अक्षि उपनिषद्
From Wikisource
.. अक्ष्युपनिषत् .. यत्सप्तभूमिकाविद्यावेद्यानन्दकलेवरम् . विकलेवरकैवल्यं रामचन्द्रपदं भजे .. ॐ सह नाववतु सह नौ भुनक्तु सह वीर्यं करवावहै . तेजस्विनावधीतमस्तु मा विद्विषावहै .. ॐ शान्तिः शान्तिः शान्तिः .. हरिः ॐ .. अथ ह सांकृतिर्भगवानादित्यलोकं जगाम . तमादित्यं नत्वा चाक्षुष्मतीविद्यया तमस्तुवत् . ॐ नमो भगवते श्रीसूर्या- याक्षितेजसे नमः . ॐ खेचराय नमः . ॐ महासेनाय नमः . ॐ तमसे नमः . ॐ रजसे नमः . ॐ सत्त्वाय नमः . ॐ असतो मा सद्गमय . तमसो मा ज्योतिर्गमय . मृत्योर्माऽमृतं गमय . हंसो भगवा- ञ्छुचिरूपः प्रतिरूपः . विश्वरूपं घृणिनं जातवेदसं हिरण्मयं ज्योतीरूपं तपन्तम् . सहस्ररश्मिः शतधा वर्तमानः पुरुषः प्रजानामुदयत्येष सूर्यः . ॐ नमो भगवते श्रीसूर्यायादित्यायाक्षितेजसेऽहोवाहिनि वाहिनि स्वाहेति . एवं चाक्षुष्मतीविद्यया स्तुतः श्रीसूर्यनारायणः सुप्रीतोऽब्रवीच्चाक्षुष्मती- विद्यां ब्राह्मणो यो नित्यमधीते न तस्याक्षिरोगो भवति . न तस्य कुलेऽन्धो भवति . अष्टौ ब्राह्मणान्ग्राहयित्वाथ विद्यासिद्धिर्भवति . य एवं वेद स महान्भवति .. १.. अथ ह सांकृतिरादित्यं पप्रच्छ भगवन्- ब्रह्मविद्यां मे ब्रूहीति . तमादित्यो होवाच . सांकृते शृणु वक्ष्यामि तत्त्वज्ञानं सुदुर्लभम् . येन विज्ञातमात्रेण जीवन्मुक्तो भविष्यसि ..१.. सर्वमेकमजं शान्तमनन्तं ध्रुवमव्ययम् . पश्यन्भूतार्थचिद्रूपं शान्त आस्व यथासुखम् .. २.. अवेदनं विदुर्योगं चित्तक्षयमकृत्रिमम् . योगस्थः कुरु कर्माणि नीरसो वाथ मा कुरु .. ३.. विरागमुपयात्यन्तर्वासनास्वनुवासरम् . क्रियासूदाररूपासु क्रमते मोदतेऽन्वहम् .. ४.. ग्राम्यासु जडचेष्टासु सततं विचिकित्सते . नोदाहरति मर्माणि पुण्यकर्माणि सेवते .. ५.. अनन्योद्वेगकारीणि मृदुकर्माणि सेवते . पापाद्बिभेति सततं न च भोगमपेक्षते .. ६.. स्नेहप्रणयगर्भाणि पेशलान्युचितानि च . देशकालोपपन्नानि वचनान्यभिभाषते .. ७.. मनसा कर्मणा वाचा सज्जनानुपसेवते . यतः कुतश्चिदानीय नित्यं शास्त्राण्यवेक्षते .. ८.. तदासौ प्रथमामेकां प्राप्तो भवति भूमिकाम् . एवं विचारवान्यः स्यात्संसारोत्तरणं प्रति .. ९.. स भूमिकावानित्युक्तः शेषस्त्वार्य इति स्मृतः . विचारनाम्नीमितरामागतो योगभूमिकाम् .. १०.. श्रुतिस्मृतिसदाचारधारणाध्यानकर्मणः . मुख्यया व्याख्ययाख्याताञ्छ्रयति श्रेष्ठपण्डितान् .. ११.. पदार्थप्रविभागज्ञः कार्याकार्यविनिर्णयम् . जानात्यधिगतश्चान्यो गृहं गृहपतिर्यथा .. १२.. मदाभिमानमात्सर्यलोभमोहातिशायिताम् . बहिरप्यास्थितामीषत्यजत्यहिरिव त्वचम् .. १३.. इत्थंभूतमतिः शास्त्रगुरुसज्जनसेवया . सरहस्यमशेषेण यथावदधिगच्छति .. १४.. असंसर्गाभिधामन्यां तृतीयां योगभूमिकाम् . ततः पतत्यसौ कान्तः पुष्पशय्यामिवामलाम् .. १५.. यथावच्छास्त्रवाक्यार्थे मतिमाधाय निश्चलाम् . तापसाश्रमविश्रान्तैरध्यात्मकथनक्रमैः . शिलाशय्यासनासीनो जरयत्यायुराततम् .. १६.. वनावनिविहारेण चित्तोपशमशोभिना . असङ्गसुखसौख्येन कालं नयति नीतिमान् .. १७.. अभ्यासात्साधुशास्त्राणां करणात्पुण्यकर्मणाम् . जन्तोर्यथावदेवेयं वस्तुदृष्टिः प्रसीदति .. १८.. तृतीयां भूमिकां प्राप्य बुद्धोऽनुभवति स्वयम् .. १९.. द्विप्रकारसंसर्गं तस्य भेदमिमं श्रुणु . द्विविधोऽयमसंसर्गः सामान्यः