वरूपं यन्मनोवाचामगोचरम् . सत्समृद्धं स्वतःसिद्धं शुद्धं बुद्धमनोदृशम् .. ६३.. स्वानुभूत्या स्वयं ज्ञात्वा स्वमात्मानमखण्डितम् . स सिद्धः सुसुखं तिष्ठ निर्विकल्पात्मनात्मनि .. ६४.. क्व गतं केन वा नीतं कुत्र लीनमिदं जगत् . अधुनैव मया दृष्टं नास्ति किं महदद्भुतम् .. ६५.. किं हेयं किमुपादेयं किमन्यत्किं विलक्षणम् . अखण्डानन्दपीयूषपूर्णब्रह्ममहार्णवे .. ६६.. न किंचिदत्र पश्यामि न शृणोमि न वेद्म्यहम् . स्वात्मनैव सदानन्दरूपेणास्मि स्वलक्षणः .. ६७.. असङ्गोऽहमनङ्गोऽहमलिङ्गोऽहं हरिः . प्रशान्तोऽहमनन्तोऽहं परिपूर्णश्चिरन्तनः .. ६८.. अकर्ताहमभोक्ताहमविकारोऽहमव्ययः . शुद्ध बोधस्वरूपोऽहं केवलोऽहं सदाशिवः .. ६९.. एतां विद्यामपान्तरतमाय ददौ . अपान्तरतमो ब्रह्मणे ददौ . ब्रह्मा घोराङ्गिरसे ददौ . घोराङ्गिरा रैक्वाय ददौ . रैक्वो रामाय ददौ . रामः सर्वेभ्यो भूतेभ्यो ददावित्येतन्निर्वाणानुशासनं वेदानुशासनं वेदानुशासनमित्युपनिषत् .. ॐ पूर्णमदः पूर्णमिदं पूर्णात्पूर्णमुदच्यते . पूर्णस्य पूर्णमादाय पूर्णमेवावशिष्यते .. ॐ शान्तिः शान्तिः शान्तिः .. हरिः ॐ तत्सत् .. इति अध्यात्मोपनिषत्समाप्ता ..