श्रेष्ठ एव च .. २०.. नाहं कर्ता न भोक्ता च न बाध्यो न च बाधकः . इत्यसंजनमर्थेषु सामान्यासङ्गनामकम् .. २१.. प्राक्कर्मनिर्मितं सर्वमीश्वराधीनमेव वा . सुखं वा यदि वा दुःखं कैवात्र तव कर्तृता .. २२.. भोगाभोगा महारोगाः संपदः परमापदः . वियोगायैव संयोगा आधयो व्याधयो धियाम् .. २३.. कालश्च कलनोद्युक्तः सर्वभावाननारतम् . अनास्थयेति भावानां यदभावनमान्तरम् . वाक्यार्थलब्धमनसः समान्योऽसावसङ्गमः .. २४.. अनेन क्रमयोगेन संयोगेन महात्मनाम् . नाहं कर्तेश्वरः कर्ता कर्म वा प्राक्तनं मम .. २५.. कृत्वा दूरतरे नूनमिति शब्दार्थभावनम् . यन्मौनमासनं शान्तं तच्छ्रेष्ठासङ्ग उच्यते .. २६.. सन्तोषामोदमधुरा प्रथमोदेति भूमिका . भूमिप्रोदितमात्रोऽन्तरमृताङ्कुरिकेव सा .. २७.. एषा हि परिमृष्टान्तः संन्यासा प्रसवैकभूः . द्वितीयां च तृतीयां च भूमिकां प्राप्नुयात्ततः .. २८.. श्रेष्ठा सर्वगता ह्येषा तृतीया भूमिकात्र हि . भवति प्रोज्झिताशेषसंकल्पकलनः पुमान् .. २९.. भूमिकात्रितयाभ्यासादज्ञाने क्षयमागते . समं सर्वत्र पश्यन्ति चतुर्थीं भूमिकां गताः .. ३०.. अद्वैते स्थैर्यमायाते द्वैते च प्रशमं गते . पश्यन्ति स्वप्नवल्लोकं चतुर्थीं भूमिकां गताः .. ३१.. भूमिकात्रितयं जाग्रच्चतुर्थी स्वप्न उच्यते .. ३२.. चित्तं तु शरदभ्रांशविलयं प्रविलीयते . सत्त्वावशेष एवास्ते पञ्चमीं भूमिकां गतः .. ३३.. जगद्विकल्पो नोदेति चित्तस्यात्र विलापनात् . पञ्चमीं भूमिकामेत्य सुषुप्तपदनामिकाम् . शान्ताशेषविशेषांशस्तिष्ठत्यद्वैतमात्रकः .. ३४.. गलितद्वैतनिर्भासो मुदितोऽतःप्रबोधवान् . सुषुप्तमन एवास्ते पञ्चमीं भूमिकां गतः .. ३५.. अन्तर्मुखतयातिष्ठन्बहिर्वृत्तिपरोऽपि सन् . परिश्रान्ततया नित्यं निद्रालुरिव लक्ष्यते .. ३६.. कुर्वन्नभ्यासमेतस्यां भूमिकायां विवासनः . षष्ठीं तुर्याभिधामन्यां क्रमात्पतति भूमिकाम् .. ३७.. यत्र नासन्नसद्रूपो नाहं नाप्यहंकृतिः . केवलं क्षीणमननमास्तेऽद्वैतेऽतिनिर्भयः .. ३८.. निर्ग्रन्थिः शान्तसन्देहो जीवन्मुक्तो विभावनः . अनिर्वाणोऽपि निर्वाणश्चित्रदीप इव स्थितः .. ३९.. षष्ठ्यां भूमावसौ स्थित्वा सप्तमीं भूमिमाप्नुयात् .. ४०.. विदेहमुक्ततात्रोक्ता सप्तमी योगभूमिका . अगम्या वचसां शान्ता सा सीमा सर्वभूमिषु .. ४१.. लोकानुवर्तनं त्यक्त्वा त्यक्त्वा देहानुवर्तनम् . शास्त्रानुवर्तनं त्यक्त्वा स्वाध्यासापनयं कुरु .. ४२.. ओङ्कारमात्रमखिलं विश्वप्राज्ञादिलक्षणम् . वाच्यवाच्यकताभेदाभेदेनानुपलब्धितः .. ४३.. अकारमात्रं विश्वः स्यादुकारतैजसः स्मृतः . प्राज्ञो मकार इत्येवं परिपश्येत्क्रमेण तु .. ४४.. समाधिकालात्प्रागेव विचिन्त्यातिप्रयत्नतः . स्थुलसूक्ष्मक्रमात्सर्वं चिदात्मनि विलापयेत् .. ४५.. चिदात्मानं नित्यशुद्धबुद्धमुक्तसदद्वयः . परमानन्दसन्देहो वासुदेवोऽहओमिति .. ४६.. आदिमध्यावसानेषु दुःखं सर्वमिदं यतः . तस्मात्सर्वं परित्यज्य तत्त्वनिष्ठो भवानघ .. ४७.. अविद्यातिमिरातीतं सर्वाभासविवर्जितम् . आनन्दममलं शुद्धं मनोवाचामगोचरम् .. ४८.. प्रज्ञानघनमानन्दं ब्रह्मास्मीति विभावयेत् .. ४९.. इत्युपनिषत् .. ॐ सह नाववतु . सह नौ भुनक्तु . सह वीर्यं करवावहै . तेजस्विनावधीतमस्तु मा विद्विषावहै .. ॐ शान्तिः शान्तिः शान्तिः .. हरिः ॐ तत्सत् .. इत्यलक्ष्युपनिषत् ..